शशिकला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


शशिकलायाः परिचयः[सम्पादयतु]

सुबाहुः काशीनगरस्य महाराजः आसीत् । शशिकला तस्य एकमात्रं पुत्री । कदाचित् सा प्रासादस्य पार्श्वे गच्छन्तं वृद्धब्राह्मणतपस्विनं दृष्ट्वा तस्मै निमन्त्रणं प्रेषयति । तेन ब्राह्मणेन धृतेभ्यः वस्त्रेभ्यः वर्चसः च सा नितराम् आकृष्टवती आसीत् । धार्मिकभावनावती राजकुमारी ब्राह्मणस्य सत्कारं कृत्वा योग्यम् आसनं दत्त्वा ‘स्वामिन्, कुतः आगच्छन् अस्ति ?’ इति पृच्छति । तदा सः ब्राह्मणः ‘पुत्रि ! अहं तीर्थानां राजा इति प्रख्यातात् प्रयागात् आगच्छन् अस्मि । तत्रत्ये भारद्वाजस्य आश्रमे वसामि । अत्र भगवतः विश्वनाथस्य दर्शनार्थम् आगतवान् अस्मि’ इति वदति । प्रयागशब्दस्य श्रवणानुक्षणं तस्य क्षेत्रस्य विवरणानि महर्षेः भारद्वाजस्य प्रसिद्धेः विषये च श्रुत्वा ज्ञातवती आसीत् इत्यतः ‘महर्षेः भारद्वाजस्य आश्रमे सर्वैः ज्ञातव्यः तादृशः विशेषः कः अस्ति ?’ इति पृष्टवती । सा महर्षेः भारद्वाजस्य सिद्धेः, त्यागस्य, तपसः, ज्ञानस्य च विषये पितुः आस्थाने विदूषां चर्चां, प्रशंसां च शृतवती आसीत् । भारद्वाजस्य आश्रमं प्रति भरतवर्षस्य विविधेभ्य भागेभ्यः तपस्विनः, विद्वांसः, योगिनः च आगत्य तिष्ठन्ति इत्यपि श्रुतवती आसीत् । अतः कुतूहलेन तस्य महर्षेः आश्रमस्य विषये पृष्टवती ।

ब्राह्मणद्वारा सुदर्शनस्य परिचयः[सम्पादयतु]

एतद् श्रृत्वा सः ब्राह्मणः वदति ‘महर्षेः भारद्वाजस्य तपसः, सिद्धेः, ज्ञानस्य, विद्यायाः च स्तरः अद्भुतः अवर्णनीयः च अस्ति । तस्य आश्रमे एकस्यापेक्षया एकः योगी, महात्मा सर्वदा भवति । किन्तु इदानीन्तनम् अद्भुतं नाम सर्वैः आकृष्टः, आश्रमे विद्यमानः राजकुमारः सुदर्शनः …………’ इति । एवं सामान्यरूपेण सुदर्शनस्य परिचयं कारयन् गच्छति । “अयोध्यानगरे इक्ष्वाकुवंशस्य ध्रुवसन्धिः अथवा पौष्यः इति राजा राज्यभारं करोति स्म । एतस्य ज्येष्ठपत्न्याः नाम लीलावती इति । निषधदेशाधिपतेः वीरसेनस्य पुत्री मनोरमा तस्य द्वितीयपत्नी आसीत् । कालानन्तरे लीलावत्याः शत्रुजित् नामकः पुत्रः, मनोरमायाः सुदर्शननामकः पुत्रः जातः । द्वौ पुत्रौ अपि प्राप्तवयस्कौ भवतः । तदा ध्रुवसन्धिः ज्येष्ठपत्न्याः पुत्रस्य शत्रुजितः युवराज्याभिषेकः करणीयः इति प्रयत्नं कुर्वन् आसीत् । तदा मनोरमा एतं विचारं पित्रे निवेद्य स्वस्य पुत्राय युवराज्यपदविं प्रार्थितवती । अतः वीरसेनः सैन्येन सह अयोध्यां प्रति आगतवान् । जामात्रु- श्वशुरयोः च घोरं युद्धं जातम् । एतस्मिन् युद्धे वीरसेनः पराजयं प्राप्य मृतः अभवत् । एतेन कारणेन तस्य पुत्री मनोरमा पुत्रेण सुदर्शनेन सह अयोध्यां त्यक्त्वा देशान्तरं गतवती । सर्वत्र अटित्वा अन्ते तौ भारद्वाजस्य आश्रमं प्रति आगतवन्तौ । कतिपयदिनानन्तरं पुत्रविरहेण ध्रुवसन्धिः अपि मरणं प्राप्तवान् । अनन्तरं शत्रुजित् राजा अभवत् । सुदर्शनस्य अयोध्यां प्रति प्रत्यागमनस्य अवसरः एव न प्राप्तः । “सुदर्शनः सुन्दरः सुशीलः तरुणः । तादृशं सद्गुणिनम् अहम् एतावत्पर्यन्तं न दृष्टवान् एव । एतावति अल्पवयसि आश्रमे विद्यमानः सः अल्पसमये एव स्वस्य प्रतिभां, शास्त्रज्ञानं च प्रवर्ध्य अस्मद्सदृशान् वृद्धान् अपि मूकविस्मितान् कृतवान् अस्ति । सः वीरः शूरः च अस्ति इति कारणतः स्वयं भारद्वाजमहर्षिः शस्त्रास्त्रविषये, नीतिशास्त्रविषये च उत्तमं प्रशिक्षणं दत्तवान् अस्ति” इति । एतद् श्रुत्वा राजकुमारी शशिकला आश्चर्यचकिता जाता । पूर्वं सा कञ्चित् स्वप्नं दृष्टवती आसीत् । तस्मिन् स्वप्ने सा किञ्चित् प्रशान्तं, स्नेहमयं च तपोवनं दृष्टवती आसीत् । तत्र कस्यचित् ऋषेः आश्रमः आसीत् । तस्मात् कुटिरात् कश्चित् युवकः बहिरागतवान् । तस्य सौन्दर्यं दृष्ट्वा एषा मुग्धा जाता । तदा एव स्वप्नभङ्गेन सा उत्थितवती । विचित्रं नाम तदारभ्य प्रतिदिनमपि तस्याः स्वप्ने सः एव आश्रमः, सः एव युवकः च दृश्यते स्म । कदाचित् स्वप्ने राजकुमारी स्वस्य आराध्यदेवीं भगवतीं पूजयति । तदा भगवती प्रत्यक्षा भूत्वा “ अहं भवत्याः पूजया सन्तुष्टा अस्मि । परमसुन्दरं, प्रतापिनं , धर्मात्मानं च पतिं भवती प्राप्नोति । यं भवती इदानीं स्वप्ने दृष्टवती सः एव भवत्याः पतिः भविष्यति !” इति अनुगृहीतवती आसीत् । तदारभ्य राजकुमारी तं युवकं द्रष्टुं, प्राप्तुं च चिन्तयति स्म । इदानीं ब्राह्मणेन उक्तस्य तपोवनस्य, मुनेः, आश्रमस्य च विवरणं श्रुत्वा एतस्य, स्वस्य स्वप्नस्य च बहवः साम्यांशाः सन्ति इति ज्ञातवती । अनन्तरं राजकुमारी सुदर्शनस्य रूपं, हावभावं विस्तरेण श्रुत्वा सः एव स्वप्नस्थः युवकः इति निश्चयं कृत्वा तस्मै स्वस्य हृदयम् अर्पितवती । सा बहु आनन्दिता आसीत् । ब्राह्मणस्य सत्कारं कृत्वा, पूजयित्वा, उपायनानि च दत्तवती । सः आनन्देन ततः निर्गतवान् ।

पुत्री विवाहयोग्या अस्ति इति ज्ञात्वा महाराजः सुबाहुः पुत्र्याः स्वयंवरार्थं यत्नं कुर्वन् आसीत् । स्वयंवरस्य मण्डपस्य निर्माणं, सम्बद्धेभ्यः म्बन्धितेभ्यः आह्वानदानम् इत्यादयः प्रयत्नाः आरब्धाः । राजकुमारी एतं विचारं ज्ञातवती । सा सखीद्वारा मातरं निवेदयति “मम स्वयंवरः व्यर्थः । अहं राजकुमारे सुदर्शने अनुरक्ता अस्मि । तम् अपि आहूय स्वयंवरस्य व्यवस्थां कुर्वन्तु” इति । महाराज्ञी एकान्ते राजकुमार्याः विषयं महाराजाय निवेदितवती । तदा महाराजः वदति “भवत्याः पुत्री इतोऽपि लघुबालिका । केऽपि ताम् उत्तेजितवन्तः सन्ति । उत्तमवचनैः तस्याः समाधाननं कारयतु । अयोध्यायाः राजा ध्रुवसन्धिः मृगयायाः समये सिंहेन मारितः । तस्य राज्ञ्याः लीलावत्याः अनुजः युधाजित् ससैन्यम् अयोध्यायाः उपरि आक्रमणं कृत्वा विजयी अभवत् । विजयशाली युधाजित् स्वस्य भागिनेयं शत्रुजितं सिंहासने उपवेश्य राज्याभिषेकं कृतवान् । इदानीमपि सः स्वस्य भागिनेयस्य रक्षणार्थम् अयोध्यायाम् एव अस्ति । अयोध्यातः पलायनं कृत्वा आगतौ मनोरमा, तस्याः पुत्रः सुदर्शनः च अत्यन्तं दरिद्रावस्थायां भारद्वाजस्य आश्रमे जीवनं यापयन्तः सन्ति । इदानीमपि युधाजित् सुदर्शनं तस्य मातरं च मारयितुं यत्नं कुर्वन् अस्ति ।

कदाचित् युधाजित् प्रयागं गतवान् आसीत् । तत्र भारद्वाजस्य पुरतः शक्तिप्रयोगे विफलः जातः । साहसं कर्तुं सः न शक्तः । यदि आश्रमात् बहिः सुदर्शनस्य आगमनम् अभविष्यत् तर्हि निश्चयेन सः सुदर्शनम् अमारयिष्यत् । एवं मृत्योः छायायां जीवते दरिद्राय कथं मम पुत्रीं ददामि ? एकाकी सुदर्शनः युधाजितः प्रबलसैन्यस्य विरोधं कथं करोति ? अतः भवत्याः पुत्र्याः सान्त्वनं कारयतु । युधाजित्स्दृशेन बलिष्ठजनेन सह अस्माकं शत्रुत्वं मास्तु । यदि तथा कुर्मः शत्रुः गृहं प्रति आहूतः इव भवति” इति उक्तवान् ।

स्वयंवरस्य व्यवस्थाः अभवन् । सर्वेभ्यः राज्येभ्यः आह्वानपत्रिकाः प्रेषिताः । एकाकिनी शशिकला किं कुर्यात् ? सा पत्रं लिखित्वा कस्यचित् ब्राह्मणस्य द्वारा सुदर्शनाय प्रेषितवती ।

पत्रे सा लिखितवती आसीत् “आर्यपुत्र ! भगवती उमा मां भवतः चरणदासीं कृत्वा अनुगृहीतवती अस्ति । अत्र मम पिता मम स्वयंवरस्य व्यवस्थां कृतवान् अस्ति । सर्वेभ्यः राज्येभ्यः आह्वानपत्राणि गतानि सन्ति । किन्तु अहं मम हृदयं भवतः चरणे अर्पितवती अस्मि । भवान् सूक्तसमये अत्र आगत्य एतां दासीं स्वीकरोति चेत् धन्या भवामि । अन्यथा कथञ्चित् अहं तु भवदीया अस्मि । भवता यदि निराकृता भवामि तर्हि विषप्राषनमेव शरणम् । सर्वे राजानः सैन्यसहिताः आगताः सन्ति । भगवती भवन्तं प्राप्तुं माम् अनुगृहीतवती अस्ति । भवान् आगच्छतु एव । एषा मम प्रार्थना” इति ।

ब्राह्मणः राजकुमार्याः पत्रं सुदर्शनाय यदा ददाति, तदा सः तत् पत्रं नीत्वा महर्षेः भारद्वाजस्य चरणे स्थापयति । शशिकलायाः यथा स्वप्नः आसीत् तथा सुदर्शनस्य अपि स्वप्नः आसीत् । भगवती तस्य स्वप्नेऽपि काशीं गत्वा शशिकलायाः वरणस्य अनुज्ञां दत्तवती आसीत् । एतं विषयं ज्ञात्वा महर्षिः तस्मै काशीं गत्वा आगन्तुम् अनुमतिं दत्त्वा आशीर्वादं करोति । निश्चयेन युधाजित् काशीम् आगच्छति एव । तेन स्वस्य पुत्रस्य अपायः भवति इति सुदर्शनस्य मातुः मनोरमायाः भयम् आसीत् । तम् एकमेव प्रेषयितुं भारद्वाजः न इच्छति स्म । अतः कथञ्चित् मातरम् अङ्गीकारयित्वा ब्राह्मणेन सह तां पूर्वमेव काशीं प्रति प्रेषितवान् । काशीराजस्य स्वयंवरस्य मण्डपं सुदर्शनः एकाकी यदा प्रविशति तदा सर्वेषाम् आश्चर्यम् । केऽचन तं पृच्छन्ति “भवान् राजकुमारः तु न । यतः भवतः पृष्ठतः सेना वा सेवकाः वा न सन्ति । कस्य आह्वानात् भवान् अत्र आगतवान् अस्ति ? भवतः आजन्म शत्रुः युधाजित् भवतः विमात्रा , भ्रात्रा शत्रुजितेन च सह ससैन्यं आगतवान् इति भवान् न जानाति वा ? कस्य बलस्य आधारेण भवान् एतद् साहसं कृतवान् ?” इति । “भगवती पार्वतीदेवी स्वप्ने आगत्य माम् अत्र आगन्तुम् आज्ञां दत्तवती अस्ति” इति गम्भीरवाण्या सुदर्शनः वदति । अग्रे सः “मम पार्श्वे सेवकाः वा सैन्यं वा नास्ति । किन्तु एतेषां साहाय्ययुक्तः महाराजः अपि कालाधीनः मृतः भवति इति तु निश्चितम् । रक्षणारहितः अरण्यवासी क्रूरप्राणिनां मध्येऽपि जीवनं करोति । विधिनियमेन विना कोऽपि कस्यापि दुःखं दातुं न शक्नोति । तादृशान् मारयितुम् अपि न शक्नुमः । मम विधिलिखितं यद अस्ति तद् तु भवति एव । अत्र मम भयं किमर्थम् ? अहं तु देव्याः आदेशस्य पालनकर्ता कश्चित् मानवः अस्मि…….”इति उक्तवान् । सुदर्शनस्य निर्भीकाणि सत्ययुक्तानि वचनानि श्रुत्वा सर्वे आनन्दिताः अभवन् । सर्वे तस्य विद्याबुद्ध्योः, साहसप्रवृतत्त्याः च प्रशंसा कुर्वन्ति। नियमासुसारं स्वयंवरस्य आमन्त्रणं भवतु न वा भवतु यः कोऽपि राजकुमारः तस्मिन् भागं गृहीतुं शक्नोति । स्वयंवरस्य विघ्नकरणम् अपराधाय इति मन्यते स्म । अतः युधाजित् तथा अन्ये राजानः सर्वेषां दृष्ट्या शत्रवः भवितुं न इष्टवन्तः । स्वयंवरस्य अनन्तरं सुदर्शनस्य संहारस्य योजनां कुर्वन्तः आसन् ।

शशिकलायाः दृढचित्तता[सम्पादयतु]

“अनेकेषु राजकुमारेषु कस्यचित् चयनकरणस्य सन्दर्भे सति, एतावत्पर्यन्तं या स्वस्य हृदयं कस्मै अपि न अर्पितवती तादृशी एव स्वयंवरमण्डपं प्रवेष्टुम् अर्हति इति तु नियमः । किन्तु अहं मम हृदयं कस्मैश्चित् दत्त्वा मनसा तं वृतवती अस्मि । तर्हि अहं किमर्थं स्वयंवरमण्डपं प्रविशामि…… ?” राजकुमारी शशिकला स्वयंवरमण्डपं गन्तुं निराकरणं कुर्वती वदति ।

अग्रे सा “अनेकेषां कामुकानां राजकुमाराणां पुरतः गमनं मत्सदृशीभ्यः स्त्रिभ्यः न युज्यते । एतेन मम सतीत्वं नष्टं भवति । वेश्या इव अहं कथं स्वयंवरमण्डपं प्रविशामि ?” इति वदति । एवं पुत्र्याः वचनं श्रृतवतः काशीराजस्य पुरतः कश्चित् विकटप्रश्नः तिष्ठति । तदा सः राजसभां प्रविश्य बहुविनम्रतया वास्तविकपरिस्थितेः निवेदनं कृतवान् । सर्वेषां क्षमां याचितवान् । आगताः सज्जनाः राजकुमार्याः नीतेः प्रशंसां कृतवन्तः । केचन ‘परिस्थितिः एवं यदि स्यात् तर्हि अस्माकम् आह्वानस्य मूर्खतां किमर्थं कृतवान्” इति महाराजं सुबाहुं कोपेन पृष्टवन्तः ।

एतद् श्रुत्वा सुबाहुः तु क्रोधाग्न्या अग्निपर्वतः इव अभवत् । कोपेन कम्पमानः उत्थाय आवेशेन गर्जति “भवान् अस्मान् आहूय अस्माकम् अवमाननं कृतवान् अस्ति । दरिद्रः सुदर्शनः राजकुमारीं प्राप्तुं कदापि न शक्नोति । महाराज ! राजकुमारीं स्वयंवरमण्डपम् आहूय कञ्चित् राजकुमारं वृणोतु इति वदतु । अन्यथा अयोध्याधिपतिना शत्रुजिता सह तस्याः विवाहं कारयतु । मम भागिनेयेन शत्रुजिता सह तस्याः विवाहः भवेत् एव । सा अयोध्यायाः महाराज्ञी भवेत् एव । भवान् यदि एतद् वचनं न शृणोति तर्हि मम सैन्यद्वारा भवतः राज्यस्य सर्वनाशः निश्चितः” इति । एवं युधाजितः वदन् एव आसीत् । पुत्र्याः समाधाननार्थं काशीराजः अन्तःपुरं प्रविष्टवान् । किन्तु शशिकलायाः निर्धारः अचलः आसीत् । अतः सः कञ्चित् उपायं चिन्तितवान् । सः सभाभवनम् आगत्य विवाहः श्वः भविष्यति इति घोषयति । एतद् श्रुत्वा सर्वे राजानः स्वस्य शिबिरं गतवन्तः ।

तस्मिन्दिने रात्रौ मात्रा सह सुदर्शनं प्रासादं प्रति आहूतवान् । राजपुरोहितम् आहूय विधिपूर्वकं शशिकलायाः विवाहं सुदर्शनेन सह कृतवान् । परेद्यवि प्रातः निमन्त्रितान् सर्वान् काशीराजः सुबाहुः विनम्रतया प्रार्थयति “मम पुत्र्याः विवाहः अभवत् । मनसा सा यं वृतवती आसीत् तेन सह तस्याः विवाहः कृतः । तस्मै तस्याः समर्पणं जातम् । स्वयंवरस्य विधिः अपि एषः एव अस्ति । तस्याः आशीर्वादं कृत्वा मम आतिथ्यं स्वीकुर्वन्तु” इति । राजकुमार्याः विवाहः सम्पन्नः अस्ति । युद्धेन कः लाभः ? इति चिन्तयित्वा केचन गतवन्तः । इतोऽपि केचनाः सुक्ष्मदर्शिनः पूर्वेद्युः एव प्रस्थितवन्तः आसन् । केचन तेषां रोषं प्रकटितवन्तः, भायितवन्तः । केचन कुतूहलेन उपविष्टवन्तः आसन् । किन्तु सैन्यसहितः युधाजित् प्रासादस्य उपरि आक्रमणं कृतवान् । षड्दिनानि यावत् काशीराजः सुदर्शनं राजगृहे एव स्थापितवान् आसीत् । सप्तमे दिने सुदर्शनः सैन्येन सह प्रस्थाय युधाजितः उपरि सशक्त्या प्रत्याक्रमणं कृतवान् । उभयसेनयोः मध्ये भयानकं युद्धं प्रवृत्तम् । अन्ते युधाजित्, शत्रुजित् च सुदर्शनेन मारितौ । राज्यं निष्कण्टकम् अभवत् । मात्रा, पत्न्याः सह सुदर्शनः अयोध्यां प्रति प्रत्यागतवान् । प्रजाः प्रीत्यादरेन तस्य स्वागतं कृतवत्यः । विमात्रे लीलावत्यै अपि सः आश्वासनं दत्तवान् । मन्त्रिणः तस्य राज्याभिषेकं कृतवन्तः ।


""

"https://sa.wikipedia.org/w/index.php?title=शशिकला&oldid=373933" इत्यस्माद् प्रतिप्राप्तम्