अनूपपुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अनूपपुरमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
अनूपपुरमण्डलम्

Anuppur District
अनूपपुर जिला
अनूपपुरमण्डलम्
अनूपपुरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे अनूपपुरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे अनूपपुरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि अनूपपुरम्, जैठारी, कोतमा, पुष्पराजगढ
विस्तारः ३,७४७ च. कि. मी.
जनसङ्ख्या (२०११) ७,४९,२३७
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६७.८८%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://anuppur.nic.in/

अनूपपुरमण्डलम् ( /ˈənpəpʊrəməndələm/) (हिन्दी: अनूपपुर जिला, आङ्ग्ल: Anuppur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य शहडोलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अनूपपुरम् इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

अनूपपुरमण्डलस्य विस्तारः ३,७४७ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे कोरियामण्डलं, पश्चिमे उमरियामण्डलम्, उत्तरे शहडोलमण्डलं, दक्षिणे डिण्डोरीमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् अनूपपुरमण्डलस्य जनसङ्ख्या ७,४९,२३७ अस्ति । अत्र ३,७९,११४ पुरुषाः, ३,७०,१२३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.३०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७६ अस्ति । अत्र साक्षरता ६७.८८% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- १ अनूपपुरम् २ जैठारी ३ कोतमा ४ पुष्पराजगढ ।

कृषिः वाणिज्यं च[सम्पादयतु]

अस्मिन् मण्डले वन्यविस्तारः अधिकः यत्र वरदारुः, ’सराई’, ’शीशम’ इत्यादयः वृक्षाः दृश्यन्ते । एतानि एव अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखानि वन्योत्पादनानि सन्ति । अस्मिन् मण्डले १०६ यन्त्रागाराः सन्ति । मदिरायाः निर्माणे महुवानामकस्य पुष्पस्य उपयोगः अस्मिन् मण्डले भवति इति विशेषः ।

वीक्षणीयस्थलानि[सम्पादयतु]

अमरकण्टकम्[सम्पादयतु]

अमरकण्टक-नगरम् अनूपपुरात् ७१ कि. मी. दूरे अस्ति । भगवतः शिवस्य, तस्य पुत्र्याः च कथा अत्र प्रचलिता अस्ति । नर्मदा एतन्नगरं परितः प्रवहति । अस्मिन् नगरे नर्मदामातुः द्वादशाधिकानि मन्दिराणि सन्ति । एतन्नगरं परितः वन्यविस्तारः अपि वर्तते । अतः अत्र अनेकाः औषधवृक्षाः सन्ति, यथा- ब्राह्मी, तेजराजः, भोजराजः, जटाशङ्करी, अष्टगन्धा इत्यादयः ।

नर्मदामातामन्दिरम्[सम्पादयतु]

नर्मदामातुः मन्दिरे एकः कुण्डः अस्ति । अयं कुण्डः नर्मदानद्याः प्रवाहेन निर्मितः जातः । इदं मन्दिरम् अमरकण्टके बहुमहत्वपूर्णमस्ति । तत्र सतीदेव्याः एकं मन्दिरम् अस्ति । तस्मिन् पार्वत्याः सुन्दरा प्रतिमा अस्ति ।

कपिलधारा[सम्पादयतु]

इदं स्थलं नर्मदायाः उद्गमस्थानात् अमरकण्टकात् ८ कि. मी. दूरे अस्ति । अत्र १०० ’फीट’ उन्नतः जलप्रपातः अस्ति । इदं बहुरमणीयस्थलम् अस्ति ।

सर्वोदयजैनमन्दिरम्[सम्पादयतु]

अस्य मन्दिरस्य निर्माणम् अधुना प्रचलति । वज्रचूर्णलोहाभ्यां विना एव इदं मन्दिरं निर्मीयमाणम् अस्ति इति विशेषः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://anuppur.nic.in/
http://www.bharatbrand.com/english/mp/districts/Anuppur/Anuppur.html

"https://sa.wikipedia.org/w/index.php?title=अनूपपुरमण्डलम्&oldid=394618" इत्यस्माद् प्रतिप्राप्तम्