सुलोचना
सुलोचना रावणस्य पुत्रस्य इन्द्रजितः पत्नी । परमपतिव्रता इति प्रसिद्धा ।
तपनस्तप्यतेऽत्यन्तं दहनोऽपि हि दह्यते ।
कल्पन्ते सर्वतेजांसि दृष्ट्वा पतिव्रतं महः ॥
पतिव्रतायाः तेजसः सूर्यः अपि शोकं प्राप्नोति । अग्निः प्रज्वलति । यत्र किञ्चित् तेजः भवति पातिव्रत्यस्य तेजसः प्रभावेण तत्र अधिक तेजसः उत्पत्तिः भवति ।
इन्द्रजितः पराक्रमः
[सम्पादयतु]इन्द्रजित् मन्दोदरीरावणयोः पुत्रः । जन्मनः समनन्तरं एषः मेघवत् शब्दं कृतवान् इत्यनेन एतस्य ‘मेघनादः’ इति नामकरणं कृतवन्तः । रावणस्य शत्रुम् इन्द्रं जितवान् इत्यनेन ‘इन्द्रजित्’ इति प्रसिद्धः जातः । श्रीरामः यदा लङ्कायाः उपरि आक्रमणं कृतवान् आसीत् तदानीन्तनयुद्धेषु मेघनादः स्वस्य शक्तेः, सामर्थ्यस्य च प्रदर्शनं कृतवान् आसीत् । सीतान्वेषणार्थं यदा हनुमान् लङ्कां गतवान् आसीत् तदा मेघनादः ब्रह्मास्त्रेन तं बद्ध्वा रावणस्य पुरतः तं स्थगितवान् आसीत् । अनन्तरं जाते युद्धे एषः अङ्गदं जित्वा, नागपाशेन रामलक्ष्मणौ मूर्छितौ कृतवान् आसीत् । कुम्भकर्णस्य पतनानन्तरं वानरसैन्यं नाशयित्वा, पुनरेकवारं रामलक्ष्मणौ मूर्छितौ कृतवान् । एषः ‘निकुम्भिळा’ यागं कृत्वा मायासीतां कल्पयित्वा, स्वस्य रथे उपवेश्य, रणभूमिं प्रति आनीय, तां मायासीतां मारयित्वा सुग्रीवादिजनानां मनोक्लेशं जनितवान् । एतादृशस्य वीरस्य पत्नी एव सुलोचना । एषा पतिपारायणा, व्रतनिष्ठा, धर्मव्रता च आसीत् । एतस्याः पुण्यप्रभावेन इन्द्रजित् सर्वमान्यः आसीत् । किन्तु तस्य पराक्रमाधिक्यात् यदा वानरसैन्यस्य अतीवपीडा भवति तदा लक्ष्मणः कथञ्चित् तस्य नाशस्य प्रतिज्ञां कृत्वा, युद्धभूमिं प्रति प्रस्थितवान् । तदा श्रीरामः एवं वदति-“हे लक्ष्मण ! युद्धभूमिं गत्वा भवान् भवतः पराक्रमेण, वीरत्वेन, रणकौशलेन च रावणस्य पुत्रं मेघनादं मारयिष्यति । एतद् निश्चितम् । अत्र संशयः नास्ति । किन्तु अवश्यं भवता कश्चित् विचारः ज्ञातव्यः अस्ति । मेघनादः एकपत्नीव्रतस्थः अस्ति । तस्य पत्नी परमपतिव्रता । एतादृश्याः साध्वीपत्न्याः पत्युः मस्तकं यदि युद्धभूमौ पतिष्यति तर्हि अस्माकं सैन्यस्य निर्नामः भविष्यति । एवं भवति चेत् अस्माकं विजयाकाङ्क्षायाः त्यागः भवेत् । अतः समरभूमौ तस्य शिरः यथा न पतेत् तथा जागरूकता आवश्यकी” इति । निकुम्भिळायागं कुर्वतः इन्द्रजितः मायाजालं ज्ञातवान् विभीषणः रामाय रहस्येन एतं विचारं वदति । तदनुसारं लक्ष्मणः वानरसैन्येन सह गत्वा इन्द्रजितं मारयति । द्वादशवर्षाणि यावत् यः ब्रह्मचर्यस्य पालनं यः कृतवान् भवति तेन एव स्वस्य मरणं भवेत् इति इन्द्रजित् ब्रह्मद्वारा वरं प्राप्तवान् आसीत् । अतः एव लक्ष्मणः तं मारयितुं शक्तवान् । किन्तु रामस्य सूचनां स्मृत्वा लक्ष्मणः इन्द्रजितः शरीरः भूमौ यथा न पतेत् तथा जागरूकः आसीत् । हनुमान् तत् शिरः आनीय अवधेशानन्दनस्य पार्श्वे स्थापयति ।
परमपतिव्रता सुलोचना
[सम्पादयतु]मेघनादस्य वामबाहुः, युद्धभूमितः आकाशमार्गेण उड्डयनं कृत्वा, पत्न्याः सुलोचनायाः पार्श्वे पतति । बाहुं दृष्ट्वा सुलोचना आश्चर्यचकिता जाता । अत्यन्ततदुःखेन सा रुदितवती । किन्तु तं बाहुं न स्पृष्टवती । यतः सः बाहुः यदि परपुरुषस्य भवेत् तर्हि …. ? एवं तर्हि परपुरुषस्य स्पर्षस्य शापः भवति किल ? अतः सत्यासत्यं निश्चेतुं सा तं बाहुं वदति “भवान् यदि मम हृदयेश्वरस्य बाहुः एव अस्ति तर्हि मम पातिव्रत्यस्य शक्त्या युद्धभूमौ घटितं सम्पूर्णं वृत्तान्तं लिखित्वा सूचयतु……” इति । तस्य बाहोः हस्ते काञ्चित् लेखनीं दत्तवन्तः । तदा सा लेखनी एवं लिखति – “प्राणप्रिये ! भवत्याः भ्रमं त्यजतु भवती । एषः बाहुः मम एव । इत्युक्ते भवत्याः पतिदेवस्य एव । युद्धभूमौ श्रीरामसहोदरेण, अपूर्वधन्विना लक्ष्मणेन सह अहं घोरं युद्धं कृतवान् । लक्ष्मणः बहुभ्यः वर्षेभ्यः पत्नीं, भोजनं, निद्रां च त्यक्तवान् अस्ति । सः दयया, क्षमया, संयमेन, सत्येन, समस्तदैवीगुणेन सम्पन्नः तेजस्वी, निःस्पृहः च अस्ति । तेन सः अहं पराक्रमेण युद्धं कृतवान् तथापि अहं मम प्रयत्ने सफलः न जातः । अन्ते तस्य बाणै हतः अहं मारितः । मम शिरः श्रीरामस्य समीपे अस्ति” इति । पत्युः बाहुना लिखितं पठीत्वा सुलोचना अतीव व्याकुलतया दुःखिता जाता । स्नुषायाः हृदयविद्रावकं प्रलापं श्रुत्वा लङ्काधिपः रावणः आगत्य तस्याः सान्त्वनं कारयति ”पुत्रि ! रोदनं न करोतु । यदा सूर्योदयः भवति, तदा सहस्रवानरमस्तकान् मम बाणैः कर्तयित्वा युद्धभूमौ पातयामि । रक्तस्य नदीम् एव प्रवाहयामि” इति । किन्तु अनुक्षणं सुलोचना चीत्कारपूर्वकं वदति-“हे पितः ! एतेन मम कीदृशः भविष्यति ? सहस्रं न, कोटिशिरांसि एतस्यां भूमौ पतन्ति चेदपि मम पत्युः शिरः न प्रत्यागच्छति । मम पत्युः प्राणाः पुनः न आगच्छन्ति । भवान् व्यर्थप्रलापं कुर्वन् अस्ति ….” इति । एवम् उक्त्वा सा राजगृहात् प्रस्थाय शिबिकाम् आरुह्य नगरात् बहिः विद्यमानं श्रीरामस्य शिबिरं प्रति आगतवती । सुलोचनायाः आगमनस्य वार्तां श्रुत्वा अनुक्षणं श्रीरामः उत्थाय तस्याः समीपम् आगत्य एवम् उक्तवान् ”देवि ! भवत्याः पतिः विश्वस्य अत्युत्तमः योधः, पराक्रमी च आसीत् । तस्मिन् अनेके सद्गुणाः आसन् । किन्तु विधेः लिखितं मार्जयितुं न शक्तवान् । भवतीम् एतादृश्यां स्थितौ पश्यन् अस्ति इति मम दुःखं भवति । भवत्याः इच्छां निवेदयतु !” इति । सुलोचना श्रीरामस्य स्तुतिं करोति । तद् श्रुत्वा श्रीरामः “मां लज्जितं न करोतु देवि !” “पतिव्रतायाः महिमा अपारा । तस्याः शक्तेः समाना शक्तिः कापि न भवति । ब्रह्म- विष्णु- महेश्वर- सुराणां समुदायः मिलित्वा तिष्ठति चेदपि तस्याः शक्तेः समानं न भवन्ति । सुलोचने ! भवती सतीमणिः, परमपतिव्रता च अस्ति । पतौ भवत्याः अपूर्वभक्तिम्, अनुरक्तिं च दर्शयन्ती अस्ति । अतः समग्रः विश्वः एव भवतीं दृष्ट्वा भयम् अनुभवति । अहं कथं भवत्याः सेवां करोमि वदतु !” इति । श्रीरामः सुलोचनायाः दीप्तिमयमुखं तदेकदृष्ट्या पश्यति । तदा सा “हे राघव ! अहं मम पतिं विना अन्यद् किमपि नेच्छामि इत्येतं विषयम् इदानीमेव भवान् उक्तवान् अस्ति । तत् सत्यमेव । पत्या सह सहगमनं कर्तुं निश्चितवती अस्मि । मम पत्युः मस्तकं प्राप्तुम् आगतवती अस्मि । कृपया तस्य मस्तकं ददातु” इति प्रार्थितवती । अनुक्षणं राघवः मेघनादस्य शिरः आनाय्य सुलोचनायै दत्तवान् । पत्युः शिरः दृष्ट्वा तस्याः हृदयं द्रवितम् अभवत् । नेत्राभ्याम् अश्रूणि प्रवहन्ति । रुदती एव सा समीपे स्थितं लक्ष्मणं वदति “ हे सुमित्रानन्दन ! भवान् मेघनादस्य संहारं कृतवान् इति विस्मृत्य अपि अभिमानं न प्रदर्शयतु । तं धराशायिनं कर्तुम् अस्मिन् जगति कोऽपि न शक्नोति । किन्तु एतद् युद्धं पतिव्रताद्वयोः मध्ये प्रवृत्तम् अस्ति । भवतः पत्नी अपि पतिव्रता एव । अहमपि मम पत्युः चरणे अनुरक्ता, तस्य अनन्योपासका अस्मि । किन्तु मम पतिदेवः पतिव्रतास्त्रियाः अपहरणं कृतवतः पितुः आश्रये आसीत् । पितुः निमित्तं युद्धभूमिं गतवान् आसीत् । सतीसीतायाः पतिव्रताधर्मेण सह ऊर्मिळायाः पतिव्रताधर्मस्य संयोगेन मम शक्तेः अतिक्रमणम् अभवत् । एतेन मम प्राणप्रियः इहलोकं त्यक्तवान् अस्ति “ इति ।
सुलोचनायाः पातिव्रत्यपरीक्षा
[सम्पादयतु]वानरगणः एतद् दृश्यं दृष्ट्वा मूकविस्मितः अभवत् । पत्युः शिरः श्रीरामस्य हस्ते अस्ति इति विषयम् एषा कथं ज्ञातवती इति वानराणां कुतूहलम् आसीत् । अन्तर्यामी श्रीरामः वानराणाम् एताम् उत्सुकतां, तान् सन्देहान् अनुमानान् निवारयन् वदति –“पतिव्रतायाः किमपि अशक्यं नास्ति !” इति । एतेन वानराणां तृप्तिः न अभवत् । एतस्य सूक्ष्मतां सुलोचना ज्ञातवती । सा स्पष्टवचनेन वदति “मम पतिदेवस्य बाहुः युद्धभूमितः उड्डयन् मम समीपम् आगत्य तत्रत्य विचारान् सर्वान् लिखित्वा मह्यम् अदर्शयत् इत्यनेन अहं सर्वं ज्ञातवती” इति । एतद् श्रुत्वा सुग्रीवः काकुध्वनिना वदति “प्राणरहितः बाहुः कथं लिखति ? मृत्युवशः एतत् शिरः यदि हसति तर्हि अहम् एतद् वचनम् अङ्गीकरोमि । अन्यथा मृतहस्तेन लिखति इति असत्यं भवति…..” इति । श्रीरामः एतद् न अङ्गीकरोति । सः वदति “व्यर्थचर्चाः न कुर्वन्तु । पतिव्रतायाः महिमां भवन्तः न जानन्ति । कर्तितं शिरः अपि हसति” इति । श्रीरामस्य मुखारविन्दं दृष्ट्वा, तस्य भावं ज्ञात्वा सुलोचना, नेत्रे निमील्य ध्यानं कृत्वा वदति “मनसि, कार्याचरणे च यदि अहं मम पतिः एव दैवः इति विश्वासेन तस्य प्रीतिं कुर्वती आसम् इति सत्यम् अस्ति तर्हि एतत् निर्जीवं, छिन्नं मस्तकं हसतु…..” इति । सुलोचनायाः वचनस्य समापनाभ्यन्तरे एव निर्जीवं मस्तकम् उच्चैः हसति । एतद् दृष्ट्वा सुग्रीवादिवानराः विस्मिताः अभवन् । तेषां संशयः दूरङ्गतः । ते तस्याः पतिव्रतायाः महिमायाः प्रभावं ज्ञातवन्तः । ततः प्रस्थातुं सज्जा सुलोचना श्रीरामचन्द्रं प्रार्थयति “ हे भगवन् ! अद्य मम पत्युः अन्त्यसंस्कारस्य दिनम् अस्ति । तस्य चिरसहचारिणी अहं तस्य मेलनार्थं गच्छन्ती अस्मि । अतः भवान् अद्य युद्धम् अकृत्वा, युद्धस्तम्भनस्य घोषणां करोतु “ इति । श्रीरामः सुलोचनायाः प्रार्थनाम् अनुक्षणम् अङ्गीकृतवान् ।
सहगमनम्
[सम्पादयतु]पतिप्रेमनिरता सुलोचना पत्युः मस्तकं स्वीकृत्य लङ्कायाः समुद्र्तटं प्रति गतवती । प्रजाः तत्र चन्दनकाष्ठैः चितां सज्जीकृतवत्यः आसन् । भयानकज्वालाभिः युक्तौ अग्नौ उपविश्य सुलोचनां पत्युः लोकं प्राप्तवती ।
""