सिङ्गरौलीमण्डलम्
सिङ्गरौलीमण्डलम् Singrauli District | |
|---|---|
|
सिङ्गरौली जिला | |
|
सिङ्गरौलीमण्डलस्य नयनाभिरामदृश्यम् | |
|
म्ध्यप्रदेश राज्यस्य मानचित्रे सिङ्गरौलीमण्डलम् | |
| देशः |
|
| राज्यम् | मध्यप्रदेशः |
| उपमण्डलानि | बैढन, चित्राङ्गी, देवसर |
| विस्तारः | ५,६७५ च. कि. मी. |
| जनसङ्ख्या (२०११) | ११,७८,२७३ |
| Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
| साक्षरता | ६०.४१% |
| भाषाः | हिन्दी, आङ्ग्लं च |
| लिङ्गानुपातः | पु.-५०%, स्त्री.-४६% |
| Website | http://singrauli.nic.in/ |
सिङ्गरौलीमण्डलम् ( (
शृणु) /ˈsɪnɡərɔːliːməndələm/) (हिन्दी: सिंगरौली जिला, आङ्ग्ल: Singrauli district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बैढन इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]सिङ्गरौलीमण्डलस्य विस्तारः ५,६७५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे सीधीमण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे छत्तीसगढराज्यम् अस्ति । अस्मिन् मण्डले रिहन्दनदी प्रवहति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं सिङ्गरौलीमण्डलस्य जनसङ्ख्या ११,७८,२७३ अस्ति । अत्र ६,१३,६३७ पुरुषाः, ५,६४,६३६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.०५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ६०.४१% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- बैढन, चित्राङ्गी, देवसर ।
कृषिः वाणिज्यं च
[सम्पादयतु]अस्मिन् मण्डले अङ्गाराः अत्यधिकपरिमाणे प्राप्यन्ते । मण्डलेऽस्मिन् बहवः यन्त्रागाराः सन्ति ।
वीक्षणीयस्थलानि
[सम्पादयतु]हनुमान-मन्दिरं, ज्वालामुखी, गायत्री-मन्दिरं, शिव-मन्दिरम् इत्येतानि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
|
उत्तरप्रदेशराज्यम् |
| ||
| सीधीमण्डलम् | उत्तरप्रदेशराज्यम् | |||
| छत्तीसगढराज्यम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]| विकिमीडिया कॉमन्स् मध्ये सिङ्गरौलीमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://singrauli.nic.in/
http://www.census2011.co.in/census/district/330-singrauli.html
