बैतूलमण्डलम्
बैतूलमण्डलम् Betul District | |
---|---|
बैतूल जिला | |
बैतूलमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे बैतुलमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | बैतूल, चिचोली, शाहपुर, घोडा डोङ्गरी, अमला, मुलताई, भैसदेही, अठनेर |
विस्तारः | १०,०४३ च. कि. मी. |
जनसङ्ख्या (२०११) | १५,७५,३६२ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६८.९०% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४८.५% |
Website | http://betul.nic.in/ |
बैतूलमण्डलम् ( ( शृणु) /ˈbɛɪtʊləməndələm/) (हिन्दी: बैतूल जिला, आङ्ग्ल: Betul district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य नर्मदापुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बैतूल इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]बैतूलमण्डलस्य विस्तारः १०,०४३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छिन्दवाडामण्डलं, पश्चिमे हरदामण्डलम्, उत्तरे होशङ्गाबादमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले तापीनदी प्रवहति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं बैतूलमण्डलस्य जनसङ्ख्या १५,७५,३६२ अस्ति । अत्र ७,९९,२३६ पुरुषाः, ७,७६,१२६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५७ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.९२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७१ अस्ति । अत्र साक्षरता ६८.९०% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- बैतूल , चिचोली, शाहपुर, घोडा डोङ्गरी, अमला, मुलताई, भैसदेही, अठनेर ।
वीक्षणीयस्थलानि
[सम्पादयतु]मुलताई-नगरम्
[सम्पादयतु]मुलताई-नगरं तापीनद्याः उद्गमस्थलम् अस्ति । तापीनदी सूर्यस्य पुत्री अस्ति । बहवः जनाः दर्शनार्थं तत्र गच्छन्ति । स्कन्दपुराणे लिखितम् अस्ति यद् तापीनदी सूर्यपुत्री, शनियमयोः भगिनी च अस्ति । अतः ये जनाः शनेः पीडिताः सन्ति ते तत्र गत्वा मुक्तिं प्राप्नुवन्ति । तापीनदी मध्यप्रदेशस्य द्वितीया प्रमुखा नदी अस्ति । तापीनदी अरबसागरे खम्बातगर्ते पतति ।
बालाजीपुर-नगरम्
[सम्पादयतु]बालाजीपुर-नगरे भगवतः बालाजी-देवस्य विशालमन्दिरम् अस्ति । इदं मन्दिरं बैतूल-नगरात् ७ कि. मी. दूरे अस्ति । बहवः श्रद्धालवः तत्र दर्शनार्थं गच्छन्ति । मन्दिरेऽस्मिन् रामजीवनसम्बन्धीनि प्रदर्शनानि सन्ति । तत्र वैष्णोदेव्याः मन्दिरमपि अस्ति । अस्मिन् मन्दिरे एका गुहा अस्ति । कृत्रिमजलप्रपातः अपि मन्दिरेऽस्मिन् अस्ति ।
होशङ्गाबादमण्डलम् | ||||
हरदामण्डलम् | छिन्दवाडामण्डलम् | |||
बैतूलमण्डलम् | ||||
महाराष्ट्रराज्यम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये बैतूलमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://betul.nic.in/
http://www.census2011.co.in/census/district/314-betul.html