कोल्हापुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कोल्हापूर मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
कोल्हापुरमण्डलम्

Kolhapur District

कोल्हापुर जिल्हा
मण्डलम्
'महाराष्ट्रराज्ये कोल्हापुरमण्डलम्
'महाराष्ट्रराज्ये कोल्हापुरमण्डलम्
देशः  India
जिल्हा कोल्हापुरमण्डलम्
उपमण्डलानि आजरा, करवीर, कागल, गगनबावडा, गडहिङ्ग्लज, चन्दगड, पन्हाळा, भुदरगड, राधानगरी, शाहूवाडी, शिरोळ, हातकणङ्गले।
विस्तारः ७,६८५ च.कि.मी.
जनसङ्ख्या(२०११) ३८,७६,००१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://kolhapur.gov.in


कोल्हापुरमण्डलं (मराठी: कोल्हापुर जिल्हा, आङ्ग्ल: Kolhapur District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोल्हापुर इत्येतन्नगरम् । कोल्हापुरनगरस्य रचना छत्रपतिना शाहु-महाराजेन कृता । नैसर्गिकस्रोतोभिः एषा भूमिः प्रफुल्लिता । इदानीं सहकारिक्षेत्रप्रगतिवशात् अपि कोल्हपुरमण्डलं सुप्रसिद्धम् । सांस्कृतिकपरम्परायाः द्योतकम् अस्ति कोल्हापुरमण्डलम् ।

भौगोलिकम्[सम्पादयतु]

कोल्हापुरमण्डलस्य विस्तारः ७,६८५ च.कि.मी. अस्ति । अस्य मण्डलस्य पश्चिमदिशि सिन्धुदुर्गमण्डलं, वायव्यदिशि रत्नगिरिमण्डलम्, उत्तरदिशि साङ्गलीमण्डलं, दक्षिणदिशि बेळगावमण्डलं च अस्ति । अस्मिन् मण्डले सप्त प्रमुखनद्यः प्रवहन्ति । ताः पञ्चगङ्गा, वारणा, दूधगङ्गा, वेदगङ्गा, भोगावती, हिरण्यकेशी, घटप्रभा । कोल्हापुरमण्डलस्य त्रयः विभागाः सन्ति - पश्चिमराङ्ग, मध्यराङ्ग, पूर्वराङ्ग । मध्य-पूर्वविभागयोः कृष्णवर्णीयसिकता दृश्यते । पश्चिमभागे ताम्रवर्णीयसिकता अस्ति । तत्र अरण्यपरिसरः दृश्यते ।
अस्मिन्मण्डले सामान्यतः समशीतोष्णवातावरणं दृश्यते । सह्याद्रीपर्वतसमीपे यः भूभागः सः शीतः । मण्डले वातावरणविविधता दृश्यते एव ।

कृषिः[सम्पादयतु]

सहकारिकृष्योत्पादनाय इदं मण्डलम् अग्रगण्यम् । मण्डलेस्मिन् प्रमुखोपजीविकारूपेण कृषिः, उद्यमाः च सन्ति । तण्डुलः, 'जवार', 'बाजरा', रागिका, 'तुअर दाल', चणकं, कलायः, करटः(safflower), तिलः च अस्य मण्डलस्य सस्योत्पादनानि सन्ति ।

जनसङ्ख्या[सम्पादयतु]

कोल्हापुरमण्डलस्य जनसङ्ख्या (२०११) ३८,७६,००१ अस्ति । अत्र १९,८०,६५८ पुरुषाः, १८,९५,३४३ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ५०४ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ५०४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५७ अस्ति । अत्र साक्षरता ८१.५१% अस्ति ।

इतिहासः[सम्पादयतु]

राजर्षि शाहू
'शालिनी राजप्रासादः'

कोल्हापुरमण्डलस्य विस्तारः ब्रह्मपुरी इत्यस्मात् मूलग्रामात् अभवत् । कोल्हापुरमण्डले आन्ध्रभृत्य-कदम्ब-चालुक्य-राष्ट्रकूट-शिलाहार-देवगिरियादव-बहामनी-वंशीयराजानाम् आधिपत्यमासीत् । १६७५ तमे वर्षे कोल्हापुरपरिसरः शिवाजीमहाराजेन मराठीसाम्राज्ये आनीतः । ततः कोल्हापुरसंस्थानस्य आधिपत्यस्य इतिहासः प्रारभ्यते । शिवाजीमहाराज्ञः पुत्रेण सम्भाजीराज्ञा कोल्हापुरमण्डलस्थात् पन्हाळा-दुर्गात् राज्यव्यवस्थापनं कृतम् । क्रमशः शिवाजीमहाराजस्य द्वितीयपुत्रः राजारामः, तस्य पत्नी ताराबाई, सम्भाजीराज्ञः पुत्रः राजर्षि-शाहू इत्येषाम् अत्र आधिपत्यमासीत् । राजर्षि-शाहू ‘कोल्हापुरसंस्थानस्य कर्ता’ इति सुप्रसिद्धः । १८१८ पर्यन्तं महाराष्ट्रे आङ्ग्लाधिपत्यमासीत् परं कोल्हापुरसंस्थानं तु स्वतन्त्रम् आसीत् । १९४७ तमे वर्षे कोल्हापुरसंस्थानं स्वतन्त्रभारते विलीनं जातम् ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-
१ आजरा
२ करवीर
३ कागल
४ गगनबावडा
५ गडहिङ्ग्लज
६ चन्दगड
७ पन्हाळा
८ भुदरगड
९ राधानगरी
१० शाहूवाडी
११ शिरोळ
१२ हातकणङ्गले

लोकजीवनम्[सम्पादयतु]

महाराष्ट्रराज्ये या लोकसंस्कृतिः दृश्यते सा अत्रापि दृश्यते, परं केचन विशेषाः अपि सन्ति । यथा -
• खाद्यवस्तूनि – ‘भाकरी-झुणका’ अत्रस्थानां प्रियखाद्यम् । झुणका इत्युक्ते मरीचिका-लशुनेन सह कृतं कटु-उपसेचनम् । ‘कोल्हापुरी मिसळ’ इत्येषः खाद्यपदार्थः न केवलं कोल्हापुरे अपि तु समग्रे महाराष्ट्रे सुप्रसिद्धः ।
• वेशभूषा – औद्योगिकीकरण-जागतिकीकरणपरिणामैः सर्वत्र इदानीं समानमेव वेषभूषा दृश्यते परं केचन विशेषाः - वृद्धपुरुषाः वेष्टिं, वृद्धमहिलाः नवगजशाटिकां च धरन्ति । इदानीं केवलम् उत्सवदिनेषु सर्वाः महिलाः नवगजशाटिकां धरन्ति ।
• मल्लविद्या अत्रस्थानां जनानां प्रियक्रीडा । तदर्थम् अत्र एकं 'खासबाग' नामकं विशालमल्लक्रीडाप्राङ्गणमपि अस्ति । अत्रस्थाः केचन राजानः अपि मल्लाः आसन्, अतः जनानामपि लोकप्रियविषयः एषः ।
• अत्र ‘कोल्हापुरी चप्पल’ इति पादरक्षाप्रकारः उपलभ्यते यः समग्रे भारते प्रसिद्धः । कर्मकराः चर्मोपयोगं कृत्वा हस्तैः एव पादरक्षाणां निर्माणं कुर्वन्ति इति विशेषः ।
• 'कोल्हापुरी साज’ आभूषणविशेषः अपि महाराष्ट्रियजनेषु सुप्रसिद्धः । भगवतः श्रीकृष्णस्य १२ अवताराः आभूषणस्योपरि तक्षीकृताः सन्ति । कर्मकराः हस्तैः आभूषणनिर्माणं-तक्षणं च कुर्वन्ति इति विशेषः ।

'कोल्हापुरी साज'

सहकारिक्षेत्रम्[सम्पादयतु]

इदं मण्डलं सहकारिक्षेत्रकार्यार्थं सुप्रसिद्धम् । अस्मिन् सहकारिक्षेत्रे केचन उद्यमाः सन्ति । यथा -
१ शर्करोत्पादनोद्यमः
२ दुग्धोत्पादकसङ्घः
३ सहकारिविपणिः
४ सहकारिवस्त्रोद्यमः
५ सहकारिकृषिः
सहकारिक्षेत्र-स्थापनार्थं यत्नाः स्वातन्त्र्यपूर्वकालात् आरब्धाः परं तेषां परिणामः स्वातन्त्र्योत्तरकाले अभवन् । कृषिक्षेत्रे सहकारिक्षेत्रस्य अधिकोपयोगाः दृश्यन्ते । भारतदेशे कृषिक्षेत्रे खण्डितभूक्षेत्रम् इति एका अन्यतमा समस्या । कोल्हापुरमण्डलस्य सहकारिक्षेत्रम् इत्ययम् उपायः अस्याः समस्यायाः एकं समाधानम् ।
मण्डलेऽस्मिन् ९६२४ सहकारिसमितयः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति -

मन्दिराणि[सम्पादयतु]

  • महालक्ष्मीमन्दिरम्- १७२२ तमे वर्षे महालक्ष्मीमातुः प्रतिमायाः स्थापना जाता । महालक्ष्मीः शाहूमहाराजस्य पूज्यदेवता आसीत् । जनाः मातुः दर्शनार्थम् आगच्छन्ति । मन्दिरसमित्या समाजोन्नत्यर्थं बहूनि कार्याणि अत्र चाल्यन्ते । अतः जनानां मनसि एतन्मन्दिरं श्रद्धास्थानम् ।
  • ज्योतिबा देवालयः
  • नरसिंह वाडी

ऐतिहासिकवीक्षणीयस्थलानि[सम्पादयतु]

तीन दरवाजा-पन्हाळादुर्गः
  • पन्हाळा दुर्गः - 'पर्णल दुर्गः' इति अस्य दुर्गस्य अपरनाम । ‘बाजी प्रभु देशपाण्डे’ इत्यस्य पराक्रमस्य प्रसङ्गः अत्रैव घटितः । राजप्रासादः, सज्जाकोठी, राजदिण्डीमार्गः, अम्बरखाना, चारदरवाजानामकं प्रमुखप्रवेशद्वारं, सोमाळेतडागः, सम्भाजीमन्दिरम्, अन्दरबाव, लक्ष्मीमन्दिरं, तीन

दरवाजा इत्येतानि वीक्षणीयस्थानानि पन्हाळादुर्गे सन्ति ।

  • छत्रपतिशहाजी वस्तुसङ्ग्रहालयः
  • शालिनी राजप्रासादः
  • विशाळगड दुर्गः

इतरवीक्षणीयस्थलानि[सम्पादयतु]

  • रङ्काळातडागः
रंकाळातडागः
  • भवानी मण्डपः
  • न्यू पैलेस (राजप्रासादः)
  • गगनबावडा हरितवनं, जलपातश्च
  • पञ्चगङ्गा घाट
  • दाजीपुर अभयारण्यम्
  • कण्हेरी मठ

बाह्यसम्पर्कतन्तु:[सम्पादयतु]

  1. महाराष्ट्रमण्डलस्य सङ्केतस्थलम् Archived २०१३-१०-०६ at the Wayback Machine
  2. कोल्हापुरमण्डलस्य वाचिकपत्रम्
  3. कोल्हापुरमण्डलस्य सङ्केतस्थलम्
"https://sa.wikipedia.org/w/index.php?title=कोल्हापुरमण्डलम्&oldid=481514" इत्यस्माद् प्रतिप्राप्तम्