धरा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


अतिथिसेवापरायणा धरा[सम्पादयतु]

द्रोणः अष्टवसुषु अन्यतमः । एतस्य पत्नी धरा । एतौ बहुकालं यावत् गन्धमाधने पर्वते सन्तानस्य प्राप्त्यर्थं तपः आचरन्तौ आस्ताम् । तौ सुन्दरे पर्णकुटीरे वसतः स्तः । द्रोणेन भिक्षाटनया प्राप्तं खादित्वा भगवतः ध्याने निरतौ भवतः स्म । कदाचित् द्रोणः भिक्षाटनार्थं गतवान् आसीत् । तस्मिन् समये श्यामवर्णीयः सुन्दरः युवकः कश्चित् पर्णकुटिरस्य द्वारे आगत्य "वयं भवतोः अतिथिरूपेन आगताः स्मः । मम मातपितरौ वृद्धौ स्तः । चलितुमपि असमर्थौ । अस्मभ्यं आश्रयं ददातु” इति प्रार्थितवान् । तस्य सुन्दरं शरीरं, हस्ते पलाशदण्डः, धृतयज्ञोपवीतः, तेजस्विव्यक्तित्वस्य पुरतः यःकोऽपि वा भवतु, नतमस्तकः भवति स्म । तेन सह वृद्धौ पितरौ अपि आस्ताम् । "अस्माकं सौभाग्यम् ! अस्मद्दृशानां दरिद्राणां कुटीरम् आगत्य एतं प्रदेशं भवतः चरणस्पर्शेन पवित्रं कृतवान् अस्ति” इति धरा उक्तवती । बिल्वचम्पकजपाकुसुमतुलस्यादिभ्यः सस्येभ्य आवृतः सः पर्णकुटीरः महामुनेः पुण्याश्रमः इव दृश्यते स्म । देवमन्दिरसमानस्य गोमयलिप्तस्य कुटीरस्य द्वारे धरा वनदेवता इव स्थितवती आसीत् । तस्याः गुल्फचुम्बितः कोमलकेशराशिः रूक्षतया, कपिशवर्णेन जटा इव परिवर्तिता आसीत् । कण्ठे माङ्गल्यं, उभयभुजयोऽपि पुष्पालङ्कारः, ललाटे रक्तवर्णस्य सिन्धूरतिलकेन विना कोऽपि अलङ्कारः नासीत् । सा निराभरणसुन्दरी आसीत् । तादृशं वल्कलवस्त्रं धृत्वा सा अमरावतीतः अवतीर्णा भगवती भागीरथी इव प्रभासम्पन्ना आसीत् ।

धरायाः सत्वपरीक्षा[सम्पादयतु]

सा अतिथीनां स्वागतं कृत्वा, तेभ्यः कुशासनं दत्त्वा पर्णनिर्मिते द्रोणे समीपनिर्झरात् जलम् आनीय, पादप्रक्षालनार्थं दत्तवती । "मम पतिदेवः भिक्षाटनार्थं गतवान् अस्ति । सः यदा प्रत्यागच्छति तदा तद् भवते तद् दत्त्वा सत्करोमि” इति उपचारं कृतवती । “ सम्मर्दयुते एतस्मिन् लघुकुटीरे मम पितरौ सुखेन विश्रान्तिं स्वीकर्तुं न शक्नुवन्ति” इति युवकः कोपेन वदति । पुनः सः वदति यद् "भवत्याः गृहे अस्ति तु एकः एव मृत्तिकाघटः । भवत्याः पतिः भिक्षाटनया किमपि आनयति इति विश्वासः कथं करणीयः ? मम पितरौ तु बहु बुभुक्षितौ स्तः । एतेन मम बहु कष्टं भवत् अस्ति” इति । "भवता उक्तं तु सत्यमेव । परन्तु अस्मासु श्रद्धायाः, भक्त्याः च अभावः नास्ति” इति धरा दीनतया प्रार्थितवती । "भक्त्या देवाः तृप्ताः भवेयुः । मानवस्य जठरस्य ज्वाला भक्त्या शान्ता भवति चेदपि तस्य निमित्तं स्थूलं भोजनं तु अनिवार्यम्” इति निष्ठुरतया वदति युवकः । "किञ्चित्कालपर्यन्तं निरिक्षां कुर्वन्तु । अस्माकं गृहस्वामी अस्माकम् असहायकस्थितौ दयां दर्शयेत्” इति वदन्त्याः तस्याः नेत्रे अश्रुपूर्णे जाते । “ भवत्याः गृहस्वामी कः ? एषः क्षुद्रः कुटीरः अपि भवतां न वा” ? इति युवकः आश्चर्येण पृच्छति । "एतद् गृहम्, एषः प्रपञ्चः, शरीरं सर्वं गृहस्वामिनः विष्णुपरमात्मनः एव । अस्माकं कार्याणि सर्वाणि तस्य प्रेरणया तस्मै एव अर्पितानि भवन्ति” इति भावावेशेन वद्न्त्याः तस्याः कण्ठस्वरः गम्भीरः जातः । "भवत्याः पतिः कस्य देवस्य उपासनां करोति ?” इति पृष्ट्वा युवकः काञ्चित् पुष्पमालां दर्शयन् “ एषा तुलसी-बिल्वपत्र–जपाकुसुम– चम्पकपुष्प- धत्तूरपुष्प- फलानि एवम् एकत्र सङ्गृह्य कां विचित्रपूजां कुर्वन्ति ?” इति यदा पृच्छति तदा सा "मत्सदृश्याः अबोधायाः तद् सर्वं किं ज्ञायते ? एतद् वनम्, उपवनं सर्वं श्रीहरेः अस्ति इति मम पतिदेवः उक्तवान् अस्ति । सुन्दरं सुगन्धयुकतं शुभवर्णीयं च पुष्पं सर्वं तस्य देवदेवस्य पूजार्थं सङ्गृह्णामि । तत्र किं त्याज्यं किं ग्राह्यम् इति तु ज्ञातुम् अहं न शक्नोमि…..”इति उक्तवती । "देवी ! भवत्याः सत्कारार्थम् अहं कृतज्ञः अस्मि” इत्युक्त्वा युवकः आसन्दात् उत्थाय "इदानीं सायङ्कालः जायमानः अस्ति । बुभुक्षया मम पितरौ कष्टम् अनुभवन्तौ स्तः । तौ बुभुक्षया मूर्छितौ भवेताम् । भवत्याः सहृदयतायै वयं त्रयः अपि कृतज्ञाः स्मः । अस्मभ्यम् अनुमतिं ददातु । वयं प्रस्थानं कुर्मः” इति यदा वदन् आसीत् तावता तौ वृद्धौ भूमौ पतितौ । तयोः नेत्रे अर्धनिमीलिते आस्ताम् । "हे भगवन्” ! इति वदन्ती धरा तयोः समीपं धावितवती । अनुक्षणं निर्झरात् द्रोणेन जलम् आनीय तयोः मुखे किञ्चित् सेचनं कृत्वा किञ्चित् जलं पायितवती । तदा तौ नेत्रे किञ्चित् उद्घाटितवन्तौ । क्षणं यावत् विचिन्त्य धरा आग्रहपूर्वकं वदति "इतोऽपि किञ्चित्कालं प्रतीक्षां कुर्वन्तु । एतस्य अरण्यस्य अञ्चलस्य समीपे कश्चित् ग्रामः अस्ति । भवतां निमित्तं कानिचन वस्तूनि तत्र विद्यमानात् आपणात् आपणिकं पृष्ट्वा आनयामि । एतादृशपरिस्थितौ एतयोः वृद्धयोः अन्यत्र गमनम् उचितं नास्ति” इति । "उत्तमं, गत्वा शीघ्रम् आगच्छतु” इति अनन्यगतिकः इव युवकः वदति । धरा ततः निर्गता । किञ्चित् दूरं यावत् घोरारण्ये चलनानन्तरं सा तं ग्रामं प्राप्तवती । इतःपूर्वं सा गृहात् बहिः न गतवती आसीत् । ग्रामस्य ग्राहकैः पूर्णस्य आपणस्य समीपे स्थातुमेव तस्याः सङ्कोचः भवति स्म । कुत्रचित् लज्जया स्थितवती । तस्याः अद्भुतः वेषः, सौन्दर्यं च तत्रत्येभ्यः अपरिचितम् आसीत् । सर्वेषाम् उत्सुकदृष्टिः तस्याः उपरि अपतत् । आपणिकः श्रीवत्सः तां दृष्ट्वा आगमनस्य कारणं पृच्छति । तदा धरा पत्युः परिचयं वदन्ती, स्वस्य आगमनस्य कारणमपि उक्तवती । "अस्माकं कुटीरं प्रति त्रयः अतिथयः आगतवन्तः सन्ति । तेभ्यः भोजनादिकं दातव्यम् अस्ति । तदर्थं पर्याप्तमात्राणि वस्तूनि ददातु……” इति सा निवेदितवती । सः आपणिकः "किञ्चित् निरीक्षां करोतु !” इत्युक्त्वा ताम् अमूलाग्रं एकवारम् अवलोकितवान् । श्रीवत्सस्य पूर्वादारभ्य कस्यचित् द्रोणनामकस्य ब्राह्मणभिक्षुकस्य परिचयः आसीत् । किन्तु सः तादृशस्य पत्नी एतावती सौन्दर्यवती इति कल्पनां न कृतवान् आसीत् । तां दृष्ट्वा तस्य कामवासना जागरिता जाता । तया सह भोगसुखं प्राप्तव्यम् इति दुराशा तस्य मनसि उत्पन्ना । अतः अन्यान् ग्राहकान् शीघ्रं प्रेषयित्वा मृदुवचनेन वशीकरणदृष्ट्या तां पृच्छति "अहं भवत्यै वस्तूनि ददामि । तदर्थं भवती मह्यम् किं ददाति ?” इति । सा तु एतावत्पर्यन्तं 'वस्तुनः विनिमयरूपम् किम्?’ इति चिन्तनमेव न कृतवती आसीत् । अतः करुणया प्रार्थितवती "अहं दिग्भ्रान्ता अस्मि । भवते दातुं मम समीपे किम् अस्ति ? मया पृष्टानि वस्तूनि ददाति चेत् भवान् पुण्यं प्राप्स्यति । यदा मम पतिः भिक्षाटनात् प्रत्यागच्छति तदा भवतः वस्तूनां निमित्तं यद् दातव्यं तद् दापयितुं व्यवस्थां करिष्यामि !” इति । "एवं वितरणं कुर्वन् उपविशामि चेत् मया वाणिज्यं कृतमिव !” इति श्रीवत्सः हसन् वदति । "भवती समीपे विद्यमानं ददामि इति वचनं ददाति चेत् अहं वस्तूनि ददामि” इति उक्तवान् श्रीवत्सः । "श्रीमन्नारायणस्य साक्ष्या अपि मम पार्श्वे किमपि नास्ति । किमपि अस्ति चेत् अदास्यम्” इति उक्तवती धरा । श्रीवत्सः कस्मिंश्चित् पात्रे पिष्टं तस्य उपरि घृतस्य लघुपात्रं, शर्करा, शाकानि, लवणम् इत्यादीनि वस्तूनि पात्रे संस्थाप्य अन्तःस्थात् बहिः आनीय 'एतेषां वस्तूनां निमित्तं किं ददाति ?’ इति पृष्टवान् । पवित्रसुधां दातुम्, अबल-अनाथशिशूनां पोषणार्थं मात्रे भगवता दत्तम् उपायनमिव अमृतकलशद्वयं(स्तनद्वयं) कामवासनायाः कल्मशस्य गृध्रदृष्ट्या पश्यति । तदेव पृच्छति अपि । तस्य वचनम् अनुक्षणं सा न ज्ञातवती । "भवान् किं पृष्टवान् ? ” इति पुनः पृच्छति । पुनः सः विवृणोति । तद् श्रुत्वा सा आश्चर्यचकिता जाता । प्रपञ्चे एतादृशः अधमजीविः भवति वा ? इति सा संशयग्रस्ता अभवत् । नारायणस्य निवासस्थानम् इति कथ्यमाने मानवस्य हृदयेऽपि एतादृश्यः कुत्सित्भावनाः भवन्ति किल ? इति दुःखम् अनुभूतवती । "अहं वचनं दत्तवती अस्मि । तस्य पालनम् इदानीं मम कर्तव्यमस्ति । सत्यमेव स्वयं श्रीमन्नारायणस्य स्वरूपः भवति अतिथिः । अहं मम वचनस्य कर्तव्यस्य च रक्षणं करोमि” इत्युक्त्वा स्वस्य वक्षोजे विद्यमानम् अञ्चलम् अपसारितवती । आपणे गुडादीनां कर्तनार्थं विद्यमानां तीक्ष्णिकृतां छुरिकां हस्ते स्वीकृत्य, अनुक्षणं स्वस्य स्तनद्वयं कर्तयित्वा, आपणिकस्य पुरतः स्थापयित्वा, तेन सज्जीकृतानि वस्तूनि गृहीत्वा ततः प्रस्थितवती । यदा धरा कुटीरं प्रविष्टवती तावता युवकः "किम् एतद् ? एतावत् रक्तमयी अस्ति ?” इति पृच्छति । "यस्य गृहात् अतिथिः निराशतया प्रस्थानं करिष्यति तस्य गृहे पुण्यस्य क्षयः भविष्यति” इत्युक्त्वा निःशक्ता सा युवती प्रवृत्तां घटनां सर्वं सूक्ष्मतया विवृत्य, आनीतानि वस्तूनि भूमौ स्थापितवती । अधिकरक्तस्रावेण सा प्रज्ञाहीना भूत्वा पतितवती । अर्धप्रज्ञायामेव "मम स्वामिनः सद्धर्मस्य रक्षणं भवतु ! मम प्राणाः मां न सहकुर्वन्तः सन्ति । अतिथिः साक्षात् नारायणः एव भवति । प्रभो ! भवन्तः एतानि वस्तूनि स्वीकुर्वन्तु । मम प्रार्थनाम् अस्वीकृत्य न गन्तव्यम् इति प्रार्थयामि” इति उक्तवती । तावता अत्याश्चर्यकरी घटना घटिता ।

शिवस्य अनुग्रहः[सम्पादयतु]

सहस्रसूर्याः एककाले उद्भूताः इव सर्वत्र प्रकाशः प्रसृतः । तस्याः परीक्षा समाप्ता आसीत् । युवकस्य स्थाने चतुर्भुजः,वनमाली, पीताम्बरधारी, श्रीवत्सभूषितः, श्रीहरिः, शङ्ख -चक्र- गदा- पद्मसहितः प्रत्यक्षः आसीत् । ललाटे स्वेदबिन्दवः दृष्टाः । भ्रुवौ कठोरौ जातौ । हस्तस्थं चक्रं प्रलयाग्निः इव भ्रमति स्म । वृद्धविप्रः मुण्डमाली भस्मधरस्य नीलकण्ठस्य रूपं धरति । तस्य जटायां जाह्नवी हाहाकारं कुर्वती आसीत् । महासर्पाः फूत्कारं कुर्वन्तः आसन् । तस्य तृतीयनेत्रस्य पक्ष्माः कम्पन्ते स्म । तस्य प्रलयङ्करस्य हस्तयोः त्रिशूलः डमरुः महानाशार्थं सज्जौ इव दृश्येते स्म । सा वृद्धा कुत्र गतवती ? तस्याः स्थाने आदिशक्ती दर्शनं दत्तवती । सिंहवाहिनी सा रक्तखड्गं हस्तेन गृहीत्वा कर्पूरज्वाला इव ज्वलन्ती महाकालाय युद्धार्थम् आह्वानं यच्छन्ती अस्ति वा इव साक्षात् महिषासुरमर्दिनी तत्र विराजमाना आसीत् । जगन्मातापित्रोः दर्शनं प्राप्तवती पुण्यवती धरा अत्यानन्देन शीघ्रं स्वस्य मस्तकेन भूमौ स्पृशन्ती साष्टाङ्गप्रणामं कृत्वा देवानां स्तुतिं कृतवती । "प्रभो ! क्षम्यतां ! मयि भवतोः कृपा सर्वदा भवतु । अहं यःकश्चित् अधमा कीटसदृशी अस्मि । भवतोः कृपापात्रा अस्मि । कोपः मास्तु” इति प्रार्थितवती । श्रीहरिः स्वस्य मेघगम्भीरध्वनिना वदति – "देवी ! भवती धन्या ! मह्यं भवती भवत्याः स्तनयोः बलिदानं कृतवती अस्ति । ते अहं स्वीकृतवान् अस्मि । द्वापरयुगे व्रजे भवती यशोदा इति जन्म प्राप्नोति । तत्र अहं भवत्याः स्तनेन अमृतपानं कृत्वा माम् कृतार्थं करिष्यामि” । एतयोः शुद्धहस्तयोः जलस्य स्वादः मया प्राप्तः अस्ति ।अहं श्रीकृष्णस्य धेनुरक्षणार्थं वज्रेश्वरः भूत्वा व्रजदेशे निवसिष्यामि । अत्र मया स्वीकृतेभ्यः तीर्थ- बिल्वपत्रेभ्यः निमित्तम् अग्रिमजन्मनि भवतः धेनुभ्यः यथेष्टं जलं तृणं च ददामि…….” इति वदति । "मातः ! अहं योगमायायाः रूपेण बृन्दावने स्थित्वा परमात्मनः बाललीलासु साहाय्यं करोमि……” इति सिंहवाहिनी स्वस्य अभिप्रायं सूचितवती । तस्मिन् समये भीक्षापात्रं गृहीत्वा द्रोणः पर्णकुटीरं प्रविष्टवान् । तावता धरायाः सत्वपरीक्षा समाप्ता आसीत् । तस्याः पातिव्रत्यस्य प्रभावेन द्रोणः अग्रिमजन्मनि वसुदेवः भूत्वा जन्म प्राप्तवान् । एवं पुण्यकार्याणां पुण्यप्रभावेन स्वस्य उद्धरेण सह पत्युः उद्धरणमपि कृत्वा धरा आदर्शसती भूत्वा अद्यापि सर्वेषां हृदये स्थितवती अस्ति ।


""

"https://sa.wikipedia.org/w/index.php?title=धरा&oldid=373953" इत्यस्माद् पुनः प्राप्तिः