सीहोरमण्डलम्
सीहोरमण्डलम् Sehore District | |
---|---|
सीहोर जिला | |
सीहोरमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे सीहोरमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | सीहोर, श्यामपुर, जावर, आसता, इच्छावर, नसरुल्लागञ्ज, रेहती, बडनी |
विस्तारः | ६,५७८ च. कि. मी. |
जनसङ्ख्या (२०११) | १३,११,३३२ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७०.०६% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४५.५% |
Website | http://www.sehore.nic.in/ |
सीहोरमण्डलम् ( ( शृणु) /ˈsiːhoʊrəməndələm/) (हिन्दी: सीहोर जिला, आङ्ग्ल: Sehore district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सीहोर इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]सीहोरमण्डलस्य विस्तारः ६,५७८ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे रायसेनमण्डलं, पश्चिमे देवासमण्डलम्, उत्तरे शाजापुरमण्डलं, दक्षिणे हरदामण्डलम् अस्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं सीहोरमण्डलस्य जनसङ्ख्या १३,११,३३२ अस्ति । अत्र ६,८३,७४३ पुरुषाः, ६,२७,५८९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९९ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.५४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१८ अस्ति । अत्र साक्षरता ७०.०६% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- सीहोर, श्यामपुर, जावर, आसता, इच्छावर, नसरुल्लागञ्ज, रेहती, बडनी ।
वीक्षणीयस्थलानि
[सम्पादयतु]गणेश-मन्दिरं गोपालपुर-ग्रामे स्थितमस्ति । प्रत्येकस्मिन् बुधवासरे बहवः भक्ताः दर्शनार्थं तत्र गच्छन्ति । तत्र गणेशचतुर्थीमहोत्सवः प्रसिद्धः अस्ति ।
कुंवर चैनसिंह समाधि
[सम्पादयतु]कुंवर चैनसिंह समाधि ’दशहरावाला मैदान’ तः २ कि. मी. दूरे अस्ति । ’दशहरावाला मैदान’ इति इदं स्थलं लोटियानदीतटे स्थितमस्ति ।
शाजापुरमण्डलम् | ||||
देवासमण्डलम् | रायसेनमण्डलम् | |||
सीहोरमण्डलम् | ||||
हरदामण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये सीहोरमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://www.sehore.nic.in/ Archived २०१४-०६-२२ at the Wayback Machine
http://www.census2011.co.in/census/district/312-sehore.html