रम्यका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पतिभक्ता रम्यका[सम्पादयतु]

मधुच्छन्दः ब्रह्मर्षेः विश्वामित्रस्य पुत्रः | एषः शर्यातिमहाराजस्य कुलपुरोहितः आसीत् । एषः उत्तमः तपस्वी, संयमी, शास्त्रज्ञः, विद्वान् च आसीत् । एतस्य पत्न्याः नाम रम्यका इति आसीत् । रम्यका पतिपारायणा, सदाचारसम्पन्ना च आसीत् । पत्युः पूजादैवभक्तिषु एषा निष्णाता । राजगृहस्य समीपे एव वासः चेदपि सामान्यजीवनं यापयन्ती पत्युः सहचारिणी आसीत् । कदाचित् शर्यातिः विजययात्रां गतवान् । तेन सह कुलपुरोहितः मधुच्छन्दः अपि गतवान् । ज्योतिश्शास्त्रे अपारं पाण्डित्यं प्राप्तवान् सः विश्वामित्रस्य पुत्रः स्वस्य प्रत्यागमनं कदा भविष्यति इत्यपि गणनां कृत्वा तस्मिन्दिने निश्चयेन आगमिष्यामि इति उक्तवान् आसीत् । पतिप्राणा इति नाम प्राप्तवती सा विप्रपत्नी पत्युः प्रत्यागमनस्य प्रतीक्षां कुर्वती आसीत् ।अनेकान् राज्ञः जित्वा, दिग्विजयं सम्प्राप्य विशालसैन्येन सह शर्यातिराजः प्रत्यागच्छन् आसीत् । दिग्विजयस्य विशेषानन्देन प्रत्यागमनसमये सैन्यं बहुमन्दगत्या चलत् आसीत् । एतेन निश्चितसमयाभ्यन्तरे नगरं प्राप्तुं न शक्यते इति सत्यं ज्ञात्वा मधुच्छन्दः खिन्नः आसीत् । तस्य अवलोकनं कृत्वा राजा शर्यातिः पृच्छति "अद्य भवान् बहुखिन्नः इव दृश्यते । भवतः मुखकमलं म्लानम् अस्ति । मम सेवकैः, राजसम्बन्धिभिः वा केनापि प्रकारेण वा भवान् अपमानितः किम् ? अज्ञानवशात् मया किमपि उक्तं किम् ? भवतः विषादस्य कारणं वदतु । अहं भवत्कृपया शत्रोः उपरि प्रचण्डं विजयं साधितवान् अस्मि । अस्माकं तु भगवदनुग्रहेण काऽपि हानिः नाभवत् । अस्माकं सन्तोषसमये भवान् किमर्थं दुःखितः अस्ति ?” इति । ऋषिः मधुच्छन्दः शान्तस्वरेण वदति "राजन् ! यथा भवता ऊहितं तथा न केनापि अहम् अवमानितः । मम चिन्तायाः कारणं तु अन्यदेव वर्तते "इति । राजा पृच्छति "किं कारणं तत् ?” इति । तदा सः मधुच्छन्दः "अहं मम पत्नीम् श्वः प्रातःकालाभ्यन्तरे प्रत्यागमिष्यामि इति समयं सूचितवान् आसम् । तदर्थम् अद्यरात्रिकालमात्रम् अवशिष्टम् अस्ति । वयम् इतोऽपि नगरात् बहुदूरे स्मः । उक्तसमये यदि अहं गृहं न प्राप्नोमि मम साध्वीपत्न्याः अपारः क्लेशः भविष्यति । एतस्मिन् विषये चिन्तयन् अहं दुःखितः अस्मि” इति उक्तवान् ।

शर्यातिद्वारा मधुच्छन्दस्य परीक्षा[सम्पादयतु]

एतद् वचनं श्रुत्वा राज्ञः महान् हासः आगच्छति । सः तस्य राजपुरोहितं सान्त्वयन् वदति –“भवान् तपस्वी, प्रकाण्डपण्डितः, शास्त्रज्ञः संयमी च अस्ति । भवान् एवं पत्न्याः विषये व्याकुलताम् अनुभवन् अस्ति इति ज्ञात्वा दुःखं भवति । भवान् भवतः हृदयस्य नियन्त्रणं करोतु । मम पत्नी राज्ञी स्थविष्ठा अपि परमपतिव्रता इति भवान् जानाति एव । सा अहर्निशि मम ध्याने एव भवति । भवान् यस्मिन् समये प्रत्यागच्छामि इति सूचितवान् अस्ति तस्मिन् समये एव आगच्छामि इति अहं मम पत्नीं सूचितवान् अस्मि । भवान् सामान्यजनानाम् अपेक्षया अधिकप्रमाणेन पत्न्याः विषये चिन्तयन् अस्ति । एषा चिन्ता भवादृशाय ब्रह्मज्ञानिने न शोभते ….” इति । किन्तु एतानि वचनानि श्रुत्वा मधुच्छन्दः लज्जितः नाभवत् । तस्य कोपः अपि नागता । सः तस्य सरल- शान्तध्वनिना वदति "हे राजन् ! सामान्यदृष्ट्या भवान् यद् वदन् अस्ति तत् सत्यमेव । किन्तु मम रम्यकायाः विचारः किञ्चित् विशिष्टः अस्ति । संसारे पतिपत्नीभ्यां समानतया परस्परं प्रीतिः करणीया । प्रीत्या एव गृहस्थाश्रमः आनन्दतया वर्धते । प्रीतिः गृहस्थस्य दोषः न, भूषणप्रायः अस्ति । मम पत्न्याः प्राणाः मयि निवसन्ति । मया विना सा क्षणमपि जीवितुं न शक्नोति । एतेन कारणेन एव मम चिन्ता तस्याः विषये अधिका अस्ति …..” इति । महाराजः तदा ज्ञातवान् यद् स्वस्य सेना मन्दगत्या चलन्ती अस्ति इत्यनेन निश्चितसमये राजधानीं प्राप्तुं न शक्नुमः इति । अतः अनुक्षणं ततः प्रस्थातुं सैन्याय आदेशं ददाति । एवं सैन्यम् अग्रे गच्छति । किन्तु तदपेक्षया राज्ञः मधुच्छन्दस्य वचने, तस्य पत्न्याः विषये च अधिका आसक्तिः आगता । अतः सः रम्यकायाः परीक्षार्थं काञ्चित् योजनां रचयति । तथैव सः शीघ्रगणस्य कञ्चित् वेगदूतं नगरं प्रति प्रेषयति । सः दूतः तीव्रवेगेन गमनसमर्थस्य अश्वस्य उपरि आरुह्य राजधानीं शीघ्रं प्राप्तवान् । राजगृहे महाराज्ञ्या सह गुरुपत्नी रम्यका अपि आसीत् । ते दृष्ट्वा दूतः उच्चैः रुदन्, गद्गदकण्ठेन एतानि वचनानि उक्तवान् ”अस्माकं महाराजः शर्यातिः शत्रूणाम् उपरि विजयं प्राप्य राजगुरुणा, सैन्येन सह आगच्छन् आसीत् । रात्रिकाले भयङ्करे अरण्ये भयानकः राक्षसः अवलम्बः महाराजं राजगुरुं च भक्षितवान् । अनुक्षणं सः राक्षसः पाताळलोकं प्रविष्टवान् । राजसेना एतेन दिग्भ्रान्ता अस्ति । विषयं सूचयितुम् अहं शीघ्रम् आगतवान् अस्मि । मया किं करणीयम् आज्ञापयन्तु” इति । 'राक्षसः महाराजेन सह राजगुरुम् अपि भक्षितवान्’ एतद् वचनं यदा कर्णे प्रविष्टं तावता रम्यका भूमौ पतितवती । क्षणाभ्यन्तरे तस्याः शरीरं कष्टेन प्राणहीनम् अभवत् । एतद् दृष्ट्वा महाराज्ञी स्तब्धा जाता । किं करणीयं, किं वक्तव्यम् इत्येव न स्फुरितं तस्याः । किन्तु किञ्चिदनन्तरं स्वयं समाधानं प्राप्य चिन्तितवती’ एतद् कथं स्म्भाव्यते ? एवं भवितुं शक्यते वा ?’ इति किमपि प्रष्टुं सा दूतस्य स्थानं पश्यति । तावता सः अपि ततः प्रस्थितवान् आसीत् । दूतद्वारा एतं समाचारं श्रुत्वा महाराजस्य विद्युत्स्पर्शः जातः इव अभवत् । शिरसि अशनिपातः जातः इव अभवत् । अतीव व्याकुलतया सः –“हन्त, अहं महापापी अभवम् किल ! अत्यन्तं नीचः अभवम् । कुतूहलवशात् स्रीब्रह्महत्यायाः दोषं प्रप्तवान् किल !” इति रोदिति । अनुक्षणं दूतम् आज्ञापयति "भवान् शीघ्रं राजधानीं गच्छतु । तत्र तस्याः परमपूज्यायाः सतीमणेः पवित्रं शरीरं जागरूकतया रक्षितुं व्यवस्था करणीया इति वदतु !” इति ।

राज्ञः बलिदानम्[सम्पादयतु]

दूतः प्रस्थितवान् । अनन्तरं राजगुरुम् आहूय "मम आगमने विलम्बः भवति । अतः भवान् प्रस्थानं करोतु” इत्युक्त्वा तं राजधानीं प्रति प्रेषयित्वा राजा गौतमीनद्याः तटं प्राप्तवान् । तत्र सः स्नानादिकर्माणि समाप्य पितृतर्पणं दत्त्वा, ब्राह्मणेभ्यः वस्त्र- गो –स्वर्णदानं च कृत्वा तेभ्यः भोजनं दत्त्वा दीनदरिद्रेभ्यः अपि भोजनं दत्तवान् । ततः प्रस्थाय गङ्गातटं प्रति गत्वा तत्रापि स्नान- दानादिकं समाप्य बृहत् चितां निर्मितवान् । तत्र अग्निं प्रज्वाल्य प्रार्थनां कर्तुम् आरब्धवान् "हे भगवन् ! एतावत्पर्यन्तं यदि अहं दानधर्मान्, होमहवनानि, प्रजापालनं च निष्कामभावनया कृतवान् अस्मि, तर्हि अग्निदेवः मम अवशिष्टं वयः मम पुरोहितस्य पत्न्यै रम्यकायै दत्त्वा तां जीवन्तीं करोतु !” इति । तथा प्रार्थयन् अग्निप्रवेशं कृतवान् । तस्य शरीरम् अग्नौ दग्धम् अभवत् । तस्मिन् एव समये राजगृहे रम्यकायाः शवे पुनः चैतन्यम् आगच्छति । जीवं प्राप्य सा उत्थाय उपविष्टवती । मधुच्छन्दः महाराजस्य शर्यातेः व्यवहारान् न जानाति स्म इत्यनेन सः उत्साहेन राजधानीं प्रति प्रस्थितवान् । मार्गे सः राजधानीतः गङ्गातटतः च आगतान् दूतान् दृष्टवान् । पत्नी मृत्योः अनन्तरं पुनर्जीवनं प्राप्तवती इति श्रुत्वा बहु आनन्दितः अभवत् । किन्तु महाराजः प्राणत्यागं कृत्वा रम्यकायै जीवदानं कृतवान् इति श्रुत्वा तस्य दुःखम् अभवत् । इदानीं सः स्वस्य कर्तव्यस्य चिन्तनं कृतवान् । 'इदानीम् अहं किं करोमि ? मदर्थं पत्नी प्राणत्यागं कृतवती । अतः तां प्रथमं पश्यामि उत मम जीवनार्थं चिताप्रवेशं कृतवान् महाराजः इव अहमपि चिताप्रवेशं करोमि ?’इति चिन्तयन् अन्ते महाराजस्य जीवनदानम् एव उचितम् इति निश्चयं कृत्वा सः मधुच्छन्दः भगवतः सूर्यस्य रथं स्थगयित्वा तस्य स्तुतिं कर्तुम् आरब्धवान् "मुक्तेः प्रदातः, अपारतेजसस्विन् , भगवन् आदित्यदेव ! भवते प्रणामाः । हे देव ! भवान् छन्दोमयः, तत्त्वार्थस्वरूपी, सर्वविधरूपरहितः अपि भवान् एव । किन्तु सर्वाणि रूपाणि अपि भवान् एव । भवान् त्रिगूणी, त्रिमूर्तिः सृष्टेः, स्थितेः लयस्य च कारणकर्ता भवान् एव । हे प्रभो ! भवते हृत्पूर्वकम् अनन्तानन्तप्रणामाः” इति । एतया स्तुत्या सन्तुष्टः सूर्यभगवान् तस्मै दर्शनं दत्तवान् । मधुच्छन्दः वरं प्रार्थितवान् । तस्य आशा पूर्णा जाता । महाराजः दिव्यमुकुटकुण्डलैः युक्तः उत्थितवान् । मधुच्छन्दः यत्र भगवतः स्तुतिं कृत्वा तस्य प्रसन्नतां कारितवान् तद् स्थानं 'भावनतीर्थक्षेत्रम्’ इति वदन्ति । अद्यापि प्रसिद्धम् अस्ति । तस्मिन् स्थाने स्नानं कृत्वा दानं कृत्वा नियमानुसारं भगवतः सूर्यस्य आराधनां करोति चेत् समस्तानि पापानि दूरं गच्छन्ति इति विश्वासः अस्ति । एवमेव रम्यकायाः स्तवनेन तस्याः पतिभक्त्या आनन्दितः भगवान् ये तस्याः प्रार्थनां कुर्वन्ति तेषाम् इच्छां पूर्णा भवतु इति अनुगृहीतवान्।


""

"https://sa.wikipedia.org/w/index.php?title=रम्यका&oldid=373961" इत्यस्माद् प्रतिप्राप्तम्