सीहोरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सीहोरमण्डलम्

Sehore District
सीहोर जिला
सीहोरमण्डलम्
सीहोरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे सीहोरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे सीहोरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि सीहोर, श्यामपुर, जावर, आसता, इच्छावर, नसरुल्लागञ्ज, रेहती, बडनी
विस्तारः ६,५७८ च. कि. मी.
जनसङ्ख्या (२०११) १३,११,३३२
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७०.०६%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४५.५%
Website http://www.sehore.nic.in/

सीहोरमण्डलम् ( /ˈshrəməndələm/) (हिन्दी: सीहोर जिला, आङ्ग्ल: Sehore district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सीहोर इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

सीहोरमण्डलस्य विस्तारः ६,५७८ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे रायसेनमण्डलं, पश्चिमे देवासमण्डलम्, उत्तरे शाजापुरमण्डलं, दक्षिणे हरदामण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं सीहोरमण्डलस्य जनसङ्ख्या १३,११,३३२ अस्ति । अत्र ६,८३,७४३ पुरुषाः, ६,२७,५८९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९९ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.५४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१८ अस्ति । अत्र साक्षरता ७०.०६% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- सीहोर, श्यामपुर, जावर, आसता, इच्छावर, नसरुल्लागञ्ज, रेहती, बडनी ।

वीक्षणीयस्थलानि[सम्पादयतु]

गणेश-मन्दिरम्[सम्पादयतु]

गणेश-मन्दिरं गोपालपुर-ग्रामे स्थितमस्ति । प्रत्येकस्मिन् बुधवासरे बहवः भक्ताः दर्शनार्थं तत्र गच्छन्ति । तत्र गणेशचतुर्थीमहोत्सवः प्रसिद्धः अस्ति ।

कुंवर चैनसिंह समाधि[सम्पादयतु]

कुंवर चैनसिंह समाधि ’दशहरावाला मैदान’ तः २ कि. मी. दूरे अस्ति । ’दशहरावाला मैदान’ इति इदं स्थलं लोटियानदीतटे स्थितमस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.sehore.nic.in/ Archived २०१४-०६-२२ at the Wayback Machine
http://www.census2011.co.in/census/district/312-sehore.html

"https://sa.wikipedia.org/w/index.php?title=सीहोरमण्डलम्&oldid=481852" इत्यस्माद् प्रतिप्राप्तम्