अशोकसुन्दरी
विश्वमाता गिरिजा स्वर्गे स्थितस्य इन्द्रस्य उद्यानस्य नन्दनवनस्य विषये बहुश्रुतवती आसीत् । मानववत् तस्याः मनसि स्त्रीसहशाः भावनाः उत्पन्नाः । नन्दनवनम् कदाचित् गत्वा दृष्ट्वा आगन्तव्यम् इति । सा पत्युः सम्मुखं स्वस्य आशां निवेदयति । शिवः एतस्याः वचनम् अङ्गीकृतवान् च । एवं महादेवः पार्वती च मिलित्वा कैलासात् स्वर्गम् गतवन्तौ । पूर्वमेव एतं समाचारं जानन्तः इन्द्रादिदेवाः नन्दनोद्याने महादेवम् आमन्त्र्य, षोडषोपचारपूजां समाराधयन् । पश्चात् महादेवं पार्वतीं च तत्र त्यक्त्वा ते सर्वे देवाः गतवन्तः । गिरिजा शङ्करेण सह तं वनं पश्यन्ती तस्य सौन्दर्यम् आस्वादयन्ती, उत्साहेन अग्रे गच्छन्ती आसीत् । तौ कल्पवृक्षस्य समीपं गतवन्तौ । तं दृष्ट्वा गिरिजायाः अपारः आनन्दः अभवत् । शिवः तस्य वृक्षस्य महिमां वर्णितवान् । एतद् श्रुत्वा पार्वत्यां काचित् आशा समुत्पन्ना ।
पार्वत्याः कन्यारत्नाशा
[सम्पादयतु]पार्वत्याः द्वौ पुत्रौ आस्ताम् । मातुः ममतायाः प्रतीकः इव एका पुत्री आवश्यकी इति तस्याः हृदये महती इच्छा आसीत् । अतः सा स्वस्याः इव अलौकिकसुन्दरी, गुणाढ्या च काचित् पुत्री आवश्यकी इति कल्पवृक्षं प्रार्थितवती । किं वा भवतु, सः कल्पवृक्षः किल ? अनुक्षणं पार्वती कञ्चित् सुन्दरशिशुं वृक्षस्य अधः अपश्यत् । तावता सः शिशुः कालसीमाम् अतिक्रम्य बालिका अभवत् । तत्पदमेव पुनः सा बालिका षोडषी कन्या जाता । स्वाम् इव विद्यमानां कन्यकां पार्वती अपश्यत् । पार्वत्याः प्रियं लक्षणं, सौन्दर्यं च तस्याम् आसीत् । पार्वती ताम् उपसृत्य आलिङ्गितवती । एवं परशिवस्य करुणया कल्पवृक्षस्य प्रभावेन च अगजायाः आशा पूर्णा अभवत् । भूमेः सामान्यमानवा इव सा सन्तुष्टा जाता । अपारानन्देन सा उद्वेगनदौ तरन्ती शङ्करस्य स्तुतिं कृतवती । सा कन्या जगत्पितुः शङ्करस्य पादे नमस्कृतवती । तां कन्यां दृष्ट्वा शङ्करः मनसि एव हसन् पार्वतीं अपश्यत् । पार्वती पुत्रीम् उद्दिश्य, हे मङ्गलाङ्गिनि भवती मम प्रियपुत्री अस्ति । भवत्याः जन्मना एतस्य वृक्षस्य महिमाम् अहं ज्ञातवती । भवती सौभाग्यसम्पन्ना भवतु । चन्द्रवंशे इन्द्रसमानस्य नहुषः नामकः चक्रवर्ती भविष्यति । तं पतिरूपेण प्राप्य अशोकसुन्दरी इति नाम्ना सुखेन तिष्ठतु । इति वरं दत्त्वा पार्वती परमेश्वरेण सह कैलासं गतवती । गमनात् पूर्वं सा अशोकसुन्दर्यै काश्चित् सखीः असृजत् ।
अशोकसुन्दरी तु षोडषी पुनः स्वतन्त्रा । श्रोतुं किम् अस्ति पुनः ? सखीभिः सह सङ्गीतनऋत्यॆ विहरन्ती आसीत् । पाताले विप्रचित्तः नामकः राक्षसः कश्चित् आसीत् । तस्य हुण्डः इति कश्चित् पुत्रः आसीत् । एषः महाक्रूरी, स्वेच्छाचारी, महाकामी च आसीत् । कदाचित् एषः इन्द्रलोके आक्रमणं कृतवान् । अकस्मात् नन्दनवनं प्रविष्टवान् । तत्रत्य अप्रतिमसौन्दर्यवतीं आशोकसुन्दरीं दृष्ट्वा मोहितः अभवत् । अनुक्षणं तस्याः समीपं गत्वा तस्याः वृत्तान्तं पृच्छति । एवं स्वस्य अपि सर्वसद्गुणं विवृत्य स्वेन सह विवाहं करोतु इति पृच्छति । किन्तु अशोकसुन्दरी जगन्मातुः पुत्री अहं भवत्सदृशदुष्टेन सह विवाहं न करोमि इति उक्त्वा मातुः वरस्य विषयेऽपि सूचितवति । ततः अदृश्यः भूत्वा हुण्डः स्वस्य मायाबलेन काचित् सुन्दरकन्यायाः रूपं प्राप्य आगत्य अशोकसुन्दर्याः सखी भवति । गच्छताकालेन तयोः मध्ये गाढस्नेहः भवति । कदाचित् कन्यारूपस्य हुण्डः चमत्कारवचनेन अशोकसुन्दरीं स्वस्य लोकं नीतवान् । तां काचित् तपस्विनी इति परिचयित्वा, तस्याः पर्णशालायां तिष्ठतु इत्यपि वदति । अशोकसुन्दरी पर्णशालां गतवती । पर्णशालायाः प्रवेशानुक्षणं हुण्डः स्वस्य वास्तवरूपं दर्शयित्वा विवाहार्थं बहुविधयत्नं कृतवान् । एषा यदा न अङ्गीकृतवती तदा सा बलात् तां प्राप्तुं यत्नं कृतवान् । एतेन कुपिता अशोकसुन्दरी तं प्रहार्य भवत्याः मारणेन विना विवाहं न करोमि इत्युक्त्वा ततः प्रस्थितवती । भूमिम् आगत्य गङ्गानदौ स्नात्वा तपः आचरन्ती आसीत् । हुण्डः अशोकसुन्दर्याः विषयं त्यक्तवान् । किन्तु तया उक्तस्य वरस्य विषये जागरितः सन् नहुषस्य जन्मविषये लक्ष्यं दत्तवान् । पुरूरवस्य पुत्रः आयुराजः । आयुराजस्य पत्नी सर्भानवी । एतयोः पुत्रः एव नहुषः । यदा एतस्य जननम् अभवत् तदा हुण्डः पुरोहितस्य वेषं धृत्वा आयुराजस्य आस्थानं गत्वा नहुषः दोषयुक्तनक्षत्रस्य शिशुः अस्ति इत्युक्तवान् । एतस्य वचने विश्वस्य राजा तं शिशुम् अनुवैद्यायै ददाति । हुण्डः अनुवैद्यायाः हस्तात् तं शिशुं प्राप्तवान् । शिशोः प्राणहरणं कृत्वा हुण्डः तं निर्जीवं शिशुं वसिष्ठाश्रमस्य समीपं प्राक्षिपत् ।
नहुषस्य पुनर्जन्म विवाहः च
[सम्पादयतु]वसिष्ठः तं शिशुं दृष्ट्वा ज्ञानदृष्ट्या विषयं ज्ञात्वा, शिशवे पुनः जीवं दत्त्वा तं संवर्धयन् आसीत् । नारदः आयुराजस्य समीपं गत्वा नहुषः जीवितः अस्ति इति सत्यम् उक्तवान् । सः गत्वा यदा वसिष्ठं पृच्छति तदा वसिष्ठः बालः स्वस्य समीपे एव भवतु इति उक्तवान् । नहुषः युवा सञ्जातः । वसिष्ठस्य अनुग्रहेण सः सकलविद्यापारङ्गतः अभवत् । सः अशोकसुन्दर्याः विचारं ज्ञातवान् । तां प्राप्तुं नहुषः निश्चितवान् । एतेन अशोकसुन्दरी आनन्दिता जाता । हुण्डेन सह युद्धं कर्तुं यदा नहुषः प्रस्थितवान् । तदा सा इन्द्रम् उक्त्वा नहुषाय इन्द्ररथं प्रेषयित्वा साहाय्यं कृतवती । नहुषः हुण्डेन सह घोरं युद्धम् अकरोत् । अन्ते हुण्डः नहुषेन मारितः। अनन्तरं नहुषः अशोकसुन्दर्याः समीपं गत्वा तस्याः अनुमतिं प्राप्य इन्द्रप्रस्थनगरम् आनीतवान् । तत्र मात्रा पित्रा ज्येष्ठान् च अशोकसुन्दर्याः विषयम् उक्त्वा तया सह विवाहं कृतवान् ।
""