विदिशामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विदिशामण्डलम्

Vidisha District
विदिशा जिला
विदिशामण्डलम्
विदिशामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे विदिशामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे विदिशामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि विदिशा, सिरोज, कुरवाई, लटेरी, शमशाबाद, नाटेरा, बासोदा, टिवण्डा, गुलाबगञ्ज, ग्यारसपुर
विस्तारः ७,३७१ च. कि. मी.
जनसङ्ख्या (२०११) १४,५८,८७५
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७०.५३%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४४.५%
Website http://www.vidisha.nic.in/

विदिशामण्डलम् ( /ˈvɪdɪʃɑːməndələm/) (हिन्दी: विदिशा जिला, आङ्ग्ल: Vidisha district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति विदिशा इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

विदिशामण्डलस्य विस्तारः ७,३७१ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सागरमण्डलं, पश्चिमे भोपालमण्डलम्, उत्तरे अशोकनगरमण्डलं, दक्षिणे रायसेनमण्डलम् अस्ति । अस्मिन् मण्डले बेटवानदी, सिन्धनदी च प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं विदिशामण्डलस्य जनसङ्ख्या १४,५८,८७५ अस्ति । अत्र ७,६९,५६८ पुरुषाः, ६,८९,३०७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.०९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९६ अस्ति । अत्र साक्षरता ७०.५३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- विदिशा, सिरोज, कुरवाई, लटेरी, शमशाबाद, नाटेरा, बासोदा, टिवण्डा, गुलाबगञ्ज, ग्यारसपुर ।

वीक्षणीयस्थलानि[सम्पादयतु]

उदयगिरि-गुहा[सम्पादयतु]

उदयगिरि-गुहा पर्वतात् निर्मिता अस्ति । इदं स्थलं विदिशा-नगरात् ६ कि. मी. दूरे स्थितमस्ति । इदं स्थलं बेस एवं बेटवा इत्येतयोः नद्योर्मध्ये स्थितमस्ति । अत्र बहूनि मन्दिराणि अपि सन्ति । एतानि मन्दिराणि उदयगिरिमन्दिराणि इति कथ्यन्ते । इदं स्थलं प्राकृतिकसौन्दर्ययुक्तम् अस्ति । पर्यटकाः भ्रमणार्थं तत्र गच्छन्ति ।

उदयेश्वर-मन्दिरम्[सम्पादयतु]

उदयेश्वर-मन्दिरं बासोदा-उपमण्डलस्य उदयपुर-ग्रामे स्थितमस्ति । अस्मिन् मन्दिरे एकः प्राचीनसंस्कृतशिलालेखः अस्ति । उदयपुर-ग्रामः परमार-वंशीयेन राज्ञा उदयादित्येन अन्वेषितः । सिंरोज नगरस्य समीपं सेमरखेड़ी दर्शनीय अस्ति ।तै एक तीर्थस्थलं अस्ति। |Center = विदिशामण्डलम् |East = सागरमण्डलम् |West = भोपालमण्डलम् |North = अशोकनगरमण्डलम् |South = रायसेनमण्डलम् }}

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.vidisha.nic.in/ Archived २०१०-०९-१८ at the Wayback Machine
http://www.census2011.co.in/census/district/310-vidisha.html

"https://sa.wikipedia.org/w/index.php?title=विदिशामण्डलम्&oldid=480955" इत्यस्माद् प्रतिप्राप्तम्