नर्मदानदी
नर्मदा | |
River | |
जबलपुरस्य झान्सीघाट्
| |
Country | भारतम् |
---|---|
Tributaries | |
- left | Burhner, Banjar, Sher, Shakkar, Dudhi, Tawa, Ganjal, Chhota Tawa, Kundi, Goi, Karjan |
- right | Hiran, Tendoni, Barna, Kolar, Man, Uri, Hatni, Orsang |
Source | नर्मदाकुण्डः |
- elevation | फलकम्:Unit height |
- coordinates | २२°४०′०″ उत्तरदिक् ८१°४५′०″ पूर्वदिक् / 22.66667°उत्तरदिक् 81.75000°पूर्वदिक् |
Mouth | Gulf of Khambhat (Arabian Sea) |
- elevation | फलकम्:Unit height |
- coordinates | २१°३९′३.७७″ उत्तरदिक् ७२°४८′४२.८″ पूर्वदिक् / 21.6510472°उत्तरदिक् 72.811889°पूर्वदिक् |
Length | १,३१२ km (८१५ mi) approx. |
नर्मदानदी ( ( शृणु) /ˈnərmədɑːnədi/) (हिन्दी: नर्मदा, आङ्ग्ल: Narmada river) भारतस्य सप्तमहानदीषु अन्यतमा वर्तते । नर्मदा भारतस्य काचित् पवित्रा नदी। इयं नदी मध्यप्रदेशराज्यस्य प्रमुखतमा नदी विद्यते । नर्मदायाः अपरं नाम शिवपुत्री इति । मध्यप्रदेशराज्यस्य अनूपपुरमण्डलस्य अमरकण्टक-नगरम् अस्याः नद्याः उद्गमस्थानं वर्तते । नर्मदानदी विन्ध्याचलपर्वतशृङ्खला-सतपुडापर्वतशृङ्खलयोः विभाजनं करोति । शङ्कराचार्यः अपि नर्मदायाः तीरे एव तस्य गुरुं गोविन्दभगवत्पादम् अमिलत् । द्वादशज्योतिर्लिङ्गेषु अन्यतमम् ओङ्कारेश्वरज्योतिर्लिङ्गं नर्मदायाः तीरे अस्ति ।
पुराणानुसारं नर्मदायाः उत्पत्तिः महत्वं च
[सम्पादयतु]पुराणेषु नर्मदायाः कथा अनेकैः प्रकारैः वर्णिता अस्ति । भगवान् शिवः ऋक्षपर्वते ध्यानावस्थायाम् उपविष्टः आसीत् । शिवस्य कण्ठात् नर्मदायाः उत्पत्तिर्जाता । केषाञ्चित् विदुषां मते अमरकण्टक-नगरस्य प्राचीनं नाम अमरकण्ठः आसीत् । इदं नाम भगवतः शङ्करस्य अस्ति । नर्मदा शिवात् उत्पन्ना, अतः तस्याः अपरं नाम शाङ्करी इत्यपि ।
नर्मदायाः उत्पत्तिविषये एका अन्या अपि कथा प्रचलिता अस्ति । यदा सृष्टिकर्तुः चतुर्मुखस्य ब्रह्मणः नेत्राभ्याम् अश्रुद्वयम् अमरकण्टक-नगरे अपतत्, तदा द्वयोः नद्योः उत्पत्तिः अभवत् । एका नर्मदानदी, अपरा सोननदी च । यद्यपि द्वयोः उद्गमस्थानम् एकमेव तथापि विपरीतदिशोः प्रवहतः इति आश्चर्यम् ।
कूर्मपुराणानुसारं नर्मदानदी शतयोजनं लम्बमाना, योजनद्वयं विस्तृता च अस्ति । स्कन्दपुराणानुसारं नर्मदायाः विस्तारः सार्ध-योजनम् अस्ति । किन्तु वास्तविकतया अस्याः विस्तारः एकोत्तर-अष्टशतं (८०१) मील् (mile) अस्ति ।
मत्स्यपुराणे पद्मपुराणे च उक्तम् अस्ति यत् नर्मदायाः तटे दशकोटितीर्थानि सन्ति इति । किन्तु तेषु चतुश्शतानि एव पूज्यन्ते ।
नर्मदानदी पूजनीया अस्ति, अतः नर्मदाष्टकस्य कश्चनः श्लोकः अत्र दत्तः -
सबिन्दुसिन्धुसुस्खलत्तरङ्ग-भङ्गरञ्जितं
द्विषत्सुपापजातजातकारिवारिसंयुतम् ।
कृतान्तदूत-कालभूत-भीतिहारि वर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥
प्रतिवर्षं जनवरी-मासस्य त्रिंशत्तमः (३०) दिनाङ्कः नर्मदानद्याः जन्मदिवसत्वेन आचर्यते । इदं पर्व अस्याः पवित्रनद्याः श्रद्धायाः प्रतीकः वर्तते । मध्यप्रदेशीयाः नर्मदां मातृत्वेन प्रीणन्ति । यत्र यत्र नर्मदानदी प्रवहति तत्र तत्र ये घट्टाः (घाट) सन्ति तत्रापि जनाः इदं पर्व आचरन्ति । तत्र जनाः पूजाभागत्वेन नद्यां दीपान् प्रज्वालयन्ति । इदं दीपदानम् इति कथ्यते । नर्मदायाः स्पर्शमात्रेण यदा अश्वमेधयज्ञस्य फलं लभ्यते तदा स्नानं तु करणीयमेव ।
नर्मदायाः मार्गः
[सम्पादयतु]नर्मदानदी अमरकण्टक-नगरात् वहन्ती गुजरातराज्ये खम्भात-पत्तनस्य गर्ते अरब-सागरे पतति । नर्मदानदी १३१२ कि. मी. प्रवहति । इयं नदी स्वस्य उद्गमस्थलात् १०७७ कि. मी. पर्यन्तं मध्यप्रदेश-राज्यस्य शहडोलमण्डले, मण्डलामण्डले, जबलपुरमण्डले, नरसिंहपुरमण्डले, होशङ्गाबादमण्डले, खण्डवामण्डले, खरगौनमण्डले च प्रवहति । ततः परं महाराष्ट्र-राज्यं संस्पृश्य पुनः मध्यप्रदेशराज्ये ३४ कि. मी. प्रवहति । ततः परं नर्मदानदी १६१ कि. मी. पर्यन्तं गुजरातराज्ये प्रवहति । अन्ते गुजरातराज्यस्य खम्भात-पत्तनस्य गर्ते पतति । अतः नर्मदानद्याः प्रवाहमार्गे मध्यप्रदेशराज्यं, महाराष्ट्रराज्यं, गुजरातराज्यं च तिष्ठति ।
नर्मदायाः परिक्रमणम्
[सम्पादयतु]नर्मदादेवी वैराग्यस्य अधिष्ठातृदेवी अस्ति । नदीषु गङ्गादेवी ज्ञानस्य, यमुनादेवी भक्त्याः, ब्रह्मपुत्रादेवी तेजसः, गोदावरीदेवी ऐश्वर्यस्य, कृष्णादेवी कामनायाः, सरस्वतीदेवी विवेकस्य च अधिष्ठातृदेवी अस्ति । नर्मदातटवासिनः नर्मदादेव्याः करुणामयं वात्सल्यस्वरूपं सम्यक्तया जानन्ति । जनाः नर्मदानद्याः परिक्रमणं श्रद्धया कुर्वन्ति । नर्मदायाः परिक्रमणे ३ वर्षाणि, ३ मासाः, १३ दिनानि च भवन्ति । इदं परिक्रमणं १३१२ कि. मी. पर्यन्तं अस्ति । नर्मदायाः पूजनं कृत्वा अस्य परिक्रमणस्य प्रारम्भः भवति । अश्वत्थामा इदानीम् अपि नर्मदायाः परिक्रमणं कुर्वन् अस्ति इति मान्यता अस्ति । देवगणाः अपि नर्मदायाः ध्यानं कुर्वन्ति । नर्मदायाः तटे दिव्यतीर्थानि, ज्योतिर्लिङ्गानि, उपलिङ्गानि च सन्ति । नदीषु नर्मदानद्याः एव परिक्रमणं विधिवत् भवति । अस्य परिक्रमणस्य प्रारम्भः अमरकण्टक-नगरात् ओंकारेश्वर-नगरात् वा भवति । प्रतिदिनं नर्मदायाः दर्शनं कृत्वा एव तस्य दिनस्य परिक्रमणस्य आरम्भः करणीयः । यतः परिक्रमणस्य प्रारम्भः क्रियते तत्रैव समापनमपि विधीयते । अस्य परिक्रमणस्य विधिः विस्तारपूर्वकं स्वामिना चैतन्येन कृते नर्मदा-पञ्चाङ्गे, श्री दयाशङ्कर दूबे इत्यनेन कृते नर्मदारहस्ये, श्री प्रभुदत्त ब्रह्मचारी इत्यनेन कृते नर्मदादर्शने, स्वामिना ओंकारानन्द गिरि इत्यनेन कृते श्री नर्मदाप्रदक्षिणायाम् इत्यादिषु पुस्तकेषु लिखिता अस्ति ।
नर्मदायाः भौगोलिकस्थितिः
[सम्पादयतु]नर्मदानद्याः भौगोलिकविशेषता अन्याभ्यः नदीभ्यः विशिष्टा वर्तते । नर्मदानदी पूर्वतः पश्चिमदिशि प्रवहति । नर्मदानदी विन्ध्याचलपर्वतशृङ्खला, सतपुडापर्वतशृङ्खला इत्येतयोः शृङ्खलयोः मध्ये प्रवहति । अनयोः द्वयोः पर्वतशृङ्खलयोः उपलब्धाः औषधयः, लवणं, खनिजानि इत्यादीनि नर्मदाजले मिश्रितानि सन्ति । अस्याः विशेषतायाः कारणादेव नर्मदाजलयुक्ते कृषिक्षेत्रे प्राणिनां सस्यानां च वैविध्यं दृश्यते । नर्मदाक्षेत्रे सर्वाः औषधयः, प्राणिनः, सस्यानि अधिकमात्रायां प्राप्यन्ते । नर्मदाक्षेत्रे ’डायनसॉर’ इत्यस्य प्राणिनः अवशेषाः अपि प्राप्ताः । इमाः विशेषताः सस्यानाम् अपि सन्ति, याभिः विशेषताभिः शोधकर्तारः आकर्षिताः भवन्ति । तैः शोधकर्तृभिः अपि नर्मदायाः समीपे एव स्वस्य निवासाय व्यवस्था कृता । एकम् आश्चर्यमस्ति यत् समुद्रेषु येषां जीवानां जीवाश्माः, खनिजानाम् अंशाः मिलन्ति ते सर्वे नर्मदाजले अपि मिलन्ति । जनाः खनिजानाम्, औषधीनां, रत्नानां च प्राप्त्यर्थं नर्मदानद्याः परिक्रमणं कुर्वन्ति स्म । किन्तु वर्तमाने काले तु इदं परिक्रमणं धर्मेण सह सम्बद्धः अस्ति । इदानीं तु जनाः पापेभ्यः मुक्त्यर्थं, पुण्यप्राप्त्यर्थं च नर्मदानद्याः परिक्रमणं कुर्वन्ति ।
नर्मदायाः सहायकनद्यः
[सम्पादयतु]१ हिरदननदी २ तिन्दोनीनदी ३ बारनानदी ४ कोलारनदी ५ माननदी ६ उरीनदी ७ हथनीनदी ८ ओरसङ्गनदी ९ बरनरनदी १० बञ्जरनदी ।
नर्मदायाः प्रदूषणम्
[सम्पादयतु]अद्यतने काले नर्मदानदी अस्माकं जीवनरेखा अस्ति किन्तु तस्याः स्थितिः समीचिना नास्ति । नर्मदानद्याम् अनेकानि प्रदूषणानि सन्ति । यदि सा स्वयमेव प्रदूषिता भवेत् तर्हि अस्मभ्यं कथं जीवनं दातुं शक्नोति । पुण्यसलिला-नर्मदायाः जलम् अनेकेषु स्थानेषु गम्भीररूपेण प्रदूषितम् अस्ति । अमरकण्टक-नगरं कोटितीर्थम् इति प्रसिद्धम् अस्ति । किन्तु इदानीं तु कोटिव्याधीनां द्वारम् अस्ति अमरकण्टक-नगरम् । नर्मदानद्याः उद्गमकुण्डः एतावान् प्रदूषितः जातः, यस्य स्पर्शं कर्तुम् अपि इच्छा न भवति । कुण्डस्य समीपे अपि मलिनता वर्तते । नर्मदायां शवाः मिलन्ति । जनाः अन्धविश्वासकारणात् पूजानन्तरं बलिरूपेण शवान् पाषाणैः बद्ध्वा नर्मदाजले त्यजन्ति ।
मण्डलामण्डले, जबलपुरमण्डले, होशङ्गाबादमण्डले च जनाः नर्मदाजले शवान् त्यजन्ति । कारणं तत्र काष्ठानाम् अभावः, मूल्यवृद्धिः च अस्ति । जनेषु अन्धविश्वासः, अशिक्षा, अज्ञानता, धर्मान्धता इत्यादीनि कारणानि अपि सन्ति ।
अमरकण्टक-नगरे नर्मदा-कुण्डे स्नानात् जलं प्रदूषितं भवति । तस्य कुण्डस्य समीपे यदि लघुस्नानकुण्डस्य निर्माणं भवेत् तर्हि नर्मदायाः जलं शुद्धं भवितुं शक्नोति । नगराणाम् अशुद्धजलमपि नर्मदायाः जले मिलति । यन्त्रागाराणाम् अशुद्धजलमपि नर्मदायाः जले एव मिलति । नर्मदायां मत्स्योद्योगः अपि प्रचुरमात्रायां भवति । तेन कारणेन अपि नर्मदाजलं प्रदूषितम् अस्ति ।
गुजरातराज्यस्य भरुच-नगरे अपि नर्मदानदी प्रवहति । भरुच-नगरम् औद्योगिकं नगरमस्ति । तत्र बहवः यन्त्रागाराः सन्ति । यन्त्रागाराणाम् अनुपयोगिजलस्य निकासः अपि नर्मदायाः जले कारितः अस्ति । भरुच-नगरस्य समीपे बहूनि तीर्थस्थलानि अपि सन्ति । श्रद्धालवः धार्मिकप्रथानुसारं नर्मदायां स्नानं कुर्वन्ति । तदनन्तरं नर्मदाजले पुष्पाणि, चन्दनं, नारिकेलानि इत्यादीनि वस्तूनि क्षिपन्ति । अतः नर्मदायाः जलं पातुं स्नातुं च योग्यं नास्ति । अस्मिन् जले स्नानात् चर्मरोगः अपि भवितुं शक्नोति ।
नर्मदानद्याः जलसङ्ग्रहणम्
[सम्पादयतु]नर्मदानद्याः जलसङ्ग्रहणक्षेत्रं ९८,७९९ च. कि. मी. अस्ति । तस्मिन् ८०.०२% क्षेत्रं मध्यप्रदेशराज्ये, ३.३१% क्षेत्रं महाराष्ट्रराज्ये, ८.६७% क्षेत्रं गुजरातराज्ये अस्ति । अस्याः नद्याः उपयोगः सिञ्चनकार्ये अपि भवति । अनया नद्या १६० लक्षम् एकड (acre) भूमेः सिञ्चनं भवति, यस्मिन् १४४ लक्षम् एकड भूमिः मध्यप्रदेशराज्ये एव अस्ति । शेषा भूमिः महाराष्ट्रराज्ये, गुजरातराज्ये अस्ति ।
नर्मदायाः जलबन्धाः
[सम्पादयतु]नर्मदानदी अविवाहिता नदी कथ्यते । अस्याः आचरणं लावण्यमयीनवयुवत्याः सदृशम् एव अस्ति । इयं सहसा एव प्रपातानां निर्माणं कारयति । नर्मदानदी रवं कृत्वा प्रवहति । ततः परं गर्ते पतनानन्तरं शान्ता अपि भवति । एतादृक् तस्याः स्वभावः अस्ति । जलबन्धकारणात् नर्मदायाः स्वरूपस्य परिवर्तनं भवति । नर्मदानद्याः विकासाय परियोजनायां पञ्चजलबन्धानां निर्माणस्य प्रस्तावः आसीत् । तेषां विवरणानि अधो लिखितानि सन्ति ।
बरगी-जलबन्धः
[सम्पादयतु]बरगी-जलबन्धः जबलपुर-नगरस्य समीपस्थे बरगी-ग्रामे स्थितः अस्ति । अयं जलबन्धः नर्मदानद्याः प्रथमः जलबन्धः वर्तते । सः ५.३६ कि. मी. लम्बमानः, ६९.८ मी. उन्नतः अस्ति । १९८८ तमे वर्षे अस्य जलबन्धस्य निर्माणम् अभवत् । अयं जलबन्धः विद्युदुत्पादनकेन्द्रम् अपि अस्ति । १९८८-८९ तः विद्युदुत्पादनस्य प्रारम्भः अभवत् । बरगी-जलबन्धात् १००० मेगावाट् विद्युतः उत्पादनं, ४.३७ लक्षं हेक्टेर् क्षेत्रस्य सिञ्चनं च क्रियते । अस्य जलबन्धस्य पृष्ठे कश्चनः जलाशयः अस्ति । तस्य नाम रानी अवन्तीबाई सागर इति ।
इन्दिरासागर-जलबन्धः
[सम्पादयतु]इन्दिरासागर-जलबन्धः खण्डवामण्डलस्य पुनासा-ग्रामस्य समीपे स्थितः अस्ति । सः ६५३ कि. मी. लम्बमानः, ९२ मी. उन्नतः अस्ति । अस्य जलबन्धस्य जलसङ्ग्रहणक्षेत्रं ६१,६४२ च. कि. मी. अस्ति । अस्य जलसङ्ग्रहणस्य क्षमता १२.२२ बी. सी. एम्. अस्ति । भारतस्य जलबन्धेषु अस्य जलबन्धस्य जलसङ्ग्रहणक्षमता सर्वाधिकी वर्तते । अस्मात् जलबन्धात् १.२३ लक्षं हेक्टेर् क्षेत्रे सिञ्चनं, १००० मेगावाट् विद्युतः उत्पादनं च क्रियते ।
ओंकारेश्वर-जलबन्धः
[सम्पादयतु]ओंकारेश्वर-जलबन्धः इन्दिरासागर-जलबन्धात् ४० कि. मी. दूरे स्थितः अस्ति । अस्य जलबन्धस्य निर्माणम् ओंकारेश्वरद्वीपस्य पूर्वभागस्य समीपे अभवत् । तत्र नर्मदानद्याः जलप्रवाहस्य भागद्वयं भवति । अस्य जलबन्धस्य औन्नत्यम् ७३.१२ मी., दैर्घ्यं ९४९ मी. च अस्ति । इन्दिरासागर-जलबन्धात् विद्युदुत्पादनानन्तरं यज्जलं त्यज्यते तस्य उपयोगः ओंकारेश्वर-जलबन्धे ५२० मेगावाट् विद्युदुत्पादने भवति ।
महेश्वर-जलबन्धः
[सम्पादयतु]महेश्वर-जलबन्धः मध्यप्रदेशराज्ये स्थितः नर्मदायाः अन्तिमः जलबन्धः अस्ति । महेश्वर-जलबन्धात् ४०० मेगावाट् विद्युदुत्पादनं भवति । अयं जलबन्धः मण्डलेश्वर-नगरस्य समीपे अस्ति । अस्य परियोजनायाः नाम ’रन ऑफ द रिवर’ इति । नर्मदान्यायाधिकरणानुसारम् अस्य जलबन्धस्य निर्माणानन्तरं गुजरातराज्यस्य सरदारसरोवरजलबन्धाय महेश्वर-जलबन्धस्य जलं त्यक्तम् आसीत् । अन्ते गुजरातराज्ये सरदारसरोवरजलबन्धस्य निर्माणम् अभवत् ।
सरदारसरोवरजलबन्धः गुजरातराज्यस्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अन्यतमः अस्ति । सरदारसरोवरजलबन्धः न केवलं गुजरातराज्यस्य, अपि तु भारतस्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अपि अन्यतमः । जलबन्धनिर्माणस्य योजनायाः नाम ’नर्मदायोजना’ इति । एतस्मात् जलबन्धादेव गुजरातराज्यस्य विभिन्नस्थानं प्रति कुल्यायाः (canal) माध्यमेन नर्मदायाः जलं गच्छति । गुजरातराज्यस्य विकासस्य पृष्ठे सरदार-सरोवरजलबन्धस्य निर्माणमपि एकं कारणं विद्यते इति नेतारः वदन्ति । १९६१ तमस्य वर्षस्य 'अप्रैल'-मासस्य पञ्चमे दिनाङ्के (५/४/१९६१) एतस्याः योजनायाः शिलान्यासं प्रधानमन्त्री नेहरू अकरोत्, परन्तु अद्यापि तस्य निर्माणकार्यं चलत् अस्ति । अनेन ज्ञायते यत्, एषः प्रकल्पः कियत् बृहत् अस्ति इति । (भारतदेशस्य राजनीतेः कीदृशी स्थितिः अस्ति इत्यस्यापि अनेन ज्ञानं भवति ।)
सरदार-सरोवरजलबन्धस्य जलसञ्चयक्षमता प्रतिक्षणं ३०.७ घनपादम् (cubic feet per second) अस्ति, या विश्वस्य सर्वाधिका जलसञ्चयक्षमता अस्ति । मुख्यनियामकस्य (Regulator) जलसञ्चयक्षमता प्रतिक्षणं ४०,००० घनपादं, विस्तारश्च ५३२ कि. मी. अस्ति । भारतस्य बृहत्तमेषु जलबन्धेषु तृतीयः जलबन्धः एषः । एतस्य जलबन्धस्य औन्नत्यं १६३ मी. भविष्यति । नर्मदायाः मुख्यकुल्या (main canal) विश्वस्य बृहत्तमा कृषिक्षेत्रसिञ्चनकुल्या अस्ति ।
जलबन्धस्य विस्तारः ३७,००० ‘हेक्टेर्’ अस्ति । सः २.१४ कि. मी. लम्बमानः, १.७७ कि. मी. विस्तृतः अस्ति । जलबन्धस्य सामान्यजलस्तरः १३८.६८ मी. निर्धारितः । अधिकतमः जलस्तरः १४०.२१ मी., न्यूनातिन्यूनः जलस्तरश्च ११०.६४ मी. निर्धारितः । जलबन्धस्य न्यूनातिन्यूनस्तरात् अपि यदि जलस्तरः अधः नेयः, तर्हि २५.९१ मी. जलं तु जलबन्धे अनिवार्येण भवेदेव इति नियमः ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये नर्मदानदी सम्बन्धिताः सञ्चिकाः सन्ति। |