यमुनानदी
Yamuna (यमुना) | |
River | |
Country | India |
---|---|
States | उत्तराञ्चलः, उत्तरप्रदेशः, हरियाणा |
Tributaries | |
- left | Tons, Hindon, Sarda, Kunta, Gir, Rishiganga, Hanuman Ganga |
- right | Chambal, Betwa, Ken, Sindh |
Cities | यमुनानगरम्, देहली, मथुरा, आग्रा, इटावा, काल्पी |
Source | यमुनोत्री |
- elevation | फलकम्:Unit height |
- coordinates | ३१°०१′०.१२″ उत्तरदिक् ७८°२७′०″ पूर्वदिक् / 31.0167000°उत्तरदिक् 78.45000°पूर्वदिक् |
Mouth | त्रिवेणी संगमम् |
- elevation | फलकम्:Unit height |
- coordinates | २५°३०′ उत्तरदिक् ८१°५३′ पूर्वदिक् / 25.500°उत्तरदिक् 81.883°पूर्वदिक् |
Length | १,३७६ km (८५५ mi) |
Basin | ३,६६,२२३ km2 (१,४१,३९९ sq mi) |
यमुना दक्षिणेशियामहाद्वीपे भारतदेशे एका नदी अस्ति। भानुजा, कालिन्दी, सूर्यपुत्री इति ज्ञाता हिमालये कलिन्दपर्वतात् उत्पद्यते।
सा एका पवित्रा नदी। यमुनानद्याः उगमस्थानम् उत्तराखण्डराज्यस्य उत्तरकाशीमण्डलस्य यमुनोत्री इत्यत्र उद्भवति । ततः १३७० कि.मी दूरं यावत् प्रवह्य उत्तरप्रदेशस्य इलहाबाद् प्रयागः इत्यत्र गङ्गानद्या मिलति । एषा नदी उत्तराखण्ड-हरियाणा-देहली-उत्तरप्रदेशराज्यानां मार्गेण प्रवहति । देहली मथुरा आग्रा इत्यादिप्रमुखनगराणि अस्याः तीरे सन्ति । यद्यपि एषा गङ्गानद्याः उपनदी इति कथ्यते ,तथापि एतस्याह् अपि अनेकाः उपनद्यः सन्ति । तासु प्रमुखाः चम्बल्, बेत्वा, तोन्स्, केन् च । एतासु तोन्स्नदी दीर्घा अस्ति । सा सूर्यपुत्री यमस्य स्वसा च।
प्राचीनः इतिहासः पुराणं च
[सम्पादयतु]यमुना कूर्मवाहिनी अस्ति। पूर्वं कदाचित् यमुनानदी घग्गरनद्याः उपनदी आसीत् इति उल्लीखाः प्राप्ताः सन्ति । अग्रे कदाचित् उत्तरभारते जातानां भूस्तराणाम् चलनकारणतः एषा स्वस्य पात्रं परिवर्त्य गङ्गया मिलति । पुराणाम् आधारेण सा सूर्यस्य पुत्री यमस्य स्वसा च। विवस्वतः(सूर्यस्य) सञ्जनायाः च पुत्री । यमुनानद्या निर्मिते कल्किद्वीपे एव महाभारतस्य वेदव्यासस्य जन्म अभवत् । यमुनानद्याः अञ्जलिमात्रेन जलेन सोमयागः सम्पन्नः इति कथा श्रूयते । मथुरा-वृन्दावनयोः वहन्ती यमुना श्रीकृष्णस्य लीलानां साक्षीभूता तिष्ठति ।
विविधानि नामानि
[सम्पादयतु]यमुनां जमुना इत्यपि आह्वयन्ति । प्रसिद्धः इतिहासकारः टालेमी एतां द् यामौन् इति आहूतवान् अस्ति । लीनी जोमान्स् इति, अरियन् जोबेर्स् इति च आहूतवन्तौ स्तः । देवप्रयागतः गङ्गायमुनयोः सङ्गमस्थानं प्रायागं यावत् विद्यमानः भूभागः अन्तर्वेदी, शासस्स्थली, ब्रह्मावर्तः इत्यादिभिः नामभिः प्रसिद्धः दृश्यते ।
इतरे विषयाः
[सम्पादयतु]विश्वे अत्यन्तकलुषितनदीषु यमुना अन्यतमा । एतस्य मालिन्यस्य प्रमुखं कारणं देहलीनगरस्य त्याज्यवस्तूनि । यमुनायाः शुद्धीकरणार्थं कृताः अनेके प्रयत्नाः विफलाः सन्ति । सत्लज्-यमुना नद्योः योजनार्थं कश्चन नौकामार्गः निर्माणघट्टे अस्ति । यदा एतत् कार्यम् सम्पत्स्यते तदा भारतस्य पूर्वभागतः पश्चिमभागपर्यन्तं नौकायानसम्पर्कः शक्यः । कृष्यर्थं प्रथमा कुल्या १८३० तमे वर्षे निर्मिता ।सहारनपुर- मुझफ़रपुर- मेरठमण्डलानां कृते एषा पूर्वभागस्य कुल्या जलं कल्पयति । पश्चिमभागस्य कुल्या अम्बाला- कर्नाल- हिस्सार-देहलीप्रदेशानां कृषेः आधारभूता अस्ति । पूर्वम् एषा कुल्या १३५६ तमे वर्षे फ़िरोजशाह्-३ सुल्तानेन निर्मिता आसीत् । १५६८ तमे वर्षे अकबरः जीर्णोद्धारं कारितवान् । स्वस्य जन्मस्थानात् कलिन्दशिखरात् ८६०मैल् यावत् प्रवह्य गङ्गया मिलितवती एषा कलिन्दकन्या। अग्रे बाणगङ्गा - चम्बल्- बेत्वा नद्यः यमुनया मिलन्ति । यमुनायाः जलं कदाचित् मन्दनीलं पुनः कदाचित् कृष्णवर्णीयं भवति।