विषया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



चन्द्रहासस्य पूर्ववृत्तान्तम्[सम्पादयतु]

“एषः बालकः अग्रे एतस्य राज्यसिंहाससस्य उत्तराधिकारी भविष्यति । तथैव भवतः समस्तसम्पत्तेः स्वामी भविष्यति । एतं जागरूकतया रक्षन्तु” इति सः राजज्योतिष्कः वदति । प्रासादस्य दास्या पालितः लघुबालकः कश्चित् कार्यवशात् कुन्तलस्य प्रधानमन्त्रिणः दुष्टबुद्धेः समीपम् आगच्छति । तं दृष्ट्वा एव मन्त्रिणः समीपे उपविष्टवान् राजज्योतिष्कः बालकस्य मुखलक्षणानि दृष्ट्वा एवं भविष्यवाणीं सूचितवान् आसीत् । एषः परमसुन्दरः सुशीलः बालकः केरळमहाराजस्य पुत्रः इति सत्यं केऽपि न जानन्ति स्म । शत्रवः केरळस्य उपरि आक्रमणं कृत्वा तत् राज्यं वशीकृत्य महाराजं मारितवन्तः आसन् । महाराज्ञी पत्या सह सहगमनं कृतवती । शिशुं चन्द्रहासं स्वीकृत्य स्वामिभक्ता दासी काचित् कुन्तलपुरं प्रति आगतवती । कुन्तलपुरम् आगत्य तत्रत्ये राजगृहे सेविकात्वेन उद्योगं प्राप्य, तत्र स्थित्वा चन्द्रहासस्य पालनं पोषणं च कुर्वती आसीत् । अतः एव चन्द्रहासः राजगृहे अटन्, अकस्मात् दुष्टबुद्धेः, ज्योतिष्कस्य पुरतः आगत्य, भविष्यवाणीं ज्ञातवान् ।

मन्त्रिणः दुष्टबुद्धेः कुतन्त्रम्[सम्पादयतु]

“एतं गहनारण्यं नीत्वा मारयन्तु……” इति मन्त्री घातुकान् आहूय, तेभ्यः धनं दत्त्वा आज्ञापयति । कुन्तलमहाराजस्य पुत्रः नासीत् । सः वृद्धः जातः आसीत् । अतः राज्यशासनसूत्रं मन्त्रिणः हस्ते एव आसीत् । महाराजस्य एका एव सुन्दरी पुत्री आसीत् । तां स्वस्य पुत्राय मदनाय आनयामः चेत् सः अग्रिमः महाराजः भविष्यति इति आशा मन्त्रिणः । किन्तु राजज्योतिष्कस्य भविष्यवचनैः सः आश्चर्यचकितः जातः । चन्द्रहासस्य विषये तस्य मनसि द्वेषभावना आरब्धा । तस्य मार्गे कण्टकप्रायं तं बालं दूरं प्रेषयितुं मन्त्री दुष्टबुद्धिः निश्चितवान् । “अहो! कियान् सुन्दरः, मुग्धबालकः एषः” इति चिन्तितवन्तः घातुकाः । बालं चन्द्रहासं वनं नीतवन्तः घातुकाः एतस्मात् सरलात् सुन्दरात् बालकात् आकृष्टाः अभवन् । ते कथञ्चित् तं संहर्तुं न इष्टवन्तः । अतः तस्य वामपादे विद्यमानस्य षष्ठीम् अङ्गुलीं कर्तयित्वा तं तत्रैव त्यक्त्वा गतवन्तः । अङ्गुल्याः कर्तनेन अतीववेदनया उच्चैः रोदनं कुर्वन् बालकः तथैव प्रज्ञाशून्यः जातः । तस्मिन् अरण्ये कळिन्दनामकः व्याधराजः मृगयार्थम् आगतवान् आसीत् । सः रोदनशब्दम्, अनुक्षणं रोदनस्य स्थगनं च ज्ञातवान् । सेवकानां द्वारा परितः विद्यमानस्य प्रदेशस्य अन्वेषणं कारितवान् ।अन्ते सः मूर्छितं बालकं दृष्टवान् एव । “कियान् सुन्दरः बालकः !” इति राजा आश्चर्येण उद्गारं कृतवान् । स्वेन सह नीतवान् च । राजगृहं नीत्वा तं राज्ञै दर्शितवान् । तयोः अपत्यं नासीत् । अतः बालं दृष्ट्वा राज्ञ्याः महान् आनन्दः भवति । तं पुत्रवत् पालितवती सा। कुळिन्दराजः, राज्ञी च परमदैवभक्तौ आस्ताम् । एषा दैवभक्तिः बालकस्य चन्द्रहासस्य उपरि प्रभावं जनयति । दैवभक्तः, सरलहृदयी बालः परमात्मनः प्रेम्नि निमग्नः जातः । उत्तमव्यवस्थायां सः धर्मशास्त्र-राजधर्म-राजनीति-शस्त्र-शास्त्रविद्यासु च उन्नतशिक्षणं प्राप्तवान् । चन्द्रहासह् षोडषे वयसि एव राज्यशासने पितुः साहाय्यं करोति स्म । परितः विद्यमानानां राज्याणाम् उपरि दण्डयात्रां कृत्वा कुळिन्दराज्यं प्रख्यातं कृतवान् । तद् राज्यं चन्द्रहासस्य नेतृत्वे प्रख्यातं जातम् इत्यनेन तस्य प्रगतेः पर्यवेक्षणं कर्तुं दुष्टबुद्धिः आगतवान् आसीत् । यतः चन्दनावती (कुळिन्दराज्यम्) कुन्तळपुरस्य अधीनं राज्यम् आसीत् । चन्द्रहासस्य दर्शनेन तस्य संशयः भवति यद्’ एषः तदा वधार्थं घातुकेभ्यः दत्त्वा प्रेषितः बालः स्यात्’ इति । अतः सः कुळिन्दराजं पृच्छति ’ एषः भवतः पुत्रः वा अथवा पालितपुत्रः वा ? इति । कुळिन्दराजेन सः कथं प्राप्तः इति विवरणं ज्ञात्वा तस्य संशयः दूरङ्गतः । भोजनसमये चन्द्रहासस्य वामपादं पश्यति, तत्र षष्ठी अङ्गुली नासीत् । तदा तु सः चन्द्रहासः एव इति निश्चितम् अभवत् । “मया किञ्चित् अवश्यं कार्यं करणीयमासीत् । किन्तु विस्मृतवान् आसम् । बहु मुख्यं कार्यं तद् । अतः राजकुमारः एतद् पत्रं स्वीकृत्य गत्वा मम पुत्राय ददातु । सः तस्य कार्यस्य निर्वहणं करोति । एतेन विना अन्यः मार्गः नास्ति इत्युक्त्वा मन्त्री चन्द्रहासाय पत्रं दत्तवान् । पत्रं स्वीकृत्य अश्वारूढः चन्द्रहासः ततः प्रस्थितवान् । कुन्तळपुरं बहुदूरे आसीत् । एषः समीचीनतया मार्गमपि न जानाति स्म । तस्य नगरस्य समीपम् आगत्य अपि सः नगरम् इतोऽपि दूरे अस्ति इति चिन्तितवान् आसीत् । यतः सः अरण्यमार्गेण आगतवान् आसीत् । तत्र किञ्चित् सरोवरं प्राप्तम् । एषः बहुश्रान्तः आसीत् । अश्वः अपि श्रान्तः आसीत् । अश्वाय जलं पाययित्वा स्वयमपि जलं पीतवान्। समीपे विद्यमाने वृक्षे अश्वं बद्ध्वा सः अपि वृक्षस्य छायायां, कस्याश्चित् शिलायाः उपरि उपविष्टवान् । श्रान्ततायाः कारणेन तथैव शयनं कृत्वा सम्यक् निद्रामेव कृतवान् ।

दैवसङ्कल्पः[सम्पादयतु]

विषया मन्त्रिणः दुष्टबुद्धेः पुत्री । भगवद्भक्ता,सौन्दर्यवती,विद्याविनयसम्पन्ना च आसीत् । अविवाहिता सा बालिका स्वसखीभिः सह उद्यानस्थे सरोवरे स्नानं कर्तुम् आगतवती आसीत् । स्नानानन्तरं सखीभिः सह पुष्पसङ्ग्रहणं कुर्वती आसीत् । इतस्ततः अटन्ती सा तत्रैव आगतवती । वृक्षस्य अधः शयितस्य चन्द्रहासस्य उपरि तस्याः दृष्टिः पतति । तं पश्यन्ती सा अन्यत्र द्रष्टुं न शक्तवती । तस्य आकर्षणीयं मुखं पश्यन्ती स्थितवती । तस्य सौन्दर्येण सा आकृष्टा जाता । शयितस्य युवकस्य उष्णीषात् पत्रं किञ्चित् दृश्यते स्म । तस्याः कुतूहलं जातम् । एतद् किं स्यात् इति शनैः तद् पत्रं ततः निष्कास्य बहिः स्वीकृतवती । अन्यस्य पत्रस्य पठनम् अनुत्तमम् इति ज्ञात्वा अपि तस्य युवकस्य परिचयस्य प्राप्त्यर्थम् एतद् आवश्यकम् इति आशया अन्ते पत्रं पठितवती एव । ‘चिरञ्जीवि मदन ! भवतः पितुः दुष्टबुद्धेः आशीर्वादाः । चन्दनावतेः राजकुमारः एतद् पत्रम् आनयति । एषः एव अग्रे मम सम्पूर्णसम्पत्तेः उत्तराधिकारी भविष्यति । अतः एतस्य कुलस्य, शीलस्य, विद्यायाः, ज्ञानस्य च चिन्तनेन विना एव, यदा सः तत्र प्राप्नोति अनुक्षणं तस्मै विषं ददातु । एतेन मम प्रसन्नता भवति । मम आज्ञापालने भवान् विलम्बं न करोति इति विश्वसिमि । देवः भवते शुभं करोतु,’ । भवदीयः पिता

विषया बहुमुग्धा बालिका । तस्याः सद्भावना तां पुनः पुनह् संशये पातयति । एतावते रूपवते राजकुमाराय पिता किमर्थं विषं दातुं वदति ? एवं चिन्तनमपि तस्याः कष्टम् अभवत् । ‘नास्ति नास्ति………….पिता तु तावदधमः नास्ति ! ’इति चिन्तनसमये तस्याः मनसि काचित् योजना स्फुरति । ‘पिता एतेन युवकेन सह मम विवाहं कारयितुम् आज्ञापितवान् स्यात् । विस्मरणेन वा त्वरया वा ‘विषया’ इति लेखन समये ‘या’इति अक्षरं त्यक्तं स्यात् । किं वा भवतु । एतस्य चरणे माम् अहं समर्पितवती अस्मि । इदानीं मम सर्वस्वमपि एषः एव । अतः कृतस्य दोषस्य निवारणं मम धर्मः’ इति चिन्तयित्वा स्वस्य नेत्रस्थं कज्जलम् अङ्गुल्याः नखेन स्वीकृत्य ‘विष’ इत्यस्य पदस्य पुरतः ‘या’ इति अक्षरं योजयित्वा पत्रं पुटीकृत्य यथावत् स्थाने स्थापयित्वा ततः मन्दं प्रस्थितवती । ‘राजनीतिः बहुविचित्रा ! ’ चन्द्रहासेन पत्रं प्राप्य मन्त्रिपुत्रः मदनः एवं चिन्तितवान् कस्यापि राजनीतेः कारणं स्यात्, तस्य अनुपस्थितौ एव पिता शीघ्रं विवाहं कारयतु इति आज्ञां प्रेषितवान् अस्ति । चन्द्रहासस्य रूपं, शीलं च दृष्ट्वा मदनस्य बहु आनन्दः भवति । पिता अनुजायै सूक्तवरम् अन्विष्टवान् अस्ति इति चिन्तितवान् । नगरे पूर्णसज्जताः अभवन् । अत्यन्तवैभवेन विवाहः सम्पन्नः । चन्द्रहासः विषयायाः पाणीग्रहणं कृतवान् । मन्त्री दुष्टबुद्धिः तस्य योजनाः सफलाः स्युः इति मत्वा कुन्तळपुरं प्रति प्रत्यागतवान् । किन्तु तत्र विद्यमानाः व्यवस्थाः दृष्ट्वा अत्यन्तं कोपाविष्टः सन् सः पुत्रं “किं कृतवान् अस्ति भवान् ? अहं किं लिखित्वा प्रेषितवान्, भवता कृतं किम् ?” इति पृच्छति । सः तूष्णीम् आसीत् । सम्भाषणं न कृतवान् । पित्रा प्रेषितं पत्रं तस्मै दत्तवान् । तद् दृष्ट्वा सः स्तम्भीभूतः जातः । पुत्री विधवा भवेत् किल इत्यस्य चिन्ता अपि नासीत् तस्य । चन्द्रहासं समापयितुं निश्चितवान् । गृहस्य सम्प्रदायानुसारं नविवाहितः कालिकादेव्याः पूजां कुर्यात् इति सूचयित्वा पूजावस्तुभिः सह एकाकिनं चन्द्रहासं ग्रामात् बहिः विद्यमानं देवालयं प्रति दुष्टबुद्धिः प्रेषितवान् । कालिकादेवालये घातुकान् नियोज्य, तत्र पूजां कर्तुं यः आगच्छति तस्य शिरः कर्तयन्तु इति आज्ञापितवान् आसीत् । किन्तु विधेः वैचित्र्यम् ! दुष्टबुद्धिः अधिककालं नगरे न भवति स्म इत्यतः प्रासादस्य राजकार्याणि सर्वाणि तस्य पुत्रः मदनः एव पश्यति स्म । तस्मिन् दिनेऽपि मदनः यदा राजगृहं गतवान् राजपुरोहितः गालवः राज्ञः अवसानकालः समीपे अस्ति अतः तस्य समीपं गच्छतु इति सूचितवान् । राजा विवाहसमये चन्द्रहासं दृष्टवान् आसीत् । स्वस्य पुत्र्याः निमित्तं योग्यवरः सः एव, पुत्रसन्तानं नास्ति इति कारणेन स्वस्य राज्यस्य उत्तराधिकारिः अपि सः एव इति निश्चितवान् आसीत् । अतः सः अनुक्षणं चन्द्रहासम् आनेतुं मदनं प्रेषितवान् आसीत् । कालिकादेवालयं गच्छन्तं चन्द्रहासं मदनः निवार्य “महाराजः भवतः स्मरणं कुर्वन् अस्ति । अतः भवान् राजगृहं गच्छतु । अहं देव्याः पूजां कृत्वा आगच्छामि …..” इति तस्मात् पूजावस्तूनि स्वीकृत्य देवालयं गत्वा घातुकैः हतः अभवत् । मन्त्री देवालयं प्रविश्य, पुत्रस्य छिन्नं मस्तकं दृष्ट्वा हृदयाघातेन मृतः अभवत् ।

विषयायाः पतिभक्तिः[सम्पादयतु]

चन्द्रहासः प्रासादं गत्वा राज्ञा सन्मानितः सन् राजपुत्र्या चम्पकमालिन्या सह विवाहं कृत्वा कुन्तळराज्यस्य राज्याधिकारं प्राप्तवान् । परेद्यवि प्रातः देवालयस्य अर्चकः दुष्टबुद्धिमदनयोः मृतशरीरं दृष्ट्वा दिग्भ्रान्तः जातः । एतं विषयं ज्ञात्वा चन्द्रहासः कालिकादेवालयं प्रविष्टवान् । विषयं ज्ञात्वा विषया अपि अतीवदुःखिता जाता । पितुः दुष्टाभिप्रायस्य परिणामस्य आघातान् स्मरन्त्याः तस्याः मनसि खेदः जातः । बाल्यारभ्य दैवभक्त्या वर्धिता सा कालिकादेव्याः निरन्तरं स्तोत्रम् आरब्धवती । परमपतिभक्ता एषा दैवभक्ता अपि आसीत् । तत्र मन्दिरे चन्द्रहासः स्वस्य श्वशुरं,श्यालं च उज्जीवयितुं कालीमातुः प्रार्थनां कृतवान् । देवी प्रसन्ना न जाता इत्यतः सः स्वस्य शिरः कर्तयित्वा अर्पयितुं खड्गप्रहारार्थं यदा उद्युक्तः जातः तावता देवी प्रत्यक्षा जाता । सा दुष्टबुद्धेः कुतन्त्रान् प्रयत्नान् प्रकटीकृतवती । तथापि मृदुस्वभावयुतः चन्द्रहासः द्वयोः पुनर्जीवनस्य वरं याचितवान् । कृपाकरी भगवती दुष्टबुद्धेः मदनस्य च प्राणान् दत्त्वा चन्द्रहासं अनेकैः वरैः अनुगृहीतवती । अनन्तरं चन्द्रहासः कुन्तळराज्याधिकारं स्वीकृत्य मदनाय मन्त्रिणः स्थानं दत्तवान् । दुष्टबुद्धिः स्वस्य दुष्कार्यैः पश्चात्तापं अनुभवन् सद्बुद्धिं प्राप्य ‘सुबुद्धिः’ जातः । विषयायां तस्य अतीवः अभिमानः उत्पन्नः । सद्भक्तः सुबुद्धिः दैवकार्ये निरतः सन् स्वेच्छया प्राणत्यागं कृत्वा परमपदं प्राप्तवान् । विषया राजकुमार्याः चम्पकमालायाः साहाय्यं कुर्वती पत्युः विधेया आसीत् । महाराज्ञी विषया स्वयं पत्युः सेवां कुर्वती पतिपारायणा आसीत् । भगवद्भक्ता सा दीनदरिद्राणां सेवां कुर्वती स्वस्य जीवनं धन्यं कृतवती । स्वल्पकालानन्तरं विषयायाः मकराक्षनामकः पुत्रः जातः । चम्पकमालिनी अपि पद्माक्षनामकं पुत्रं प्रसूतवती । द्वयोः अपि पालनं विषया एव कृत्वा तौ सन्मार्गे वर्धितवती । श्रीकृष्णः परमात्मा इति विचारं सा जानाति स्म । एतस्मिन् विषये बालेभ्य अपि सूक्तं शिक्षणं दत्तवती आसीत् । कदाचित् बालौ नगरात् बहिः सञ्चारसमये युधिष्ठिरस्य अश्वस्य आगमनं दृष्ट्वा विस्मितौ अभवताम् । तत्रैव स्थितवतोः कृष्णार्जुनयोः दर्शनं कृत्वा विषयं पित्रे चन्द्रहासाय सूचितवन्तौ । अनुक्षणं पत्नीभ्यां सह चन्द्रहासः तत्र आगत्य कृष्णार्जुनौ स्वगृहे दिनत्रयं स्थापयित्वा सत्कारं कृतवान् । कृष्णार्जुनयोः पवित्रकार्ये चन्द्रहासः स्वयमपि साहाय्यं कर्तुम् इष्टवान् । विषया तदर्थम् अनुमतिं दत्तवती । अनन्तरं विषयायाः सूचनानुसारं तस्याः पुत्रस्य राज्याभिषेकं कृत्वा चम्पकमालिन्याः पुत्रं पद्माक्षं युवराजं कृतवान् । एतदनुगुणं विषया राज्यभारस्य सम्पूर्णं दायित्वं स्वीकृतवती । अग्रे चन्द्रहासः देवानां भागवतानां च सेवायां निरतः आसीत् । विषया राज्यशासने पुत्राय साहाय्यं कुर्वती दैवस्य, प्रजाकार्याणां च निर्वहणं कुर्वती अस्मिन् जन्मनि स्वस्य कर्तव्यम् उत्तमरीत्या पालितवती । एवम् आन्तपर्यन्तं सेवायां स्वस्य जीवनं यापयित्वा अमरा जाता ।


""

"https://sa.wikipedia.org/w/index.php?title=विषया&oldid=408546" इत्यस्माद् पुनः प्राप्तिः