सातारामण्डलम्
सातारामण्डलम् Satara District सातारा जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये सातारामण्डलम् | |
देशः | India |
जिल्हा | सातारामण्डलम् |
उपमण्डलानि | सातारा, कराड, वाई, महाबळेश्वरम्, फलटण, माण, खटाव, कोरेगाव, पाटण, जावळी, खण्डाळा |
विस्तारः | १०,४८४ च.कि.मी. |
जनसङ्ख्या(२०११) | ३०,०३,७४१ |
Government | |
• मण्डलसङ्गाहकः (District Collector) | डा एन् रामस्वामी |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://satara.nic.in |
सातारामण्डलं (मराठी: सातारामण्डलम्, आङ्ग्ल: Satara District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं सातारा इत्येतन्नगरम् ।
भौगोलिकम्
[सम्पादयतु]सातारामण्डलस्य विस्तारः १०,४८० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि सोलापुरमण्डलं, पश्चिमदिशि रत्नागिरिमण्डलम्, उत्तरदिशि पुणेमण्डलं, रायगडमण्डलं च, दक्षिणदिशि साङ्गलीमण्डलम् अस्ति । अस्मिन् मण्डले १,४२६ मि.मी.वार्षिकवृष्टिपातः भवति । अत्र प्रवहन्त्यः प्रमुखनद्यः सन्ति कृष्णा, कोयना, नीरा, वेण्णा, उरमोडी, तारळा, माणगङ्गा च ।
जनसङ्ख्या
[सम्पादयतु]सातारामण्डलस्य जनसङ्ख्या(२०११) ३०,०३,७४१ अस्ति । अस्मिन् १५,१०,८४२ पुरुषाः, १४,९२,८९९ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे २८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.९३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ८२.८७% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि-
- सातारा
- कराड
- वाई
- महाबळेश्वर
- फलटण
- माण
- खटाव
- कोरेगाव
- पाटण
- जावळी
- खण्डाळा
प्राकृतिकवैशिष्ट्यानि
[सम्पादयतु]कृष्णा-कोयने प्रमुखनद्यौ । कृष्णानदी दक्षिणभारते प्रवहन्तीषु दीर्घनदीषु अन्यतमा । सातारामण्डलं प्राकृतिकवैशिष्ट्यैः पूर्णं, यथा उच्चपर्वतावल्यः, शैलप्रस्थानि, वनविभागाः च । सागरस्तरतः ४५०० पादोन्नतप्रदेशे स्थितमिदं मण्डलम् । तापमान-पर्जन्यमानदृष्ट्या विविधतापूर्णः एषः प्रदेशः । अस्य मण्डलस्य पर्वतप्रदेशे बहवः प्रसिद्धाः दुर्गाः सन्ति ।
कृष्युत्पादनम्
[सम्पादयतु]मण्डलेऽस्मिन् कृषिः प्रमुखोपजीविकासाधनम् । तण्डुलः, यवनालः(ज्वारी), 'बाजरी', गोधूमः, किणः(corn), 'स्ट्रोबेरी', चणकः, इक्षुः, कार्पासः, कलायः, शिम्बी(घेवडा), 'सोयाबीन', आलुकम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।
लोकजीवनम्
[सम्पादयतु]मण्डलेऽस्मिन् ८१.०१% जनाः ग्रामेषु, १८.९९% जनाः नगरेषु च निवसन्ति । मण्डलेऽस्मिन् १,७३९ ग्रामाः, १५ नगराणि च सन्ति । ग्रामेषु प्रायः सर्वे कृषिव्यवसायसम्बन्धिकार्येषु रताः । सातारा, कराड, फलटण, वाई स्थानेषु उद्यमाः अधिकाः सन्ति । मण्डलेऽस्मिन् बहूनि प्रेक्षणीयस्थलानि सन्ति अतः पर्यटनसम्बन्धिताः व्यवसायाः अपि प्रचलन्ति अत्र ।
व्यक्तिविशेषाः
[सम्पादयतु]बहूनां व्यक्तिविशेषाणां कार्यस्थलं वा जन्मस्थलमस्ति सातारा मण्डलम् । यथा समर्थ रामदास स्वामी, रामशास्त्री प्रभुणे, प्रतापसिंह महाराज,राज्ञीलक्ष्मी बाई क्रान्तिसिंह नाना पाटील, सावित्रीबाई फुले, यशवन्तराव चव्हाण, कर्मवीर भाऊराव पाटील, राजमाता सुमित्राराजे भोसले, खाशाबा जाधव ।
वीक्षणीयस्थलानि
[सम्पादयतु]अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- सज्जनगड-दुर्गः
- प्रतापगड-दुर्गः
- शिखर-शिङ्गणापुर
- श्रीभैरवनाथ-मन्दिरम्
- महाबळेश्वरम्
- वासोटा-दुर्गः
- अजिङ्क्यतारा-दुर्गः
- कास-सरोवरः
- नटराजमन्दिरम्
- ठोसेघर
- शिवाजी-सङ्ग्रहालयः
- भवानी-सङ्ग्रहालयः
- कोयना-अभयारण्यम्
बाह्यानुबन्धाः
[सम्पादयतु]- Satara goes Global Archived २०१०-०५-०४ at the Wayback Machine
- Satara district website Archived २०१४-०५-१६ at the Wayback Machine
- History Archived २००८-०२-१९ at the Wayback Machine
- Map of Archived २०१४-०६-०४ at the Wayback Machine Maharashtra.
- Satara District Main Roads and Railways Archived २००९-०३-०४ at the Wayback Machine
- Physical Map of Satara District Archived २००९-०३-०४ at the Wayback Machine
- Zilla Parishad Website
- मराठी विश्वकोश:
पुणेमण्डलम्, रायगडमण्डलम् | ||||
रत्नागिरिमण्डलम् | सोलापुरमण्डलम् | |||
सातारामण्डलम् | ||||
साङ्गलीमण्डलम् |