श्योपुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्योपुरमण्डलम्

Sheopur District
श्योपुर जिला
श्योपुरमण्डलम्
श्योपुरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे श्योपुरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे श्योपुरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि श्योपुरम्, बडोदा, करहल, विजयपुर, बीरपुर
विस्तारः ६,६०६ च. कि. मी.
जनसङ्ख्या (२०११) ६,८७,८६१
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ५७.४३%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४५%
Website http://sheopur.nic.in/

श्योपुरमण्डलम् ( /ˈʃjpʊrəməndələm/) (हिन्दी: श्योपुर जिला, आङ्ग्ल: Sheopur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य चम्बलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति श्योपुरम् इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

श्योपुरमण्डलस्य विस्तारः ६,६०६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे शिवपुरीमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे राजस्थानराज्यं, दक्षिणे राजस्थानराज्यम् अस्ति । अस्मिन् मण्डले चम्बलनदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् श्योपुरमण्डलस्य जनसङ्ख्या ६,८७,८६१ अस्ति । अत्र ३,६१,७८४ पुरुषाः, ३,२६,०७७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १०४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १०४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.९४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०१ अस्ति । अत्र साक्षरता ५७.४३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- श्योपुरम्, बडोदा, करहल, विजयपुर, बीरपुर ।

वीक्षणीयस्थलानि[सम्पादयतु]

ध्रुवकुण्डः, उठनवाड शिवनाथ, निमोदा मठ, पनवारा-देवी-मन्दिरं, सिरोही हनुमान-मन्दिरं, जल-मन्दिरम्, कुनो वाइल्ड लाईफ् सेङ्क्चुअरी इत्येतानि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://sheopur.nic.in/
http://www.census2011.co.in/census/district/285-sheopur.html

"https://sa.wikipedia.org/w/index.php?title=श्योपुरमण्डलम्&oldid=463996" इत्यस्माद् प्रतिप्राप्तम्