सागरमण्डलम्
सागरमण्डलम् Sagar District | |
---|---|
सागर जिला | |
सागरमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे सागरमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | सागर, बीना, खुरल, मलठोन, बान्दा, शाहगढ, राहतगढ, गर्हकोट, रेहली, केसली, देवरी |
विस्तारः | १०,२५२ च. कि. मी. |
जनसङ्ख्या (२०११) | २३,७८,४५८ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७६.४६% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४४.५% |
Website | http://sagar.nic.in/ |
सागरमण्डलम् ( ( शृणु) /ˈsɑːɡərəməndələm/) (हिन्दी: सागर जिला, आङ्ग्ल: Sagar district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सागर इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]सागरमण्डलस्य विस्तारः १०,२५२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे दमोहमण्डलं, पश्चिमे विदिशामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे नरसिंहपुरमण्डलम् अस्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं सागरमण्डलस्य जनसङ्ख्या २३,७८,४५८ अस्ति । अत्र १२,५६,२५७ पुरुषाः, ११,२२,२०१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९३ अस्ति । अत्र साक्षरता ७६.४६% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- सागर, बीना, खुरल, मलठोन, बान्दा, शाहगढ, राहतगढ, गर्हकोट, रेहली, केसली, देवरी ।
कृषिः वाणिज्यं च
[सम्पादयतु]अस्मिन् मण्डले मूलतः तु कोऽपि मुख्योद्योगः नास्ति । किन्तु ग्रामजनाः धूम्रवर्तिकायाः धूपशलाकायाः च निर्माणकार्यं कुर्वन्ति । नगरेषु लघूद्योगाः सन्ति ।
वीक्षणीयस्थलानि
[सम्पादयतु]एरण
[सम्पादयतु]एरण इतीदं स्थलं सागर-नगरात् ७५ कि. मी. दूरे अस्ति । इदं स्थलं बीना-उपमण्डले स्थितमस्ति । एरण इतीदं स्थलं बीनानदीतटे स्थितमस्ति । अत्र बौद्ध-गुप्त-शिलालेखाः, शक-शासकानां चत्वारः शिलालेखाः, हुण-शासकानां शिलालेखाः च सन्ति ।
उत्तरप्रदेशराज्यम् | ||||
विदिशामण्डलम् | दमोहमण्डलम् | |||
सागरमण्डलम् | ||||
नरसिंहपुरमण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये सागरमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://sagar.nic.in/
http://www.census2011.co.in/census/district/294-sagar.html