घुश्मा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


स्थाननिर्देशः[सम्पादयतु]

पूर्वं कर्णाटकस्य चक्राधिपत्ये किञ्चन यादवराज्यम् आसीत् । तस्य राजधानी देवगिरिः आसीत् । बहुवर्षाणि यावत् एतद् नगरं सम्पद्भरितम् आसीत् । किन्तु मल्लिक् काफूर् इत्यस्य कुतन्त्रेण यादवानां राज्यस्य निर्नामः भवति । देवगिरेः नाशः भवति । एतस्य नगरस्य समीपे धूमशकटस्थानकम् अस्ति । इतः २० किलोमीटर् दूरे प्रख्यातानाम् एल्लोरागुहाणां समीपे वेरुळग्रामस्य समीपे घुश्मेश्वरः (घुश्मेश्वरज्योतिर्लिङ्गम्) अस्ति । एतद् ज्योतिर्लिङ्गं भारतस्य १२ ज्योतिर्लिङ्गेषु अन्यतमम् इति प्रसिद्धम् अस्ति । एतस्य क्षेत्रस्य महिमानं द्योतयितुं काचित् घटना जाता । एतादृश्यः घटनाः अनेकाः स्युः । कालगर्भे ताः विलीनाः सन्ति । किन्तु द्वापरयुगस्य आरम्भे घटिता काचित् घटना अद्यापि ज्वलन्ती जीवति ।

जीवनस्य कथा[सम्पादयतु]

देवगिरिपर्वतस्य समीपे कश्चन सद्ब्राह्मणः नित्यनैमित्तिकेषु, दैनन्दिनकार्येषु मग्नः आसीत् । तस्य नाम सुधर्मः इति । तस्य पत्न्याः नाम सुदेहा इति आसीत् । एतौ बहु अन्योन्येन सुखेन जीवनं यापयन्तौ आस्ताम् । एतयोः जीवने न्यूनता नाम तयोः अपत्यं नासीत् ।

तदर्थम् अन्यं विवाहं करोतु इति पत्नी सुदेहा पत्युः अनुरोधं कुर्वती आसीत् "अस्माकं वंशस्य अभिवृद्ध्यर्थं भवता द्वितीयः विवाहः करणीयः” इति । "तादृशी त्वरा किमर्थम् ? भवत्याः आयुः समाप्तं वा ? अपत्यं न भवेत् वा ?” इति पृष्टवान् । तदा सुदेहा "यदि दातुं शक्यं तर्हि भगवान् एतावता अपत्यदानम् अकरिष्यत् एव । किन्तु तस्य अनुग्रहः मयि नास्ति । अतः अहं माता न अभवम् । मम अनुजा घुश्मा अत्यन्ता सुशीला, धर्मपरायणा च अस्ति । तस्याः कारणतः भवतः किमपि कष्टं न भवति । आवाम् अग्रजे अनुजे च परस्परम् अनुसरन्त्यौ एकत्र सुखेन भवावः । आवां मिलित्वा कथं भवावः इति विषये भवान् निश्चिन्तः भवतु…..” इति उक्तवती । मम अनुजया सह विवाहं करोतु इति सुदेहा पुनः पुनः अनुरोधं कृतवती । तस्याः अनुरोधकारणेन सुधर्मः तस्याः वचनम् अङ्गीकृतवान् ।

शिवभक्ता घुश्मा[सम्पादयतु]

सुधर्मः घुश्मां परिणीतवान् । घुश्मा आबाल्यात् शिवभक्ता आसीत् । परमात्मनि शङ्करे तस्याः अपारश्रद्धाभक्तिः आसीत् । प्रतिदिनं सा मृत्तिकया एकाधिकशतं शिवलिङ्गानि कृत्वा तेभ्यः विधिपूर्वकं पूजां कृत्वा अनन्तरं समीपे सरोवरे तानि विसर्जयति स्म । विवाहानन्तरमपि पतिगृहे एषा स्वस्य उपासनायाः क्रमम् अनुवर्तितवती आसीत् । पतिः अपि धर्मिष्टः इत्यनेन तस्याः दैवभक्त्याः, उपासनायाः च सः प्रोत्साहनं करोति स्म । अग्रजा- अनुजयोः मध्ये तु अपारं प्रेम आसीत् । द्वेऽपि बहु प्रेम्णा व्यवहरतः स्म । सुधर्मं भगवान् अनुगृहीतवान् । परिणामेन घुश्मा गर्भवती जाता । कालान्तरे कञ्चित् सुन्दरं पुत्रं प्रसूतवती । पुत्रस्य जन्मनः अनन्तरम् अग्रजानुजयोः मध्ये असमाधानस्य खातः निर्मितः अभवत् । सुदेहायाः किं जातम् इति न ज्ञायते । प्रकृतिसहजं स्यात् सपत्नीमात्सर्यम् । स्वस्य अपत्यं नास्ति । तया अपत्यं प्राप्तं किल इति तस्याः अन्तरङ्गे द्वेषः स्यात् । अनुजायां तस्याः द्वेषभावः अधिकः जातः । पुत्रः जातः इत्यनेन सहजतया सुधर्मः अपि घुश्मायाम् अधिकां प्रीतिं प्रदर्शयति स्म । सः स्वस्य अवधानं पूर्णं घुश्मायां स्थापितवान् इत्यनेन सुदेहायाः कोपः अधिकः जातः । दिनानि अतीतानि । बालः ज्येष्ठः जातः । यौवनं प्राप्तवान् । कयाचित् सुयोग्यया ब्राह्मणकन्यया सह सुधर्मः तस्य विवाहं कारितवान् । आश्रमं प्रति स्नुषाम् आनीतवान् । "अस्मिन् गृहे मदीयं किम् अवशिष्टम् अस्ति ? एतद् गृहं घुश्मायाः, तस्याः पुत्रस्य, तस्याः स्नुषायाः च अभवत्” एवं रीत्या सुदेहा लौकिकासमानतायाः विषये चिन्तयन्ती आसीत् । एवं दुर्भावनया तस्याः असूया अधिका अभवत् । कदाचित् स्नुषा गृहकार्ये मग्ना आसीत् । पुत्रः एकान्ते शयनकक्षायां निद्रां कुर्वन् आसीत् । तदा सुदेहा तत्र आगतवती । तस्यां द्वेषस्य अग्निः प्रज्ज्वालितः आसीत् । आत्मानं नियन्त्रयितुं सा न शक्तवती । पुत्रस्य उपरि आक्रमणं कृत्वा कण्ठं गृहीत्वा श्वासावरोधकपूर्वं तं मारयित्वा मृतशरीरं स्वीकृत्य समीपस्थे सरोवरे क्षिप्त्वा आगतवती । किञ्चित् कालानन्तरं स्नुषा यदा शय्यागारं प्रविष्टवती तदा तत्र पतिः नासीत् । तत्रत्यानि रक्तमयानि वस्त्राणि दृष्ट्वा सा विलापं कुर्वती आसीत् । घुश्मा तु एतं विषयमेव न जानाति स्म । सा आनन्देन स्वस्य पूजाप्रार्थनादिषु लीना आसीत् । यथापूर्वं पूजितानि लिङ्गानि विस्रष्टुं यदा घुश्मा सरोवरं गतवती तदा तस्याः पुत्रः आर्द्रवस्त्रेण सरोवरात् बहिः आगत्य मातुः प्रणामं करोति । "मातः ! अहं मारितः आसम् । किन्तु भवत्याः पूजाफलेन, भगवता अनुग्रहेण च पुनः जीवन् एवम् आगतवान् अस्मि” इति उक्तवान् । तस्य कष्टानि परिहृतानि जातानि इव कल्मशरहितः भूत्वा विशेषतेजसा सः प्रकाशते स्म । विमाता तं कथं मारितवती, कथं सरोवरे क्षिप्तवती इति सर्वं विवृतवान् ।

घुश्मायाः औदार्यम्[सम्पादयतु]

एतद् सर्वं श्रुत्वा घुश्मा पुत्रस्य समाधाननं कारयन्ती प्रेम्णा वदति "पुत्र ! सुदेहा भवतः माता अस्ति । तस्याः क्षमां करोतु । एतां घटनाम् अन्यत्र न वदतु” इति । अग्रजायाः एतादृशेन स्वभावकारणेन घुश्मा बहुदुःखिता जाता । पुत्रवधस्य पापात् तस्याः मोचनं स्वस्य कर्तव्यम् इति चिन्तितवती । ताम् उत्तमां कर्तुं तस्यै ईश्वरानुग्रहं दापयितुं च घुश्मा तपः आरब्धवती । अनेकदिनानि यावत् कठिनतपः आचरितवती । एतेन सुदेहा अपि प्रभाविता अभवत् । सुधर्मः अपि पत्न्याः तपसि साहाय्यं करोति स्म । घुश्मायाः हृदये एका एव प्रार्थना – “ हे प्रभो ! भवान् मम अग्रजां क्ष्यामतु । यदि भवान् मयि प्रसन्नः अस्ति तर्हि मम सहोदरीं पापमुक्तां करोतु । तस्यै चित्तशुद्धिं ददातु । ताम् अनुगृह्णातु” इति । भक्तपराधीनः श्रीशङ्करः भक्तायाः इतोऽप्यधिकां परीक्षां कर्तुं न इष्टवान् । अविलम्बेन एव तस्याः पुरतः अहिधरः(शिवः) चन्द्रमौळी सन् त्रिशूलं गृहीत्वा प्रत्यक्षः अभवत् । सा पुरतः उपस्थितस्य परमात्मनः पूर्णमनसा स्तुतिं कृतवती । "अग्रजायाः क्षमां करोतु” इति प्रार्थितवती घुश्मा । "भवती भवत्याः अग्रजायाः क्षमां कर्तुं शक्नुयात् । अहं क्षमां न करोमि” इति वदति शङ्करः । भगवान् शङ्करः अपराधं न सहते । किन्तु घुश्मा पुनः भगवतः अङ्गीकारः यथा भवेत् तथा प्रार्थितवती । तदा सन्तुष्टः शङ्करः "भवत्याः भक्त्या अहं सन्तुष्टः अस्मि । भवत्याः इच्छानुसारं वरं पृच्छतु” इति वदति । तदा घुश्मा "भगवन् ! भवता सर्वदा अत्रैव स्थातव्यम् । सर्वे अत्रैव भवन्तं पूजयन्तु । भक्ताः भवतः पूजया निष्पापिनः भूत्वा भवतः पुण्यधाम प्राप्नुवन्तु” इति वरं याचितवती । "तथास्तु !” इत्युक्त्वा शङ्करः अदृश्यः भूत्वा अर्चावतारे ज्योतिर्लिङ्गस्य रूपेण तत्रैव स्थितवान् । सुदेहायै परमात्मना सद्बुद्धिः प्रदत्ता आसीत् । सा अनुजायाः क्षमां प्रार्थितवती । अनन्तरम् अग्रजा अनुजा द्वेऽपि परमात्मनः पूजायां मग्ने जाते । पत्युः सेवां कुर्वत्यौ, गोब्राह्मणानां, दीनदलितानां सेवायां निरते अभवताम् । ""

"https://sa.wikipedia.org/w/index.php?title=घुश्मा&oldid=373936" इत्यस्माद् प्रतिप्राप्तम्