पुट्टराज गवायी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
पुट्टराज गवायी
जन्मनाम पुट्टय्य
ख्यातनाम पण्डितः पुट्टराजगवायी, उभयगानवादनाचार्यः, गानयोगी, कविशिरोमणिः, त्रिभाषारत्नः, पुट्टय्यज्ज, सञ्चलनदेवः
मूलतः गदगमण्डलम्, कर्णाटकराज्यम्, भारतम्
सङ्गीतविद्या हिन्दुस्तानीसङ्गीतम्, कर्णाटाकसङ्गीतम्,
वृत्तिः हिन्दुस्तानीसङ्गीतकारः
सक्रियवर्षाणि क्रि.श. ९३३ तः २००८


पुट्टराज गवायी क्रि.श. १९१४तमे वर्षे मार्च मासस्य तृतीये दिने हावेरीमण्डलस्य हानगल् जनपदस्य होसपेटे समीपस्थे वेङ्कटापुरे अजायत । माता सिद्धम्मा पिता रेवण्णय्य । पुत्रोदयस्य षण्मासाभ्यन्तरे शिशोः नेत्रवेदना आरब्धा । ग्रामस्य कस्याश्चित् वृद्धायाः सूचनानुगुणं माता सिद्धम्मा अर्कसस्यनिर्यासं योजितवाती । परिणामवशात् सम्पूर्णः दृष्टिनाशः अभवत् । बालकः अन्धः अभवत् ।

बाल्यं शिक्षा च[सम्पादयतु]

पुट्टराज गवायी हावेरीमण्डले जातः केवलम् । अस्य बाल्यं यौवनं वार्धक्यं च अस्य कर्मभूमौ गदगस्य वीरेश्वरपुण्याश्रमे एव यापितम् । यदा एषः द्विवर्षः आसीत् तदा एव मातापितरौ दिवङ्गतौ । अनाथं पुट्टय्यं मातुलः चन्द्रशेखरय्यः संवर्धितवान् । अष्टवर्षाणि स्वस्य सङ्गीतज्ञानम् बालकस्य पुट्टय्याय दत्तवान् । पश्चात् तं नवलगुन्दस्य गविमठम् आनीय तत्रागतस्य पञ्चाक्षरी गवायीइति सङ्गीतज्ञस्य आश्रये मुक्तवान् । अन्धगुरो अन्धशिष्यः च प्रपञ्चमेव प्रकाशयन्ति इति न केनापि ऊहितं तेषु दिनेषु । मठं परितः विद्यमानैः पण्डितैः पुट्टय्यः सङ्गीतम्, सङ्गीतवाद्यवादनम्, संस्कृतकन्नडयोः व्याकरणम् च अधीतवान् । सहपाठिनां बोधनयोग्यं ज्ञानं प्राप्तवान् । कर्णाटकसङ्गीते, हिन्दुस्तानीसङ्गीते च परिणतिं प्राप्तवान् । अपि च तबला, हार्मोनियम्, बाहुलीना, सारङ्गी, शहनायी, इत्यादीनि सङ्गीतवाद्यानि वादनेऽपि कुशलः अभवत् ।

पीठाधिपतिः[सम्पादयतु]

अष्टवर्षीयः बालः सङ्गीताध्ययनार्थं छात्रत्वेन आगतः पुट्टय्यः पुट्टराज गवायी भूत्वा पञ्चाक्षरी गवायीवर्यस्य आशीर्वादेन निष्ठया विश्वासेन च कार्यं कुर्वाणः वीरेश्वरपुण्याश्रमस्य पीठाधिपतेः पदम् अधिरूढवान् । क्रि.श. १९४४तमे वर्षे आश्रमस्य अभिवृद्धौ अनाथान्धानां प्रमतौ एव शिवार्चनं दृष्टवान् । स्वधर्मे निधनं श्रेयः इत्युक्तिं कार्यपथे आनीतवान् ।

=दिनचरी[सम्पादयतु]

प्रातः चतुर्वादने उत्थाय योगाभ्यासं कृत्वा कूपस्य शीतजलेन स्नात्वा शुद्धवसनं धृत्वा पूजागृहं प्रविष्टः पुट्टराजः बाह्यप्रपञ्चमेव विस्मरति स्म । पूजानिष्टः भूत्वा त्रिसन्ध्याम् उपसते स्म । इष्टलिङ्गस्य पूजायाः विषये अपि पुट्टराजः प्रसिद्धः आसीत् । बालानां पाठः, ज्येष्ठानां पुराणकथाः, पौराणिकनाटकानां मार्गदर्शनम्, आश्रमागतभक्तानाम् कुशलोपरि चिन्तनम्, आश्रमस्य बालानाम् अशनवसनादियोगक्षेमचिन्तनम् इत्यादिभिः पुट्टराजगवायी कार्यव्यापृतः भवति स्म । विभूतिः, कुङ्कुमम्, बिल्वपत्रम्, चन्दनं, रजतपात्रम्, कर्पूरः, रुद्राक्षिमाला,मुकुटम्, गन्धवर्तिका, पञ्चामृतम्, गण्टायुग्मम्, च सुक्रमेण योजितानि आसन् । पद्मासने उपविष्टगुरोः मन्त्रपठणम्, गण्ठाद्वयस्य वादनम् इत्यादीनां दर्शनम् एव भक्तानां सौभाग्यम् आसीत् । प्रतिदिनं ४-५होराः रुद्राभिषेकं, जपानुष्ठानं कृत्वा पुट्टराज गवायी प्रसादं स्वीकृत्य बहिरागच्छति स्म । प्रातः चतुर्वादने शयनादुत्थाय सङ्गीताभ्यासं करोति स्म । प्रातः सायं च ४होराकालं बालानां सङ्गीतपाठं बोधयति स्म ।

क्षेत्रे योगदानम्[सम्पादयतु]

शताधिकाः अन्धाः विकलाङ्गबालाः पुट्टराजस्य गुरुत्वेन सङ्गीताभ्यासं कुर्वन्ति स्म । अन्धत्वस्य दौर्बल्यं जित्वा जीवने किमपि साधयितुं छात्रेषु आत्मविश्वासं वर्धयति स्म । सङ्गीतं, प्रवचनं, पुराणकथाः च जीवनोपायाः भवितुमर्हन्ति इति पाठयति स्म । अगाधम् अध्ययनं कृत्वा यशः प्राप्तवन्तः अस्य शिष्याः श्रेष्ठाः गायकाः सञ्जाताः । वैयक्तिककीर्तेः अथवा धनस्य लोभः पुट्टराजस्य नासीत् । अर्जितं धनम् अर्चितां विद्यां च लक्षाधिकविकलाङ्गेभ्यः वितरति स्म । एतावत् एव करोति चेत् श्रेष्ठः गुरुः इति भवति स्म । किन्तु लिङ्गपूजां कुर्वाणः विशेषाम् आध्यत्मिकां शक्तिं प्राप्तवान् । लिङ्गवताम् एकतां साधयितुं लिङ्गदीक्षायः महात्म्यं दर्शितवान् । लिङ्गपूजां कुर्वन् कठोरव्रतनियमान् पालयन् स्वयं देवः इति भक्तैः समोध्यमानः आसीत् ।

मठस्य निर्वहणम्[सम्पादयतु]

आश्रमस्य निर्वहणव्ययार्थं धनसङ्ग्रहं कर्तुं ग्रामात् ग्रामं सञ्चरति स्म । अतः निरन्तरं प्रवासः पुट्टराजस्य कर्तव्यम् अभवत् । ९२वर्षस्य पुट्टय्यः व्याधिनापीडितः अपि एतत् कार्यं न त्यक्तवान् एव । गुरुणा पञ्चाक्षरी गवायीवर्येना दत्तमार्गसूच्यानुसारं पुट्टराजः चलति स्म । अतः चलन् भगवान् इत्येव प्रथितः अभवत् ।

व्यक्तित्वम्[सम्पादयतु]

स्वर्णाभरणानि, आभूषाः सुग्रासभोजनम् इत्यादिषु पुट्टराजः कदापि व्यामोहं न प्रदर्शितवान् । भक्तानां सन्तोषे एव आत्मसन्तोषं पश्यति स्म । सर्वसङ्गपरित्यागी योगी आभरणानि अनिच्छन् केवलं रुद्राक्षिमालां धृत्वा भक्तानां सन्तोषं दृष्ट्वा आप्ययते स्म । व्यक्तेः व्यक्तित्वं ज्ञातुं हृदयवैशाल्यम् आवश्यकम् । बाह्यलक्षणं दृष्ट्वा व्यक्तेः मापनं न शक्यते इति पुट्टराजं दृष्ट्वा वक्तुं शक्यते स्म ।

यशः[सम्पादयतु]

सङ्गीते साहित्ये अध्यात्मविषये अस्य श्रद्धा असदृशा अस्ति । कस्यचिदेकस्य जीवने कस्मिंश्चित् एकस्मिन् क्षेत्रे साधयितुं शक्यम् इति तर्कम् असत्यं कृत्वा विविधेषु क्षेत्रेषु यशः प्राप्तवान् । सङ्गीतस्य विविधवाद्यानि युगपत् वादयन् सर्वान् चकितान् करोति स्म । नवरसानां समवायेन प्रवचनसुधाः प्रवाहयति स्म । प्रवचनस्य मध्ये अनुरूपं सङ्गीतवाद्यानि उपयोजयन्ति स्म । उभयगानकुशलः सङ्गीतक्षेत्रस्य अतिरथः इति विश्रुतः । गुरोः पञ्चाक्षरी गवायीवर्यस्य इहलोकत्यागस्य पश्चात् "श्री वीरशैव पुण्याश्रमम् " सम्यक् सञ्चालयितुं सङ्गीतं, पुराणप्रवचनम्, कृतिरचनं चाश्रित्य २५नाटकानि कन्नडभाषया रचितवान् । तेषु प्रमुखाः एवं सन्ति । क्रि.श. १९६९तमे वर्षे नवम्बरमासस्य दशमे दिने पञ्चाक्षरवाणी इति मासपत्रिकाम् आरब्धवान् ।

  • सोल्लापुरस्य सिद्धरमेशः
  • सती सुकन्या
  • राजशेखरविलासः
  • श्रीकृष्णगारुडिगः
  • नवयुगदेडेगे
  • रत्नहारः
  • घूष्मा
  • सवतिमत्सरः
  • नल्लूऋ नम्बेक्क
  • अस्पृश्योद्धारः
  • देवरदुड्डु

कन्नडाभाषापुराणानि[सम्पादयतु]

  • कलबुर्गी शरणबसवेश्वर पुराणम् ।
  • शिवलिङ्गेश्वरपुराणम् ।
  • अङ्कलगि अडवि सिद्धेश्वरपुराणम् ।
  • चेन्नबसवस्वामिपुराणम् ।
  • हावेरि शिवबसवस्वामिपुराणम् ।
  • अक्कमहादेवीपुराणम् ।
  • गञ्जीगट्टि चरमूर्तेश्वरपुराणम् ।
  • योगिराजपुराणाम् ।
  • त्रिषष्ठिपुरातनपुराणाम् ।
  • गुळेद गादिलिङ्गेश्वरपुराणम् ।
  • गुरुसिद्धेश्वर पुराणम् ।
  • वीरभद्रेश्वरपुराणम् ।
  • मण्डरगि अन्नदानेश्वरपुराणम् ।
  • हेमरेड्डि मल्लम्मपुराणाम् ।
  • गुड्डापूर दानम्मदेवि पुराणम् ।
  • चिकेन कोप्पद चेन्नवीर शरणर पुराणम् ।
  • नाल्वतदावाड वीरेश्वरपुराणाम् ।

हिन्दीभाषाकृतयः[सम्पादयतु]

  • बसवेश्वर पुराण ।
  • सिद्धलिङ्गविजय पुराण ।
  • सिद्धान्त शिकामणि ।
  • कुमार महा शिवयोगी ।
  • गुरु पञ्चाक्षर शिवयोगि चरित्रम् ।

संस्कृतभाषारचनानि[सम्पादयतु]

सङ्गीतकृतयः[सम्पादयतु]

  • सङ्गीतशास्त्रज्ञानम् ।
  • गानसुधा भागः १, २ ।
  • तालपञ्चाक्षरी ।

प्रमुखनाटाकानि[सम्पादयतु]

  • नेल्लूरु नेम्बक्क ।
  • सिवशरण् अचेन्नय्य ।
  • श्री भगवान् बसवेश्वरः ।
  • श्रीगुरुदर्शनम् ।
  • हानगल्ल कुमारेश्वर महात्मे ।
  • शिवयोगि सिद्धरामेश्वरः
  • सिवशरण मोळगि मारय्य ।
  • शिरहट्टि श्री फकीरेश्वर महात्मे ।
  • शिवशारणे उडुतडि अक्कमाहादेवी ।
  • देवर दुड्डु ।
  • सति सुकन्या ।
  • दानवीर शिरसङ्गी ।
  • लिङ्गराजरु ।
  • मिञ्चु ।
  • सवति मात्सर्य ।
  • श्री राजशेखार विलासः ।
  • महारति भीष्मः ।
  • कोट्टूरु बसवेश्वर ।
  • स्त्रीप्रेम ।
  • मगन प्रेम ।
  • श्रीकृष्ण गारुडि ।
  • अप्रकशितानि नाटकानि ।
  • गूष्मा देवी ।
  • भगवद्गीता (ब्रैल् लिप्या)
  • हिन्दी चीस्

अन्यकृतयः[सम्पादयतु]

  • चम्पूकाव्यम् ।
  • अष्टावरण कथा कीर्तनमालिका ।
  • हानगल श्री कुमारशिवयोगी ।
  • तत्त्वबोधामृतम् ।
  • कदरि रेमय्य ।
  • चित्तरगि श्री विजय महान्तेश्वर नामावळी ।
  • श्री पञ्चाक्षरी गवायी
  • प्रसाद महिमे ।
  • श्री गुरुवचनप्रभा ।
  • भावमन्दाकिनी ।
  • व्याख्यानरत्नमालिका ।
  • गुरुवचप्रभा ।

वाद्यानि[सम्पादयतु]

उभयगानविशारदः, सकलवाद्यकण्ठीरवः, इत्यादिभिः उपाधिभिः भूषितः पुट्टराजः सारङ्गीम्, बाहुलिनाम्, वीणां, मेण्डोलिन्, सरोदम्, तबलाम् , हार्मोनियम्, शततन्त्रिणम्, सितारम्, च स्वरलयबद्धं सुश्राव्यम् अनायासेन च वादयति स्म ।

प्रशस्तिपुरस्कारसम्माननानि[सम्पादयतु]

पुट्टराज गवायीवर्यस्य यशः सेवां च परिगणय्य नैके पुरस्काराः एतम् अलमकुर्वन् ।

  • क्रि.श. १९५९तमे वर्षे सुत्तूरुमठतः साहित्यसङ्गीतकलाप्रवीणः इति प्रशस्तिः ।
  • क्रि.श. १९६५तमे वर्षे बनवासी विरक्तमठतः समाजसेवाधुरीणः इति प्रशस्तिः ।
  • क्रि.श. १९७०तमे वर्षे श्री म.नि.प्र. नीललोचन स्वामिभिः त्रिभाषाकविरत्नम् इति प्रशस्तिः ।
  • क्रि.श. १९७५तमे वर्षे कर्णाटकविश्वविद्यालतः सगौरवं डाक्टरेट् प्रशस्तिः ।
  • क्रि.श. १९७६तमे वर्षे हुब्बळ्ळीनगरस्य मूरुसाविरमठस्य साहित्यसङ्गीतकलाचक्रवर्ती " इति प्रशस्तिः ।
  • क्रि.श. १९८१तमे वर्षे धारवाडस्य मुरुघामठस्य धर्मविभूषणः इति प्रशस्तिः ।
  • क्रि.श. १९८९तमे वर्षे आष्टगी श्री शान्तलिङ्गेश्वरसंस्थानमठस्य कलाजनकः इति प्रशस्तिः ।
  • क्रि.श. १९७०तमे वर्षे कर्णाटकराज्योत्सवप्रशस्तिः
  • क्रि.श. १९७५तमे वर्षे कर्णाटकविश्वविद्यालयस्य सगौरवं डक्टरेट् पदवी ।
  • क्रि.श. १९९८तमे वर्षे कर्णाटकसर्वकास्य कनकपुरन्दरप्रशस्तिः ।
  • क्रि.श. १९९८तमे वर्षे कन्नडविश्वविद्यालयस्य नाडोजप्रशस्तिः ।
  • क्रि.श. १९९९तमे वर्षे नाटकसाहित्याकादमीप्रशस्तिः ।
  • क्रि.श. २००२तमे वर्षे बसवश्रीप्रशस्तिः ।
  • क्रि.श. २०००तमे वर्षे भारतसर्वकारस्य सामाजिकन्यायकल्याणविभागस्य प्रशस्तिः ।
  • क्रि.श. १९९३तमे वर्षे दसरासङ्गीतविद्वान् प्रशस्तिः ।
  • क्रि.श. १९९१तमे वर्षे कर्णाटकराज्यस्य शिक्षामन्त्रालयस्य प्रशस्तिः ।
  • क्रि.श. १९६१तमे वर्षे हिन्दीभाषया बसवपुराणं रचितवान् इति राष्ट्रपतिना बाबू राजेन्द्रप्रसादेन पुरस्कारः ।
  • क्रि.श. २००७तमे वर्षे मध्यप्रदेशराज्यस्य कालिदाससम्मानप्रशस्तिः ।
  • क्रि.श. २०१०तमे वर्षे पद्मभूषणप्रशस्तिः

तुलाभारः[सम्पादयतु]

पुट्टराजस्य तुलाभारचक्रवर्ती इत्यपि उपाधिः अस्ति । राज्यस्य अन्यराज्यानां च बहुषु ग्रामेषु सर्ववर्गस्य भक्तजनाः २२८० सङ्ख्याधिकाः तुलभारसेवाः अभवन् । तद्वारा अगताः सकलसम्पदः अन्धानाथानां विकलाङ्गानां छात्राणां योगक्षेमार्थं विनियुक्तवान् । अस्य तुलाभारविषयः गिन्निस् अभिलेखपुस्तके लिखितः अस्ति ।

शिष्यवृन्दः[सम्पादयतु]

पण्डितः बसवराज राजगुरुः, पण्डितः पञ्चाक्षरी स्वामी मत्तिकट्टि, एम्. वेङ्कटेशकुमारः, बसवराज गोनाळ, डि.कुमारदासः बसवराज राजगुरुः फकीरेश कणवि, शिवराज गवायी, सिद्धराम गवायी कोरवार्, श्री बि.एस्. मठ, श्रीमती बि.एस्. मठ, इत्यादयः अस्य पुण्याश्रमे पुण्याश्रयेण अधिगतवन्तः च ख्याताः सङ्गीतशिष्याः । अस्मिन् पुण्याश्रमं अन्धबालानां सङ्गीतस्वरेण गुञ्जमानं दृष्ट्वा आश्चर्यचकितः कन्नडभाषायाः ख्यातः अभिनेता डा. राजकुमारः अत्र मासत्रयं स्थित्वा पूज्येन पुट्टराजेन सङ्गीताभ्यासम् अकरोत् । अस्य अभिमानेन अस्य नाम्नि लोकार्पिते अस्य जीवनचरित्रस्य चलच्चित्रे 'गानयोगि गुरुवे ' इति गीतं राजकुमारः गीतवन् । [१]

लिङ्गैक्यम्[सम्पादयतु]

स्वस्य ९८तमे वयसि अनारोग्येन बाधितः पुट्टराजः बेळगावीनगरस्य के.एल्.ई.चिकित्सालये प्रवेशितः । कृतश्वासोच्छासस्थितौ एव कानिचन दिनानि गतानि । सर्वविधचिकित्सा अपि निश्फलम् अभवत् । वैद्यगणः एव अस्य प्राणरक्षणार्थं बहुविधप्रयत्नम् अकरोत् । किन्तु क्रि.श २०१०तमे वर्शे सप्टम्बर् मासस्य १७दिनाङ्के मध्याह्ने पुट्टराज गवायी इहलोकम् अत्यजत् । वेङ्कटेशकुमारः, नरसिंहवडवाटी इत्यादयः अन्ताराष्ट्रियस्तरे प्रख्याताः अस्य शिष्याः अहोरात्रं सङ्गीतगोष्ठीः कृत्वा श्रद्धाञ्जलिं समर्पयन् ।

अन्तिमनमनम्[सम्पादयतु]

अन्त्यसंस्कारे जनस्तोमः

पुट्टराजस्य भविष्यवाणी[सम्पादयतु]

पुट्टराजगवायीवर्यस्य मुखात् निसृतानि वचनं 'दिव्यवाणी ' इत्येव भक्तानां विश्वासः आसीत् । मितभाषिणः अस्य वचनानि भक्तानां मार्गदर्शकम् आसीत् । तस्य मुखात् आगता वाणी श्रोतॄन् मन्त्रमुग्धान् करोति स्म । कदाचित् अस्य वाक् कठोरा तिक्तसत्या च भवति स्म । अस्य भविष्यवाणी निखरतया सम्भवति स्म ।

कांश्यपुत्थली[सम्पादयतु]

क्रि.श. २०१०तमे वर्षे गुजरातराज्यस्य अहमदाबाद् नगरे जासु इति महिलया निर्मिता पुट्टराजस्य कांस्यपुत्तलिका वीरेश्वरपुण्याश्रमम् आप्नोत् । १५पादपरिमितौन्नत्यम्, १.५टन् भारस्य एषा मूर्तिः अद्यापि मठे शोभते । अस्य मरणस्य २०दिनेषु एव एतादृशीमूर्तिः निर्मिता इति अस्याः महिलायाः कौशलं ज्ञायते ।

लीलावान्[सम्पादयतु]

पुट्टराजः जीवितकाले अनेकाः लीलाः प्रदर्शितवान्। तस्य शिष्यवृन्दः इदानीमपि ताः स्मरन्ति । तस्य कांस्यप्रतिमास्थाने सविस्मयघटनाः दृष्ट्वा गवयी अमरः इति वदन्तः सन्ति । अन्यग्रामस्य भक्तजनाः एतम् आमन्त्रयन्ति चेत् बिल्वपत्रं शमीपत्रं च अस्ति चेत् आगच्छामि इति वदन्ति स्म । यतः एतैः पत्रैः विना अस्य इष्टलिङ्गपूजा न भवति स्म । कूपजलं विना अन्यजलं न पिबति स्म । अतः शमीबिल्ववृक्षाणां कूपस्य च समीपे एव स्य प्रतिमा प्रतिष्ठापिता अस्ति । पुट्टय्यज्जस्य नाम्नि निर्मीयमाणस्य सङ्गीतशालां धार्मिकभवनं च पुट्टय्यज्जः शुभारम्भं न कृतवान् इति अभावः ग्रामस्थानां मनसि अस्ति ।

मातृग्रामप्रेम[सम्पादयतु]

मातुः ग्रामस्य देवगिरेः सम्पर्कं पुट्टराजः सर्वदा प्राप्तवान् । प्रतिवर्षं तत्र गत्वा सप्ताहं यावत् स्वशिष्यबन्धोः शिवमूर्तय्यस्य गृहे उषित्वा गच्छति स्म । अस्य स्मरणे सङ्गीतवाद्योपकरणानि देवगिरिग्रामे सन्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

गानविरतः गानयोगी पुट्टराजस्य दृश्यावली

पुट्टराजस्य वार्ताः

शाश्वतस्थानम्

गदगस्य चलन् भगवान् पुट्टराजः

Thousands Mourn Music Doyen Puttaraj Gavai's Passing

गानलीनः पुट्टय्यज्जः

गानसामपकः गवायी

सकलवाद्यकण्ठीरवः

गनस्थानम् अनाथाश्रमः

[२]

खृगलः अगोचरः

ಗಾನಯೋಗಿ ಪಂಡಿತ ಪುಟ್ಟರಾಜ ಗವಾಯಿ ಲಿಂಗೈಕ್ಯ

ಪುಟ್ಟರಾಜರ ಗೂಗಲ್ ನ್ಯುಸ್

ಪಂಚಾಕ್ಷರಿ ಗವಾಯಿ ಅಂಧರ ಬಾಳಿನ ಬೆಳಕು

ಪಂ| ಪಂಚಾಕ್ಷರಿ ಗವಾಯಿ ಹೆಸರಿನಲ್ಲಿ  ಪ್ರಶಸ್ತಿ ನೀಡಿ

Kannada News

Kannada Newspaper

Online Kannada News

पुट्टराजदृश्यावली

"https://sa.wikipedia.org/w/index.php?title=पुट्टराज_गवायी&oldid=451517" इत्यस्माद् प्रतिप्राप्तम्