श्योपुरमण्डलम्
श्योपुरमण्डलम् Sheopur District | |
---|---|
श्योपुर जिला | |
श्योपुरमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे श्योपुरमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | श्योपुरम्, बडोदा, करहल, विजयपुर, बीरपुर |
विस्तारः | ६,६०६ च. कि. मी. |
जनसङ्ख्या (२०११) | ६,८७,८६१ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ५७.४३% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४५% |
Website | http://sheopur.nic.in/ |
श्योपुरमण्डलम् ( ( शृणु) /ˈʃjoʊpʊrəməndələm/) (हिन्दी: श्योपुर जिला, आङ्ग्ल: Sheopur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य चम्बलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति श्योपुरम् इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]श्योपुरमण्डलस्य विस्तारः ६,६०६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे शिवपुरीमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे राजस्थानराज्यं, दक्षिणे राजस्थानराज्यम् अस्ति । अस्मिन् मण्डले चम्बलनदी प्रवहति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणम् श्योपुरमण्डलस्य जनसङ्ख्या ६,८७,८६१ अस्ति । अत्र ३,६१,७८४ पुरुषाः, ३,२६,०७७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १०४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १०४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.९४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०१ अस्ति । अत्र साक्षरता ५७.४३% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- श्योपुरम्, बडोदा, करहल, विजयपुर, बीरपुर ।
वीक्षणीयस्थलानि
[सम्पादयतु]ध्रुवकुण्डः, उठनवाड शिवनाथ, निमोदा मठ, पनवारा-देवी-मन्दिरं, सिरोही हनुमान-मन्दिरं, जल-मन्दिरम्, कुनो वाइल्ड लाईफ् सेङ्क्चुअरी इत्येतानि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
राजस्थानराज्यम् | ||||
राजस्थानराज्यम् | शिवपुरीमण्डलम् | |||
श्योपुरमण्डलम् | ||||
राजस्थानराज्यम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये श्योपुरमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://sheopur.nic.in/
http://www.census2011.co.in/census/district/285-sheopur.html