कुमारी पिङ्गला
पिङ्गळायाः बाल्यम्
[सम्पादयतु]उत्तरभारतस्य कन्याकुब्जे प्रदेशे पिङ्गळनामकः ब्राह्मणः आसीत् । सः विद्वान्, ज्ञानध्यानरतः, स्वाध्यायसम्पन्नः च आसीत् । एतस्य पत्नी पिङ्गाक्षी पतिव्रता सुशीला च आसीत् । एतयोः दम्पत्योः काचित् सुन्दरी पुत्री आसीत् । तस्याः पिङ्गळा इति नामकरणं कृतम्। पिङ्गळस्य पुत्र्याः पिङ्गळायाः विषये अतीवप्रीतिः आसीत् । दुरदृष्टवशात् पत्नी पिङ्गाक्षी रोगेण मृता जाता । एतेन पिङ्गळस्य असहनीयः आघातः अभवत् । तस्य नगरस्य जीवनं दुःखकरम् अभवत् । सः पुत्र्या सह अरण्यं गत्वा ऋषिमुनीनां मध्ये वासं कर्तुं निश्चितवान् । अरण्यं गत्वा कुटीरं निर्मीय, कन्दमूलफलानि खादन्, तपः आचरन् परमात्मनः अर्चनायां कालयापनं कुर्वन् आसीत् । एतेन सह पुत्र्या सह प्रीतिः अपि अधिका जाता । सर्वदा सा आत्मना सः भवेत् इत्यनेन तस्याः वयः जातः चेदपि विवाहं न कृतवान् । एतेन कारणेन एव संन्यासमपि न स्वीकृतवान् आसीत् । कालान्तरे अनारोग्यकारणात् कदाचित् पिङ्गळः मृत्युवशः अभवत् । इदानीं पिङ्गळा अनाथा, अनाश्रिता च जाता । पितृशोकेन व्याकुलतया सा विलपन्ती आसीत् । आत्महत्यया विना अन्यमार्गं सा न ज्ञातवती । परन्तु आत्माघातेन एतां ऋषिकन्याः निवारितवत्यः आसन् । मुनयः तस्याः समाधानं कारयितुं यत्नं कुर्वन्तः आसन् ।
धर्मदेवस्य उपदेशः
[सम्पादयतु]किन्तु एतेन तस्याः दुःखं किञ्चिदपि दूरं न गतम् । तदा धर्मदेवः करुणया कस्यचित् ब्राह्मणस्य रूपं धृत्वा तस्याः समीपम् आगत्य सान्त्वनं कारयन् – "एतस्मात् लोकात् गमनानन्तरं कोऽपि पुनः अत्र न आगच्छति । भवत्याः पितुः निमित्तं शोकः व्यर्थः । शरीरात् यदा पृथक् भवति तदा शरीरसम्बन्धेन ममकारेणापि जीवः दूरं गच्छति । पिता, पुत्री इत्यादयः ममकाराः न अवशिष्यन्ते । एतस्मिन् संसारसागरे सर्वे कालरूपितरङ्गानाम् उपरि तृणाः इव मिलित्वा अनन्तरं पृथग्भूत्वा प्रवाहेन सह गत्वा काले लीनाः भवन्ति । तद् मया कृतम्, एतद् कृतम् इत्यादयः इच्छाः एव जीवस्य तन्नाम मानवरूपस्य जनन-मरणस्य च कारणीभूताः भवन्ति । भवती भवत्याः पूर्वकर्मफलेन एव एतानि कष्टानि अनुभवन्ती अस्ति ।“
पिङ्गळायाः पूर्वजन्मवृत्तान्तम्
[सम्पादयतु]"भवती भवत्याः पूर्वजन्मनि वीणा-वेणु वाद्ययोः निपुणा, नृत्य- गीत- कला प्रवीणा, परमसुन्दरी च वेश्या आसीत् । भवत्याः इदानीन्तनस्य जन्मनः पिता पूर्वजन्मनि कश्चित् ब्राह्मणकुमारः,सन् भवत्याः समीपे भवति स्म । किन्तु अन्यः कश्चन शूद्रप्रेमी भवतीं बहुइच्छति स्म । ब्राह्मणस्य बहुद्वेषं करोति स्म । अतः कदाचित् सः शूद्रः भवत्याः प्रीतिं कुर्वतं ब्राह्मणं मारितवान् । एतेन तस्य ब्राह्मणकुमारस्य मातापितरौ बहु दुःखितौ जातौ । पुत्रस्य मृत्योः कारणं भवती एव इति मत्वा तौ भवत्यै शापं यच्छन्तौ "जन्मान्तरेऽपि भवती मातापितृविहीना भवतु । पतिः अपि न लभ्यताम्” इति उक्तवन्तौ । एतेन कारणेन अस्मिन् जन्मनि भवत्या तानि शापफलानि सोढव्यानि । पूर्वजन्मनः आसक्त्याः कारणतः एव भवत्याः पिता भवतीं समीपे एव स्थापयन् पतिगृहम् प्रेषयितुमपि असमर्थः जातः” इति उक्तवान् । एवं तस्याः पूर्वजन्मनः परिचयं कारयित्वा तस्याः सान्त्वनं कारितवान् । "अहं काचित् नीचवेश्या आसम् । तन्नाम जीवने पतिता आसम् । तर्हि कथम् अहम् उत्तमे ब्राह्मणकुले जन्म प्राप्तवती” ? इति पिङ्गळा जिज्ञासाम् आरब्धवती । तदा सः ब्राह्मणवेषधारी धर्मदेवः "कदाचित् विषयलोलुपः ब्राह्मणः कश्चित् धनलोभेन चौर्यं कर्तुं प्रयत्नं कृतवान् । तस्मिन् समये राजभटाः तं गृहीतवन्तः । तस्मै शूलारोपणस्य दण्डनं घोषितम् अभविष्यत् । एतादृशः अपराधः ब्राह्मणेन क्रियते चेदपि दण्डनं करणीयम् इति धर्मशास्त्रं वदति इति तत्रत्यः राजा ज्ञातवान् आसीत् । अतः सः दण्डनं दातव्यमेव इति चिन्तितवान् आसीत् । किन्तु भवती भवत्याः नृत्यगीतादिभिः राजानं प्रसन्नं कारयित्वा यथेष्टं धनं दत्त्वा तं ब्राह्मणं मरणदण्डनात् निवारितवती आसीत् । अनन्तरं भवती तं भवत्याः गृहं प्रति आनीय, उत्तमरीत्या तस्य सत्कारं कृत्वा तस्य सन्तोषं कारितवती । एतेन पुण्येन भवती विप्रकुले जन्म प्राप्तवती …….” इति स्पष्टीकरणं दत्तवान् ।
शिवभक्ता पिङ्गळा
[सम्पादयतु]तदा पिङ्गला "अहं बहुनीचा, बहुपापिनी च अस्मि । अस्मिन् जन्मनि अपि मम आश्रयदातारः न सन्ति । स्त्रिया स्वतन्त्रतया जीवनं कर्तुं न शक्यते । "न स्त्री स्वातन्त्र्यमर्हति” इत्यस्य ऋषिवाक्यमेव अत्र प्रमाणम् । तथा यदि एकाकिनी स्थातुं ऋषिवाक्यस्य विरुद्धं जीवितुं च शक्नोति चेत् तस्याः विषये ज्येष्ठानां निर्बन्धाः न सन्ति चेत् सा अधिकस्वेच्छया, नैतिकपतनम् अनुभवति । इदानीं मया किं करणीयम् इति भवान् एव वदतु स्वामिन् ! कथं मम मुक्तिः भवेत् इति सूचयतु” इति निर्मलचित्तेन सा पृष्टवती । इदानीं तस्याः शोकः दूरङ्गतः आसीत् । समस्यायाः गभीरतां ज्ञातवती आसीत् इत्यनेन, पिङ्गळा स्वस्य कर्तव्यस्य पालनं कर्तुम् इच्छति स्म । तदा सः ब्राह्मणः "महाकालवननामकं गुप्तं पवित्रं च क्षेत्रम् अस्ति । एतद् क्षेत्रं मोक्षप्रदम् इति वदन्ति । एवं वक्तुं शास्त्रपुराणस्य आधाराणि अपि सन्ति । एतद् एकयोजनाविस्तीर्णमितं दिव्यक्षेत्रम् अस्ति । एतस्य क्षेत्रस्य पूर्वदिशि बहुप्रभावयुक्तं शिवलिङ्गम् अस्ति । भवती तत्र गत्वा तस्य दर्शनं करोतु” एवम् उक्त्वा धर्मदेवः अन्तर्हितः अभवत् । स्वस्य पितुः अपरकर्माणि शास्त्राधाररीत्या समाप्य, अवशिष्टानि कार्याणि अपि समापितवती । पिङ्गळा ततः प्रस्थाय, महाकालवनं गत्वा ततः अग्रे गत्वा तस्य दिव्यलिङ्गस्य दर्शनं कृतवती । अनुक्षणम् एव तस्याः हृदयं पवित्रम् अभवत् । सा स्नानं कृत्वा शुद्धेन, एकाग्रमनसा च भगवतः शङ्करस्य ध्यानं कृत्वा तपः आरब्धवती । ध्यानं कुर्वती सा आत्मानं विस्मृतवती । कठिनं तपः आचरितवती । तस्याः जीवने अन्यद् किमपि नावशिष्टम् इत्यनेन तस्याः परलोकस्य ज्ञानम् अधिकं भवति । स्वस्य शक्तिं सर्वं सा परमात्मनि विलीनं कृतवती । तस्मिन् पवित्रे क्षेत्रे ध्यानमग्ना सा सशरीरा सती तस्मिन् लिङ्गे लीना जाता । तदारभ्य ऋषयः, महर्षिणः च सर्वे तम् अद्भुतं लिङ्गमूर्तिँ 'पिङ्गळेश्वर' नाम्ना आह्वयन्ति । अद्यापि एतेन नाम्ना एव तद् क्षेत्रं प्रसिद्धं जातम् अस्ति। ""