राज्ञी पिङ्गळा
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
पतिभक्ता पिङ्गळा
[सम्पादयतु]'चन्द्रावती’ बहुसुन्दरं नगरम् । अत्र परमारवंशस्य अन्तिमः राजा हूणः राज्यशासनं करोति स्म । एतस्य पत्नी एव राज्ञी पिङ्गळा । कदाचित् राजा मृगयार्थं गतवान् आसीत् । तत्र सः किञ्चन अद्भुतं दृश्यं दृष्टवान् । राजगृहं प्रति प्रत्यागमनानुक्षणं सः तद् दृश्यं पत्न्यै विवृतवान् । तस्य ध्वनिः गद्गदितः आसीत् । नेत्रे अश्रूभिः पूर्णे आस्ताम् । व्याधसदृशेषु सामान्यजनेषु अपि तादृश्यः सतीमणयः सन्ति किल इति सः विस्मितः आसीत् । कञ्चित् व्याधं वने कश्चन सर्पः दष्टवान् । परिणामेन सः मृतः । तस्य पत्नी स्वयं चितां निर्माय पत्युः देहं तत्र संस्थाप्य अग्नेः स्पर्शं कृत्वा अनन्तरं स्वयमपि अग्निप्रवेशं कृतवती आसीत् । शरीरं दहत् अस्ति चेदपि तस्याः सतीमण्याः मुखे विषादस्य छाया अपि नासीत् । सा प्रसन्ना आसीत् । तद् दृश्यमेव स्मरतः राज्ञः वचनं श्रुत्वा राज्ञी पिङ्गळा एवं वदति यद् "निश्चयेन सा काचित् वीरमहिला स्यात् । किन्तु तां 'सती’ इति वक्तुं न शक्नुमः । पत्युः मरणानन्तरमपि जीवितवतीं पत्नीं 'सती’ इति कथम् निर्दिशति ? पत्युः मृत्युवार्तायाः श्रवणानुक्षणं पत्नी पत्युः किञ्चित् चिह्नां धृत्वा अविलम्बेन एव स्वस्य शरीरस्य त्यागं करोति” इति । महाराजः पत्न्याः एतादृशानि वचनानि न इष्टवान् । सा कस्याश्चित् साध्व्याः सतीत्वस्य अपहास्यं कुर्वती अस्ति इति चिन्तयित्वा व्यङ्ग्यध्वनिना वदति "एतादृशी सती राज्ञी पिङ्गळा अपि भवितुं शक्नोति किल" ? इति । एतद् श्रुत्वा राज्ञी स्वस्यापि परीक्षा कदाचित् भविष्यति इति सत्यम् अवगतवती । तस्याः स्ववचनैः लज्जा, पश्चात्तापः च अभवताम् । किन्तु किं कर्तुं शक्यते ? तस्याः मुखात् वचनानि निर्गतानि आसन् । इतःपरं किमपि कर्तुं न शक्यते इति चिन्तितवती । कदाचित् धर्मगुरुः दत्तात्रेयस्वामी प्रासादम् आगतवान् आसीत् । समयं दृष्ट्वा राज्ञी तेन मिलित्वा स्वस्य समस्यां वदति "प्रभो ! मम पतिः सर्वदा मृगयासु, युद्धेषु च अधिकं कालं यापयति । यदि सः शत्रुदेशे मरणं प्राप्नोति तर्हि तस्य मरणस्य ज्ञानं मम कष्टं भवति । अतः मम पतिः जीवेन अस्ति वा, न वा इति मया कथां ज्ञातव्यम् ? कृपया परिहारं सूचयतु” इति । तदा सः गुरुः "वत्से ! मम समीपे भवत्याः अन्तरङ्गम् आच्छादयन्ती अस्ति किल ? एतादृशी स्थितिः आगच्छति इति भवती एव स्वयं सज्जतां कृतवती वा इति भासते । एतं विषयं भवती जानाति वा, न वा किन्तु परिणामः तु समानः अस्ति । एतस्मिन् विषये भवत्याः तावती आसक्तिः अस्ति चेत् वदामि, शृणोतु !” इत्युक्त्वा स्वस्य प्रसेवात् किञ्चन बीजं बहिः निष्कास्य पिङ्गळायाः हस्ते यच्छन् वदति "एतद् बीजम् अङ्गणे आरोपयतु । एतेन किञ्चन सस्यम् अङ्कुरितं भवति । भवत्याः महाराजस्य जीवनस्य विषये यदा शङ्का भवति, तदा एतस्य सस्यस्य स्नानं कारयित्वा, पृच्छतु । राजा जीवन् अस्ति चेत् सस्यात् जलबिन्दवः पतन्ति । यदि राजा मृतः तर्हि अनुक्षणं सर्वाणि पर्णानि शुष्काणि भूत्वा सस्यात् पतन्ति” इत्युक्त्वा दत्तात्रेयस्वामिनः प्रस्थितवन्तः । तेन यथा उक्तं तथैव राज्ञी पिङ्गळा बीजम् आरोपितवती । अङ्कुरितबीजेन सस्यम् आगतम् । उत्तमपोषणेन आकर्षकं सस्यं जातम् ।
महाराजद्वारा पत्न्याः सतीत्वस्य परीक्षा
[सम्पादयतु]राज्ये दस्यूनाम् पीडनम् अधिकम् अभवत् । तेषां निवारणार्थं महाराजेन गन्तव्यम् आपतितम् । पूर्णतया दस्यूनां दमनं कृत्वा प्रत्यागच्छतः राज्ञः मनसि राज्ञ्याः सतीत्वस्य परीक्षायाः विचारः आगच्छति । 'दस्युभिः सह युद्धसमये महाराजः मरणं प्राप्तवान्’ इति सन्देशं, सन्देशवाहकस्य द्वारा प्रेषयितुम् इष्टवान् । एषा वार्ता अनृता इति अन्तिमक्षणे वक्तव्यम् इति तस्मै दूताय सूचनां दत्तवान् आसीत् । एवमेव दूतः राजमुकुटं स्वीकृत्य राजधानीं गत्वा महाद्वारतः एव रुदन् आगतवान् । काचित् अमङ्गलकरी वार्ता स्यात् इति राज्ञी ऊहितवती । दूतद्वारा वार्तां श्रुत्वा राज्ञी क्षणं यावत् दिग्भ्रान्ता जाता । तथापि स्वयं समाधाननं प्राप्य अग्रिमकार्यार्थं सज्जा अभवत् । स्नानं कृत्वा तस्य पवित्र सस्यस्य समीपं गत्वा तस्य स्नानं कारयित्वा, पूजां कृत्वा अनन्तरं स्वस्य शङ्कां पृष्टवती । अनुक्षणमेव सस्यात् जलबिन्दूनां पातः आरबब्धः । एतद् दृष्ट्वा राज्ञी पिङ्गळा राजा जीवति इति निश्चितवती ।
सतीत्वस्य परीक्षायां पिङ्गळायाः जयः
[सम्पादयतु]'महाराजः मम परीक्षार्थम् एतं दूतं प्रेषितवान्’ इति भासते । मया शरीरस्य त्यागः करणीयः इति इच्छा तस्य स्यात् वा ? पत्युः इच्छापूरणे एव स्त्रियाः पतिव्रताधर्मः निगूहितः अस्ति । परलोकं प्रति गमनानन्तरं तु सः मया प्राप्यते एव । यदि एतस्मिन् सन्दर्भे अहं शरीरत्यागं न करोमि तर्हि मम पितुः कुलमपि कलङितं भवति “ राजा सोमचन्द्रस्य पुत्री पत्युः मरणवार्तां श्रुत्वापि जीविता अस्ति किल ? कियान् लज्जास्पदः विषयः एषः इति जनाः परस्परं न वदन्ति वा?” इति चिन्तयित्वा महाराजः जीवति इति ज्ञात्वाऽपि मरणं प्राप्तुं सज्जा अभवत् । राज्ञी पिङ्गळा योगाभ्यासं सम्यक् पठितवती काचित् उत्तमयोगिनी आसीत् । अतः सा पत्युः किरीटं अङ्के स्वीकृत्य आसनस्था अभवत् । अपानेन सह प्राणसंलग्नं कृत्वा, समानम् उदानं च स्वीकुर्वती कण्ठात् भ्रुवोः मध्ये योजितवती । परिस्थितिः अन्तिमघट्टे अस्ति इति ज्ञात्वा दूतः "महाराज्ञि ! मया उक्तं सर्वम् असत्यम् । एवं महाराजः उक्त्वा प्रेषितवान् आसीत् । तद्वत् भवत्यै वदन् अस्मि” इति उक्तवान्। महाराज्ञी एतस्य श्रवणस्य स्थितौ नासीत् । मुखस्य मूलं छेदयित्वा ब्रह्मरन्ध्रेण तस्याः प्राणाः गताः आसन् । सा गतप्राणा अभवत् । दूतः प्रत्यागतवान् । दूतस्य प्रेषणानन्तरं वस्तुतः राज्ञी मरणं प्राप्नुयात् इति शङ्का महाराजस्य भवति । अतः सज्जतां कृत्वा यावत् शीघ्रं तावत् नगरं प्रति प्रस्थितवान् । एवं प्रयाणं कृत्वा नगरसमीपम् आगच्छन् सः समीपस्थं श्मशानं गतवान् । तत्र कस्यांश्चित् चितायां ज्वलाः ज्वलन्त्यः आसन् । तस्मात् चन्दनस्य सुगन्धः बहिः आगच्छति स्म । तत्रत्यां परिस्थितिं दृष्ट्वा राज्ञी प्राणत्यागं कृतवती इति विचारः स्पष्टः अभवत् । तत्र ज्वलन् शवः पत्न्याः एव इति सत्यं सः ज्ञातवान् । अनुक्षणं सः विक्षिप्तः जातः ।
राजा स्वेन धृतानि वस्त्राभूषणानि निष्कास्य क्षिप्तवान् । अनन्तरं पादाभ्यां श्मशानं प्रविष्टवान् । अश्वस्य उपरि आरुह्य वायुवेगेन आगतवान् आसीत् इति कारणेन बहुश्रान्तः, तेन सह कोऽपि नासीत् इत्यनेन सः एकाकी आसीत् । श्मशानेऽपि शवः पूर्णरूपेण दग्धः इत्यनेन सर्वे जनाः प्रस्थितवन्तः आसन् । अतः एषः उन्मत्तः इव रुदन्, श्मशाने सर्वत्र अटन् आसीत् ।
गोरक्षनाथस्य उपदेशः
[सम्पादयतु]सिद्धः, परमपुरुषः, योगिश्रेष्ठः च गोरखनाथः तस्मिन् समये एव नगरं प्रति आगच्छन् आसीत् । सः महाराजस्य स्थितिं दृष्टवान् । तस्य महापुरुषस्य हृदये दया उत्पन्ना । अतः सः समीपम् आगत्य रुदन्तं राजानं यदा पृच्छति तदा राजा पत्न्याः मरणस्य वृत्तान्तं विवृतवान् ।
सम्यक् तस्मिन् समये एव गोरखनाथस्य हस्ते विद्यमानं मृत्तिकापात्रं स्खलनेन अधः पतित्वा छिन्नम् अभवत् । सः भग्नखण्डान् एकत्र योजयन् 'हन्त ! हन्त !’ इति चीत्कारम् आरब्धवान् ।
एतद् दृष्ट्वा राजा आश्चर्यचकितः जातः । सः पृच्छति "वराटिकाद्वयस्य एतस्मै घटाय भवत्सदृशाः एवं रुदन्ति वा ? एतस्य अपेक्षया उत्तमानि पात्राणि भवते न लभ्यन्ते वा ? तद् तु मृत्तिकया निर्मितं पात्रमासीत् । अतः पतनानुक्षणं भग्नं जातम्” इति । "मम घटः तु मृत्तिकायाः आसीत् । किन्तु भवतः पत्नी सुवर्णेन निर्मिता आसीत् किम् ? अहम् एतस्य अपेक्षया उत्तमं मृत्तिकापात्रं प्राप्नुयाम् । एवमेव भवतेऽपि अस्मिन् जगति द्वितीया पत्नी लभ्येत । मम घटः वराटिकाद्वयोः मूल्यस्य स्यात् । किन्तु भवतः पत्न्याः मूल्यं तावदपि नास्ति किल ? भवतः क्षणिकसुखाय सा साहायिका आसीत् इत्येतत् विहाय अन्यद् किमपि साहाय्यं नासीत् । मम भिक्षापात्रं सर्वदा मया सह भवति स्म । एतेन एव अहं जलं पिबामि स्म । एतेन एव भिक्षान्नं प्राप्नोमि स्म । एतस्य शिरः अधः कृत्वा, उपधानमिव मम शिरसः अधः संस्थाप्य शयनं करोमि स्म । भवान् बहु बुद्दिमान् जातः किम् ? माम् एव उपदिशति वा ? मम भिक्षापात्रस्य खण्डान् योजयतु अहं भवतः स्त्रीम् अपि जीवयामि !” इति कोपस्य नाटकं करोति गोरखनाथः ।
पिङ्गळायाः कारणतः जगतः मिथ्यात्वस्य अवगमनम्
[सम्पादयतु]तस्य वचनानि श्रुत्वा राजा स्तम्भीभूतः जातः । एतावत्पर्यन्तम् अहं कियान् मूर्खः आसम् इति चिन्तयति । स्वस्य मूर्खतायै वेदनाम् अनुभूय क्षमायाचना रीत्या "प्रभो ! भवान् सर्व समर्थः । अहं केवलं यः कश्चित् नीचमानवः । भवतः चरणे शरणं गतवान् अस्मि । तां साध्वीपत्नीं विहाय अहं जीवितुं न शक्नोमि । भवान् तां मम निमित्तं जीवयतु !” इति प्रार्थितवान् । तस्य साधोः चरणयोः पतितवान् च । "उत्तिष्ठ ! उत्तिष्ठ ! एतासु भवतः पिङ्गळा का इति अन्विष्यतु !” इति उक्तवान् गोरखनाथः । एवम् उक्त्वा सः महात्मा किञ्चित् भस्म स्वीकृत्य तत्रत्यचितायाः उपरि स्थापितवान् । तावता तयोः पुरतः स्त्रीणां कश्चित् गणः एव स्थितः आसीत् । ताः सर्वाः सुन्दर्यः आसन् । सकलालङ्कृताः, आकर्षिकाः च आसन् । सौन्दर्ये तु सर्वाः समानाः आसन् । सर्वाः राज्ञी पिङ्गळा इव आसन् । तासु स्वस्य राज्ञी का इति ज्ञातुं राजा असमर्थः जातः । पुनः सः साधुं प्रार्थयति । साधुः अनुक्षणं करताडनं करोति । वास्तविकां पिङ्गळां विहाय अन्याः सर्वाः अनुक्षणम् अदृश्याः अभवन् । एतद् सर्वं दृष्ट्वा महाराजस्य प्रापञ्चिकव्यामोहस्य विषये इच्छा गता । सः उक्तवान् "प्रभो ! इदानीं मम सर्वे मोहाः दूरं गताः । एतावत्पर्यन्तम् अहं पर्याप्तमात्रेण राज्यसुखोपभोगान् अनुभूतवान् अस्मि । इदानीं भवान् मह्यम् भवतः श्रीचरणे स्थानं ददातु !” इति वदन् तस्य पादयोः उपरि पतितवान् । तस्य हृदये परिवर्तनं जातम् आसीत् । तत्र पूर्णं वैराग्यम् आच्छादितम् आसीत् । मोहरहितदृष्ट्या पिङ्गळां दृष्ट्वा अनन्तरं गुरोः मुखं पश्यति । तावदा तस्याः मायापाञ्चालिकायाः राज्ञ्याः पिङ्गळायाः रूपम् अदृश्यम् आसीत् । महाराजः एवं जगतः मिथ्याम् पिङ्गळायाः तथा तस्याः जीवनात् ज्ञात्वा जीवन्मुक्तः भूत्वा, गुरोः दत्तात्रेयस्य पृष्ठतः गच्छन् अरण्यं प्रविश्य, तपसः आचरणे मग्नः जातः । सः तपसा सिद्धिं प्राप्तवान् । राज्ञ्याः पिङ्गळायाः जीवः पुण्यलोकं प्राप्नोति ।
""