सिङ्गरौलीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सिङ्ग्रौलीमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
सिङ्गरौलीमण्डलम्

Singrauli District
सिङ्गरौली जिला
सिङ्गरौलीमण्डलम्
सिङ्गरौलीमण्डलस्य नयनाभिरामदृश्यम्
म्ध्यप्रदेश राज्यस्य मानचित्रे सिङ्गरौलीमण्डलम्
म्ध्यप्रदेश राज्यस्य मानचित्रे सिङ्गरौलीमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि बैढन, चित्राङ्गी, देवसर
विस्तारः ५,६७५ च. कि. मी.
जनसङ्ख्या (२०११) ११,७८,२७३
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६०.४१%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४६%
Website http://singrauli.nic.in/

सिङ्गरौलीमण्डलम् ( /ˈsɪnɡərɔːlməndələm/) (हिन्दी: सिंगरौली जिला, आङ्ग्ल: Singrauli district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बैढन इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

सिङ्गरौलीमण्डलस्य विस्तारः ५,६७५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे सीधीमण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे छत्तीसगढराज्यम् अस्ति । अस्मिन् मण्डले रिहन्दनदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं सिङ्गरौलीमण्डलस्य जनसङ्ख्या ११,७८,२७३ अस्ति । अत्र ६,१३,६३७ पुरुषाः, ५,६४,६३६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.०५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ६०.४१% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- बैढन, चित्राङ्गी, देवसर ।

कृषिः वाणिज्यं च[सम्पादयतु]

अस्मिन् मण्डले अङ्गाराः अत्यधिकपरिमाणे प्राप्यन्ते । मण्डलेऽस्मिन् बहवः यन्त्रागाराः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

हनुमान-मन्दिरं, ज्वालामुखी, गायत्री-मन्दिरं, शिव-मन्दिरम् इत्येतानि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://singrauli.nic.in/
http://www.census2011.co.in/census/district/330-singrauli.html

"https://sa.wikipedia.org/w/index.php?title=सिङ्गरौलीमण्डलम्&oldid=402271" इत्यस्माद् प्रतिप्राप्तम्