सामग्री पर जाएँ

देवस्मिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



देवनगरे धर्मगुप्तः नामक कश्चन वैश्यः आसीत् । अस्य देवस्मिता इति पुत्री आसीत् । धर्मगुप्तः स्वस्य पुत्र्यै उत्तमां शिक्षां दत्त्वा तां काञ्चित् विदुषीम् अकरोत् । देवस्मिता रूपवती, गुणवती, धर्मपरायणा आसीत् । तस्याः विवाहः ताम्रलिप्तिनगरस्य मणिभद्रेन सह अभवत् । मणिभद्रः कश्चन सुन्दरः, धर्मात्मा युवा आसीत् । देवस्मिता तु गभीरतया पतिव्रताधर्मं पालयति स्म । गृहाकार्येण सह श्वश्रोः श्वशुरस्य च सेवां अतिव श्रद्धया करोति स्म । अतिथ्यभ्यागतानां सेवा तथा आसीत् यत् ते अस्याः गृहाद्विमुखाः न भवन्ति स्म एव ।

दुस्सहवासः

[सम्पादयतु]

किञ्चित् कालानन्तरं देवस्मितायाः श्वशुरः मरणं प्राप्तवान् । तदा गृहस्य परिपालनस्य दायित्वं सर्वं मणिभद्रस्य अभवत् । अतः कुटुम्बस्य विदेशवाणिज्यम् अपि तेन निर्वहणीयम् अभवत् । एतस्मात् कारणात् सः कदाचित् कटाहनगरं गत्वा तत्रैव स्थित्वा वाणीज्यं कुर्वन्नासीत् । तदा तस्य दौर्भाग्यम् इव त्रिचतुर्भिः दुराचारिभिः सह तस्य मित्रत्वं सञ्जातम् । कदाचित् ते सर्वे सुरां पीत्वा भ्रमायां स्त्रीनिन्दनम् आरब्धवन्तः । एतं विषयं मणिभद्रः न इष्टवान् । सः बहुकोपेन उक्तवान् " भवन्तः सर्वे असत्यवादिनः सन्ति । स्रियः देव्याः इव भवन्ति । मम पत्नी तु पतिव्रता अस्ति । जनाः तां देवीम् इव पूजयन्ति" इति । मणिभद्रस्य वचनेन तेषाम् आनन्दः नाभवत् । कोपेन ते मणिभद्रस्य गृहस्य स्थानं ज्ञात्वा तत्र गत्वा आग्रहेण, द्वेषेन मणिभद्रस्य पत्न्याः शीलहरणं कर्तुं निश्चितवन्तः । दुराचारिणः ते 'एतद् कार्यं सुलभतया कर्तुं शक्नुमः’ इति चिन्तितवन्तः । एतेन दुष्टनिश्चयेन ते ताम्रलिप्तिम् आगतवन्तः । ते कस्मिंश्चित् बौद्धविहारे स्थितवन्तः । तत्र स्थित्वा ते दुष्कर्मार्थं दुष्टोपायं चिन्तयन्तः आसन् । तस्मिन् बौद्धविहारे काचित् बौद्धसंन्यासिनी आसीत् । तस्यै एते धनस्य प्रलोभनं कृत्वा तां स्वपक्षं प्रति स्वीकृतवन्तः । तस्याः द्वारा देवस्मितां पातयितुं ते यत्नं कृतवन्तः । सा वृद्धसंन्यासिनी देवस्मितायाः गृहम् आगतवती । साध्वी देवस्मिता तस्याः बहुविधसत्कारं कृतवती । तदर्थं संन्यासिनी धर्मोपदेशं कृतवती । अनन्तरं मन्दं मन्दं तस्याः हृदये स्वस्यविषये यथा श्रद्धाभक्तिभावाः उत्पन्नाः भवेयुः तथा कृतवती । एवं तयोः मध्ये उत्तमस्नेहसम्बन्धः वर्धितः । तदा कदाचित् संन्यासिनी देवस्मितायाः यौवनस्य, तस्याः पत्युः वियोगस्य च चर्चाम् आरब्धवती । एतेन तस्याः विषये देवस्मितायाः प्रीतिः अधिका अभवत् । अन्ते कदाचित् सा दुष्टा संन्यासिनी , देवस्मिता यदा एकाकिनी आसीत् तदा तस्याः व्यर्थयौवनस्य विषये खेदं प्रकटितवती । पश्चात् 'मठे चत्वारः वणिजः सन्ति ये देवस्मितायाः विरहवेदनया तप्ताः सन्ति ’ इति उक्त्वा ’ ते भवत्याः सन्दर्शनाकाङ्क्षिणः सन्ति । तान् अत्र प्रेषयिष्यामि वा ’ इति अपृच्छत् ।

दुष्टदण्डनम्

[सम्पादयतु]

तस्याः दुष्टस्त्रियाः वचनानि श्रुत्वा देवस्मिता आश्चर्यचकिता तस्याः दुरान्तर्यं ज्ञातवती । तस्याः गमनागमनस्य उद्देशं, स्नेहविश्वासस्य मूलं च अवगतवती । एवं तस्याः दुरुद्देशं सम्यक् अभिज्ञाय देवस्मिता जागरिता अभवत् । तेभ्यः दुष्टेभ्यः दण्डः दातव्यः इति निश्चितवती । अतः सा हसन्ती एव संन्यासिनीम् उक्तवती, 'अस्तु, उत्तमम्, अद्य सायङ्काले तान् अत्र आनयतु । ते मां किमर्थं मेलितुम् इच्छन्ति इति अहमेव तान् पृष्ट्वा ज्ञास्यामि ’ इति । एतद् श्रुत्वा सा वृद्धा नितरां सन्तुष्टा । एतं शुभसमाचारं तस्याः विदेशीयमित्राणि श्रावितवती । ते दुष्टाः अपारम् आनन्दम् अनुभूतवन्तः । रात्रिः अभवत् । ग्रामे सर्वे शयितवन्तः । तदा सा संन्यसिनी चतुरः अपि क्रमशः आनीतवती। तेषाम् आगमनात् पूर्वं मार्गे विश्वासार्हं सेवकद्वयं देवस्मिता नियोजितवती । तयोः हस्ते अग्नितप्तः अयसः दण्डः आसीत् । तस्य दण्डस्य अन्ते शुनकस्य पादचिह्नम् आसीत् । यदा ते दुष्टाः गृहं प्रविष्टवन्तः तदा अन्धकारे तौ सेवकौ तेषां शिरसः पृष्ठभागे उष्णीकृतस्य अयसः दण्डस्य दृढतया स्पर्षं कारयित्वा गृहात् बहिः प्रेषितवन्तौ । एतेन तेषां स्थितिः चिन्ताजनिका अभवत् । ते दुष्टाः किमपि अनुक्त्वा, परेद्यवि एव सूर्योदयात् प्राक् ताम्रलिप्तितः धावितवन्तः । एतां वार्तां बौद्धसंन्यासिन्यै वक्तुम् अपि ते अवसरं न प्राप्नुवन् ।

कुमतिसन्यासिन्याः परिवर्तनम्

[सम्पादयतु]

परेद्यवि देवस्मिता तां संन्यासिनीम् आहूय सम्यक् तर्जयन्ती उक्तवती "हे पापकरे , एवं जनान् पथभ्रष्टान् कारयितुमेव भवती संन्यासिन्याः वेषं धृतवती वा ? धिक् भवतीम् । वेशं पश्यामः चेत् साध्वी इव अस्ति । किन्तु कार्यं तु प्रदुष्टम् । तेभ्यः चतुर्भ्यः दुष्टेभ्यः अहं सम्यक् दण्डं दत्तवती अस्मि । इदानीं भवत्याः पर्यायः । भवती एव वदतु , कं दण्डं भवत्यै ददामि इति ? तेन भवत्सदृश्यः महिलाः सम्यक् पाठं पठन्तु " इति । देवस्मितायाः चण्डीरूपं दृष्ट्वा सा वृद्धा भयेन कम्पितवती । अनुक्षणं सा तस्याः पादयोः पतित्वा क्षमां याचितवती । एतद् दृष्ट्वा देवस्मितायाः श्वश्रूः करुणया 'तस्याः क्षमां करोतु’ इति असूचयत् । किन्तु देवस्मिता अवदत् ’ हे आर्ये, नैव । एषा तीर्व्रं दण्डनीया । यतः दुष्टेभ्यः योग्यं दण्डं न दद्मः चेत् पापकार्यम् अधिकं कुर्वन्ति । एतेन अपरिमितः धर्मलोपः भवति । अन्ते देवस्मिता तस्य बौद्धविहारस्य प्रधानभिक्षुम् आहूय, तस्याः वृद्धायाः पूर्णवृत्तान्तं विवरितवती अनुक्षणं सा वृद्धा विहारात् बहिः प्रेषिता ।

विदेशगमनम्

[सम्पादयतु]

पश्चात् कदाचित् देवस्मितायाः मनसि शङ्का उत्पन्ना । कदाचित् एते दुष्टाः विदेशं गत्वा पत्युः मनसि स्वस्य विषये शत्रुभावम् उत्पाद्य प्रतीकारं कुर्युः इति । अतः श्वश्रोः श्वशुरस्य च आज्ञां प्राप्य, पुरुषवेषं धृत्वा कटाहनगरं गतवती । तत्र पत्युः आपणस्य पार्श्वे भाटकार्थं बृहद्गृहं प्राप्य सहर्षं न्यवसत् । देवस्मिता पुरुषवेषेण अस्ति इति कारणेन तां पतिः मणिभद्रः अपि न अभिज्ञातवान् । ते चत्वारः दुष्टाः मणिभद्रस्य मनसि तस्याः विषये दुरभिप्रायोत्पादबीजानि वपन्ति इति सत्यं देवस्मिता स्वतर्कबुद्ध्या ज्ञातवती आसीत् । अतः अन्यम् उपायम् चिन्तितवती । सा साक्षात् तद्देशस्य राजास्थानं गत्वा मम चत्वारः सेवकाः पलायिताः सन्ति । ते इदानीम् अस्मिन् देशे सन्ति, तान् अन्विष्य समर्पयतु इति प्रार्थितवती । तत्रत्यः राजा शूरसेनः श्रेष्ठः धर्मात्मा, नीतिज्ञः च आसीत् । अतः एतस्य विदेशिवणिजः अक्षेपं श्रुत्वा, 'भवतः सेवकानां नामानि सूचयतु । निश्चयेन तान् अन्विष्य भवते अर्पयामि’ इति उक्तवान् । एवं देवस्मिता तेषां नामानि यदा उक्तवती तदा राजास्थाने सर्वे आश्चर्यचकिताः अभवन् । यतः ते सर्वे तस्य राज्यस्य सुप्रसिद्धानां वणिजां पुत्राः आसन् । तान् चतुरः अपि राजास्थानम् आनीतवन्तः । राजा पुरुषवेषधारिणीं देवस्मिताम् अपृच्छत् । 'पश्यतु भवतः भ्रान्तिः नास्ति किल ? यतः भवान् यान् सेवकाः इति वदन् अस्ति ते सर्वे अत्रत्य धनिकवणिजां पुत्राः सन्ति । एतेषाम् अवमाननं यदि भवति तर्हि भवान् दण्डार्हः भवति इति । अनेन वचनेन देवस्मिता किञ्चिदपि न विचलिता । सा अवदत् 'मम सेवकानां शिरसः पृष्ठभागे शुनकस्य पादचिह्नम् अङ्कितम् अस्ति । अतः उष्णीषस्य अन्तर्भागे तानि चिह्नानि सङ्गुप्तानि । भवान् उष्णीषं निष्कास्य दृष्ट्वा अनन्तरम् एते मम सेवकाः वा न वा इति वदतु’ इति । राजाज्ञा इत्यतः चतुर्णामपि शिरोभ्यः यदा उष्णीशानि अपनीतानि तदा शिरसः पृष्ठभागे अयसः दण्डेन अङ्कितानि शुनकस्य पादचिह्नानि अदृश्यन् । एतद् दृष्ट्वा आस्थाने सर्वे चकिताः अभवन् । राजा पुनः पुनः तान् तस्मिन् विषये पृष्टवान् । तथापि ते तस्य रहस्यं न उक्तवन्तः । विषयं न वदन्ति चेत् दण्डः अनुभोक्तव्यः भवति इति यदा राजा असूचयत् तदापि लज्जिताः, अवनतशिराः सन्तः ते मुखं न उद्घाघाटितवन्तः । तदा देवस्मिता तेषां दुष्टकार्यस्य रहस्यं सभायां प्रकटितवती । तत् श्रुत्वा राजा कोपेन तान् सम्यक् तर्जयित्वा कारागृहं प्रेषितवान् । तदा तेषां युवानां पितरौ 'स्वपुत्राणां क्षमां करोतु’ इति देवस्मितायाः पादे पतितवन्तः ।

दयामयी देवस्मिता

[सम्पादयतु]

दयया देवस्मिता 'तेषां क्षमां करोतु’ इति राजानं प्रार्थयति । राजा तान् दण्डमुक्तान् अकरोत् । देवस्मितायाः विषयेऽपि राजा प्रसन्नः अभवत् । तदा सा स्वस्य पुरुषवेषं निष्कास्य स्वस्य नामधेयम् उक्तवती । एतेन राजा आनन्देन तस्याः प्रशंसाम् अकरोत् । तस्यै बहुमूल्यानि वस्त्राभरणानि दत्त्वा, सत्कृत्य, ताम्रलिप्तिं प्रेषितवान् । पत्न्याः पातिव्रत्यस्य अद्भुतकथां श्रुत्वा मणिभद्रः अतुष्यत् । तैः दुष्टजनैः आरोपिताः सर्वाः शङ्काः तस्याः मनसः अपगताः । अतः सः अपि तया सह नगरं प्रस्थितवान् । मणिभद्रस्य माता एतां वार्तां श्रुत्वा आनन्देन स्नुषाम् आलिङ्ग्य हृदयं शान्तं कृतवती "पुत्रि निश्चयेन भवती देवी अस्ति । परमात्मा भवत्याः सौभाग्यं रक्षतु । भवादृश्याः देव्याः कारणेन एव समाजे महिलानाम् उन्नतं स्थानम् अस्ति । तस्मिन् नगरे, राज्ये सर्वत्र देवस्मितायाः साहसस्य, पातिव्रत्यस्य, धर्मप्रियतायाः, कुशलतायाः कथा प्रसृता । सर्वे तां "धन्या धन्या देवस्मिता" इति प्राशंसन् ।

""

"https://sa.wikipedia.org/w/index.php?title=देवस्मिता&oldid=408353" इत्यस्माद् प्रतिप्राप्तम्