चण्डपत्नी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


दैवभक्तिः, पितृभक्तिः इत्यादयः केवलं विद्वत्सु, विद्यावत्सु, ऋषिमुनिषु भवन्ति वा ? अन्येषु सामान्येषु न भवन्ति किम् – इति सन्देहाः अनेकेषां मनसि आगच्छेयुः । किन्तु न तथा भवति । भक्तिः तु सर्ववर्गाणां जनेषु अपि अस्ति । निम्नस्तरीयेषु व्यक्तिषु अन्धश्रद्धा स्यात् । किन्तु श्रद्धाभक्तीनां न तत्र कापि न्यूनता । रामायणस्य गुहः, शबरी इत्यादयः वस्तुतः विद्यावन्ताः न । किन्तु तेषां दैवभक्तिः तु अनन्या । अत्र व्याधं कण्णप्पम् अपि उदाहरणार्थं योजयितुं शक्नुमः । स्त्रीषु अपि एतादृश्यः अनेकाः सन्ति । तासु चण्डपत्नी अन्यतमा । एतस्याः निजनामधेयं न जानीमः एव । एतां चण्डपत्नी इत्येव सर्वे जानन्ति ।

भगवद्भक्तः चण्डः[सम्पादयतु]

पाञ्चालदेशस्य राजा सिंहकेतुः मृगयार्थं प्रस्थितवान् आसीत् । तेन सह अनेके निपुणाः व्याधाः, सामन्ताः, सैनिकाः च आसन् । महाराजः स्वस्य अश्वम् अग्रे अग्रे नीतवान् । सर्वे तस्य पृष्ठतः अवशिष्टाः अभवन् । किन्तु तरुणः कश्चित् वक्रमार्गेण गत्वा महाराजेन मिलितवान् । तस्य व्याधस्य नाम 'चण्डः’इति । सामान्यतः चण्ड मृगयासमये महाराजेन सह एव भवति स्म । सः समीपे अस्ति चेत् अपायः न भवति इति विश्वासः महाराजस्य आसीत् । सर्वदा राज्ञा सह भवति इत्यनेन महाराजेन सह चण्डः निस्सङ्कोचेन व्यवहरन् सम्भाषणं कुर्वन् भवति स्म । महाराजस्य अश्वः अग्रे गच्छन् आसीत् । अरण्यस्य विषये सुपरिचितः चण्डः अग्रे गत्वा अश्वं दीर्घचक्राकाररूपेण भ्रामयित्वा प्रत्यागन्तव्यम् इति ज्ञातवान् आसीत् । अतः सः ऋजुमार्गं गृहीत्वा गतवान् । गुल्मानां द्वारा निबुसीकृत्य अग्रे गतवान् । तस्मिन् अरण्ये शिथिलावस्थायां किञ्चन शिवमन्दिरम् आसीत् । तस्मिन मन्दिरे भगवतः शङ्करस्य बहुसुन्द्रः लिङ्गरूपी विग्रहः आसीत् । चण्डः बहुवारं तं विग्रहं दृष्टवान् आसीत् । मृगयासमये बहुवारं देवस्थानस्य कोणे आश्रयं प्राप्नोति स्म । अद्य तस्य पुराकृतपुण्यस्य प्रकटनं जातम् आसीत् इति भाति । आशुतोषभगवान् तस्मिन् कृपां दर्शितवान् आसीत् । यदा सः मन्दिरस्य समीपे गच्छन् आसीत् तदा तस्य मनसि काचित् भावना आगता । 'अत्र, एतस्मिन् अरण्ये कोऽपि भगवतः पुजां न करोति । अरण्यस्य पशुपक्षिणः देवालये स्थित्वा देवाय कष्टं यच्छन्ति । अहं यदि एतां मूर्तिं मया सह नेष्यामि तर्हि मम इच्छानुसारं भगवतः पूजां कर्तुं शक्नोमि किल?.....आम्…….आम्…..तदेव उत्तमम् ’ इति । इति निश्चित्य तं देवालयं प्रविश्य, तत् लिङ्गं स्वीकृत्य ततः बहिः आगतवान् ।

महाराजद्वारा पूजाविधेः उपदेशः[सम्पादयतु]

महाराजेन मिलति । महाराजः प्रश्नार्थकदृष्ट्या तं यदा पश्यति तदा चण्डः वदति -“महाराज ! अत्र पश्यतु, भगवतः शङ्करस्य कियान् सुन्दरः विग्रहः ! एतस्मिन् वने अस्ति चेत् कः वा एतस्य पूजां करोति ? अतः एतम् उन्नीय आनीतवान् अस्मि । किन्तु भगवतः पूजा कथं करणीया इत्येव न जानामि । अतः भवान् कृपया कथं पूजनीयम् इति पाठयतु । तथैव अहं प्रतिदिनं एतस्य पूजां करोमि” इति । सः कठिनः मार्गः आसीत् । अश्वः शनैः शनैः गच्छन् आसीत् । महाराजः एवं वदति,“भवान् बहु उत्तमं कार्यं कृतवान् अस्ति । एतस्मै देवाय प्रतिदिनं स्नानं कारयतु । किञ्चन् उन्नतासनं कृत्वा तस्य उपरि एतं स्थापयतु । एतस्मै चन्दनं न लेपयतु । चिताभस्म लेपयतु । यतः ईश्वराय चिताभस्म एव प्रियम् । अतः प्रतिदिनं तदेव अर्पयतु । बिल्पपत्राणि, पुष्पाणि च अर्पयित्वा सुगन्धद्रव्यानां धूपं स्थापयतु । अनन्तरं दीपेन मङ्गलारतिं कृत्वा भवान् प्रतिदिनं यद् भोजनं करोति भगवते तस्य नैवेद्यं करोतु । पूजानन्तरं तस्य देवस्य पुरतः नृत्यनैवेद्यं करोतु । यतः नृत्यम् इत्युक्ते भगवतः शङ्करस्य बहुप्रियम् । सः एव नटराजः किल ? जागरूकः भवतु, शङ्कराय चिताभस्म एव लेपयतु । अन्यत् भस्म सः न इच्छति” इति ।महाराजः धार्मिकव्यक्तिः आसीत् । चण्डस्य मुग्धतां दृष्ट्वा सः हसति स्म । व्याधानां नृत्यं दृष्टवान् आसीत् । तदपि तस्य स्मरणे आगतम् । भगवतः पूजा इदानीं स्वयमपि कर्तुं शक्या इति चण्डः चिन्तितवान् । हस्तौ योजयित्वा महाराजं नमति । ततः प्रत्यागमनानुक्षणं चण्डः स्वस्य कुटीरं प्रति आगत्य कस्मिञ्चित् कोणे सम्यक मार्जयित्वा तत्र काञ्चित् मृत्तिकावेदिकां निर्माय, तस्य उपरि लिङ्गं संस्थापितवान् । तत्र परितः सर्वत्र वृक्षाः अधिकाः आसन् इत्यनेन बिल्वपत्रानां, पुष्पाणां च न्यूनता नासीत् । कदाचित् समीपस्थं श्मशानं गत्वा कण्डोलपूर्णं चिताभस्म आनीतवान् । तद् तु सप्ताहान् यावत् उपयोक्तुं शक्नोति स्म । एवं चण्डः नियमितरूपेण पूजां कर्तुम् आरब्धवान् । प्रतिदिनं प्रातः उत्थानानुक्षणं स्नानं कृत्वा, शुभ्रः भूत्वा देवस्य पूजायां निरतः भवति स्म । चण्डमारुतः भवतु, वृष्टिः आगच्छतु, मन्त्री अथवा राजा आह्वयतु देवपूजां विना बहिः प्रस्थानं न करोति स्म । पूजासमये पत्नीमपि पार्श्वे उपवेष्टुं वदति स्म । तस्यै पूजाविधेः परिचयं कारयति स्म । अन्यकारणेन यदि स्वयं गृहे न भवति तर्हि भगवतः शङ्करस्य पूजा कथं भवेत् इति उक्तवान् आसीत् । तथा पूजाकरणसमये कोऽपि विघ्नः न भवेत् इत्यपि उक्तवान् असीत् ।

पत्युः सहचारिणी चण्डपत्नी[सम्पादयतु]

कदाचित् तस्मिन् दिने चिताभस्म समाप्तम् आसीत् । अतः चण्डः तस्मिन् दिने प्रातः एव चिताभस्मनः आनयनार्थं श्मशानं प्रति गन्तव्यम् आसीत् ।पूर्वदिने राजा चण्डं कार्यार्थं राजगृहम् आहूतवान् आसीत् । तत्रत्यकार्ये निमग्नः सन् विलम्बेन गृहं प्रति प्रत्यागतवान् । अतः चिताभस्म आनेतुं न शक्तवान् । रात्रौ महती वृष्टिः इति कारणात् भूमिः सम्पूर्णरूपेण आर्द्रा आसीत् । श्मशाने भस्म कुत्र भवति ? सर्वं जले निमज्जितं भूत्वा गतमासीत् । चण्डः सर्वत्र धावन् अन्विष्यति । कुत्रापि तस्मै भस्म न लभ्यते । अतः निराशः भूत्वा गृहं प्रत्यागतवान् । खेदेन, पश्चात्तापेन तस्य नेत्रयोः अश्रूणि प्रवहन्ति स्म । कुटीरं प्रति आगत्य शिरसि हस्तं संस्थाप्य उपविष्टवान् । "किमर्थं दुखितः अस्ति ? “ इति चण्डपत्नी पृच्छति । "अहं कश्चित् भाग्यहीनः “ इति वदति चण्डः । "किमर्थम् ? किम् अभवत् वदतु” इति चण्डपत्नी प्रतिपृष्टवती । "सर्वत्र अन्विष्टं चेदपि चिताभस्म न प्राप्तम् । तेन विना कथं भगवतः पूजां करोमि ? तस्य पूजां विना अहं कथं जलपानं करोमि ? मम उपवासविषये चिन्ता नास्ति । किन्तु भगवते पूजा, नैवेद्यं च न भवति किल इति चिन्ता” इति व्याधः दुःखेन उपविष्टवान् । अयस्सदृशे शरीरे एतावत् भावनात्मकं, कोमलं हृदयं कथं स्यात् इति कः वा ज्ञातुं शक्नोति ?

चण्दपत्न्याः निष्कळङ्का भक्तिः[सम्पादयतु]

एतानि वचनानि श्रुत्वा चण्डपत्नी मन्दहासं कृतवती । अनन्तरं तस्य समाधानं कारयन्ती “ एतावदेव वा ? एतादृशलघुविषये भवतः एतावती व्याकुलता किमर्थम् ? भवान् चिन्तां न करोतु । स्नानं कृत्वा, शुभ्रवस्त्रं धृत्वा आगच्छतु । तावता भवते अपेक्षितं चिताभस्म प्राप्यते” इति चण्डपत्नी आश्वासनां दत्तवती । तया किं करणीयम् इति निश्चयः कृतः इव सा चण्डपत्नी अनुक्षणं कुटीरस्य द्वारस्य समीपम् गतवती । द्वारस्य पुरतः कश्चन् अश्वत्थवृक्षः आसीत् । तस्य अधः मृत्तिकायाः लघुवेदिकां निर्माय, स्वस्य कुटीरतः सर्वाणि वस्तूनि आनीय तस्य वृक्षस्य अधः स्थापितवती । स्नानं कृत्वा आगत्य चण्डः पत्न्याः कार्यं दृष्ट्वा आश्चर्येण "किं कुर्वती अस्ति भवती” ? इति पृच्छति । "भवान् स्नानं कृत्वा आगतवान् किल ? ….तर्हि प्रथमम् अन्तःस्थात् परमेश्वरम् आनीय वृक्षस्य अधः विद्यमानायां वेदिकायां संस्थापयतु । कुटीरस्य अग्निस्पर्शं कृत्वा तस्मिन अहं दग्धा भूत्वा चिताभस्म सज्जीकरोमि । एतेन बहुदिनानि यावत् पर्याप्तमात्रेन चिताभस्म भवते लभ्यते । एतादृशं कुटीरं तु भवान् सायङ्कालाभ्यन्तरे सज्जीकर्तुं शक्नोति ….” इति चण्डपत्नी मुग्धतया वदति । मृगया समये वन्यमृगान् यथा निरपेक्षभावेन पश्यति स्म तथैव सा स्वस्य शरीरम् अग्नये अर्पयितुं सज्जा जाता । सा स्वस्य बलिदानं तु काचित् क्रीडावत् चिन्तितवती इति भासते । चण्डः पत्न्याः मुखं पश्यति । तस्याः त्यागः, भक्ति, प्रेम च दृष्ट्वा तस्य अन्तःकरणं द्रवति । तस्य कण्ठः गद्गदितः अभवत् । "सर्वसुखानां, धर्माणां, पुण्यानां च कारणं तु शरीरम् एव भवति । अतः तस्य त्यागं किमर्थं करोति ? भवत्याः शरीरं अग्नये आहुतिं न ददातु” इति प्रार्थितवान् चण्डः । "हे मम भगवन् ! अद्य वा श्वः वा मरणं तु भवति एव । अतः इदानीम् एव देहत्यागं कृत्वा परमात्मनः सेवायै अर्पिता भवामि चेत् अहं पुण्यवती भवामि । मम शरीरेण निर्मितं चिताभस्म भगवतः पूजायै विनियुक्तं भवति । एतेन मम बहु आनन्दः प्राप्यते । अतः एतस्मात् पवित्रकार्यात् मां न निवारयतु । मह्यम् आज्ञां ददातु” ! इत्युक्त्वा पत्युः पादे शिरः संस्थापितवती । व्याधस्य चण्डस्य नेत्राभ्यां अश्रूणि अधः पतन्ति । वक्तुं तस्य मुखतः वाक्यानि न आगतानि । वक्तुमेव सः असमर्थः जातः । व्याधपत्नी पुनः स्नानं कृतवती । चण्डः भगवतः शङ्करस्य लिङ्गं बहिः न आनीतवान् इति ज्ञात्वा सा एव स्वयं कुटीरं प्रविश्य लिङ्गम् आनीय बहिः अश्वत्थवृक्षस्य अधोभागे वेदिकायां संस्थापितवती । कुटीरस्य अग्निस्पर्शं कृतवती । पुनरेकवारं पतिं प्रणम्य, भगवतः शङकरस्य स्तुतिम् आरब्धवती । परमात्मनः विषये तस्याः श्रद्धा, पातिव्रत्यं, शिवपूजार्थं त्यागः इत्यादिसद्भावनाभिः तस्याः हृदयशुद्धिः जाता आसीत् । तत्रत्यः परिसरः अपि पवित्रः अभवत् । शुद्धज्ञानेन तस्या अन्तःकरणस्य शुद्धिः भवति । तेन दिव्यज्ञानेन तस्याः मनः, आत्मा च परमात्मनि विलीनौ अभवताम् । गद्गदध्वनिना, प्रेमपूर्णवाण्या च स्वयं एते श्लोकाः तस्याः मुखात् निर्गच्छन्ति ।

वाञ्छामि नाहमपि सर्वधनाधिपत्यं
न स्वर्गभूमिमचलां न पदं विधातुः ।
भूयो भवामि यदि जन्मनि नाथ नित्यं
त्वत्पादपङ्कजलसन्मकरन्दभृङ्गी ॥
किं जन्मना सकलवर्णजनोत्तमेन
किं विद्यया सकलशास्त्रविचारवत्या ।
यस्यास्ति चेतासि सदा परमेशभक्तिः
कोऽन्यस्ततस्त्रिभुवने पुरुषोऽस्ति धन्यः ॥

'हे प्रभो ! अहं कुबेरस्य पदविं न इच्छामि, स्वर्गं न इच्छामि, मह्यं ब्रह्मलोकः मास्तु, मोक्षः अपि मास्तु । अहं यावद्वारं जन्म प्राप्नोमि चेदपि सर्वदा भवतः पदकमलस्य रेणोः भ्रमरः भवितुम् इच्छामि । भवतः चरणे मम अनुरागः चिरन्तनं भवतु । सर्वोच्चवर्णे जन्म प्राप्नोति चेत् किं प्रयोजनम् ? उन्नतां विद्यां प्राप्नोति चेत् कः लाभः ? यस्य चित्ते परमेश्वरस्य भक्तिः संलग्नः अस्ति तस्य अपेक्षया अधिकं किमस्ति ? एतस्मिन् त्रिभुवने तादृशः धन्यः कः अस्ति” ? एवं प्रार्थनां कुर्वती प्रज्वलिताग्नौ सा प्रवेशं कृतवती । तस्याः पूर्णं शरीरं दग्ध्वा भस्म अभवत् । चण्डः पुनः स्नानं कृत्वा पुष्पाणि एकत्र संस्थाप्य, लिङ्गस्य उपरि जलेन अभिषेकं कृत्वा, पुष्पाणि अर्पयति । जलेन चिताभस्म शीतलं कृत्वा तेन पूजां कृतवान् ।

भगवतः अनुग्रहः[सम्पादयतु]

अद्य तस्य हृदये अपूर्वसद्भावनायाः उदयः अभवत् । देवाय नैवेद्यस्य समर्पणं कृत्वा उन्मत्तः इव भगवतः सम्मुखे नर्तनम् आरब्धवान् । ततःपूर्वं पति- पत्न्यौ मिलित्वा भगवतः पुरतः नृत्यं कुर्वन्तौ आस्ताम् । किन्तु अद्य सः एकाकी आसीत् । एतेन तस्य दुःखम् अधिकम् अभवत् । नृत्यं कुर्वतः चण्डस्य आश्चर्यं भवति । नेत्रयोः अविश्वासं कुर्वन् इव पश्यति । तस्य पार्श्वे, यथापूर्वं नृत्यं कुर्वती अस्ति तस्य पत्नी । एषा भ्रान्तिः तु न स्यात् किल इति चिन्तयन् पृच्छति –“ अहं स्वप्नं पश्यन् नास्मि किल् ? भवती अत्र कथम् आगतवती ? भवती अग्नौ दग्ध्वा भस्मीभूता खलु” ? इति । "कुतः स्वप्नः ! भवतः दासी अहं भवतः पुरतः एव स्थितवती अस्मि । अहं कदा अग्निप्रवेशं कृतवती .. कदा मम जीवः गतः इति किमपि स्मरणे नास्ति…. “ इति पत्युः वचनेन आश्चर्यचकिता चण्डपत्नी अवदत् । तयोः दम्पत्योः अपारम् आश्चर्यम् अभवत् । तयोः आश्चर्यगमनात् पूर्वम् अकस्मात् काचित् अशरीरवाणी श्रूयते "भवन्तौ द्वौ अपि कैलासं प्रविशताम् । भगवान् शङ्करः भवन्तौ स्मरन् अस्ति” इति । किञ्चन दिव्यं विमानम् आकाशात् तयोः कुटीरस्य समीपम् आगत्य अवतरति । दूतः तौ द्वौ अपि स्वीकृत्य याने उपवेशितवान् । अनुक्षणं तद् दिव्यविमानं गगनमार्गेण उपरि गच्छति ।

"https://sa.wikipedia.org/w/index.php?title=चण्डपत्नी&oldid=388684" इत्यस्माद् पुनः प्राप्तिः