रायसेनमण्डलम्
रायसेनमण्डलम् Raisen District | |
---|---|
रायसेन जिला | |
रायसेनमण्डलस्य नयनाभिरामदृश्यम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | रायसेन, गोहरगञ्ज, बादी, बरैली, सिलवानी, उदयपुरा, गिरतगञ्ज |
विस्तारः | ८,४६६ च. कि. मी. |
जनसङ्ख्या (२०११) | १३,३१,५९७ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७२.९८% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४५% |
Website | http://raisen.nic.in/ |
रायसेनमण्डलम् ( ( शृणु) /ˈrɑːjəsɛnəməndələm/) (हिन्दी: रायसेन जिला, आङ्ग्ल: Raisen district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रायसेन इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]रायसेनमण्डलस्य विस्तारः ८,४६६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सागरमण्डलं, पश्चिमे भोपालमण्डलम्, उत्तरे विदिशामण्डलं, दक्षिणे सीहोरमण्डलम् अस्ति । अस्मिन् मण्डले वेत्रवतीनदी प्रवहति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं रायसेनमण्डलस्य जनसङ्ख्या १३,३१,५९७ अस्ति । अत्र ७,००,३५८ पुरुषाः, ६,३१,२३९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५७ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०१ अस्ति । अत्र साक्षरता ७२.९८% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि- १ रायसेन, २.गोहरगञ्ज, ३.गैरतगञ्ज, ४.बेगमगञ्ज, ५.बाडी़, ६.बरेली, ७सिलवानी, ८.उदयपुरा, ९.सुल्तानपुर, १०.कस्बा देवरी , ११.कस्बा बम्हौरी, १२.कस्बा सुल्तागञ्ज ।
वीक्षणीयस्थलानि
[सम्पादयतु]भोजपुरम्
[सम्पादयतु]भोजपुरं भोपाल-नगरात् २५ कि. मी. दूरे अस्ति । इदं नगरं मध्यभारतस्य सोमनाथ इति प्रसिद्धम् । इदं नगरं वेत्रवतीनद्याः तटे स्थितमस्ति । अस्य नगरस्य समीपे लघुपर्वते एकं विशालं शिवमन्दिरं वर्तते । अस्मिन् मन्दिरे विद्यमानस्य शिवलिङ्गस्य स्थापना परमारराज्ञा भोजेन कारितम् । अतः इदं मन्दिरं भोजपुर-मन्दिरं, भोजेश्वरमन्दिरम् इत्यपि कथ्यते । अस्य मन्दिरस्य निर्माणं पूर्णतया न कृतमस्ति । अस्मिन् मन्दिरे एकः पाषाणखण्डः लिङ्गरूपेण अस्ति । तल्लिङ्गम् आलीढम् अस्ति । तस्य उच्चता ३.८५ मी. अस्ति ।
सांची-स्तूपः
[सम्पादयतु]सांची-स्तूपः भोपाल-नगरात् ४५ कि. मी. दूरे अस्ति । इदं स्थलं वेत्रवतीनद्याः तटे स्थितमस्ति । अस्य समीपे एकस्मिन् उपशैले एकः विशालः बौद्धस्तूपः अस्ति । अस्मिन् स्तूपे भगवतः बुद्धस्य अस्थीनि स्थापितानि सन्ति ।
भीम बेटका
[सम्पादयतु]भीम बेटका इति इदं स्थलं भारतस्य मध्यप्रदेशराज्यस्य रायसेनमण्डले स्थितमस्ति । इदम् एकं प्राचीनं स्थलम् अस्ति । अत्र बहूनि शैलचित्राणि सन्ति । तेषां चित्राणां रचना आदिमानवैः कृता । इदं स्थलं प्रसिद्धम् अस्ति । इमानि शैलचित्राणि नवसहस्रवर्षप्राचीनानि सन्ति । अत्र पुरावशेषेषु दुर्गभित्तयः, लघुस्तूपाः, पाषाणनिर्मितानि भवनानि, शुङ्ग-गुप्तकालीनाः अभिलेखाः, शङ्खाभिलेखाः एवं परमार-कालीनमन्दिराणाम् अवशेषाः प्राप्यन्ते । भीम बेटका इति इदं स्थलं भारतीयपुरातत्वसर्वेक्षण इत्यनया भारतसर्वकारीयसंस्थया ई. १९९० तमस्य वर्षस्य अगस्त-मासे राष्ट्रियपारम्परिकस्थलत्वेन उद्घोषितम् ।
विदिशामण्डलम् | ||||
भोपालमण्डलम् | सागरमण्डलम् | |||
रायसेनमण्डलम् | ||||
सीहोरमण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये रायसेनमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://raisen.nic.in/
http://www.census2011.co.in/census/district/313-raisen.html