कदम्बवंशः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

कदम्बवंशः' कर्णाटकस्य प्रथमराजवंशः । कन्नडभाषायाः प्रथमं शिलाशासनं हल्मिडिशासनम् अस्य वंशस्य प्रशासनकालस्य एव । कदम्बाः (क्रि.श. ३४५तमवर्षतः ५२५पर्यन्तम्) अद्यतनस्य उत्तरकन्नडामण्डलस्य बनवासीं प्रशासतः कर्णाटकस्य कश्चित् राजवंशः । कालक्रमेण चालुक्यवंशस्य तथा राष्ट्रकूटवंशस्य अधीनराजाः सन्तः गोवा, हानगल् प्रदेशेषु अपि शाखाः आप्नुवन् । राज्ञः काकुस्थवर्मणः प्रशासनकाले उच्छ्रायस्थितौ आसन् कदम्बाः। कर्णाटकस्य बहुभागः एतेषां साम्राज्येन आवृतः आसीत् । कदम्बवंशात् पूर्वतनराजवंशाः मौर्याः, शातवाहनाः मूलतः कर्णाटकात् बाह्याः आसन् । तेषां राज्यकेन्द्रम् कर्णाटकात् बहिः आसीत् । कन्नडभाषां प्रथमतया राजभाषारूपेण उपयुक्तवान् राजवंशः कदम्बवंशः एव । अस्य प्रदेशस्य प्रगतेः अध्ययनेन ज्ञायते यत् बहुकालं सञ्जीविता प्रधाना प्रादेशिकभाषा कन्नडम् एव । कर्णाटकस्य इतिहासे आरभिककालः एव कदम्बप्रशासनकालः । क्रि.श. २३४तमवर्षे मयूरशर्मणा संस्थापितम् एतत् राज्यं बृहत् साम्राज्यम् इव संवर्धनस्य लक्षणं दर्शयति स्म । तदानीन्तकालस्य राज्ञाम् अभिधानानि अपि एतं विषयं पोषयन्ति । अस्यैव वंशस्य काकुस्थवर्मा बलाड्यः राजा आसीत् । उत्तरभारतस्य गुप्तसाम्राज्यस्य राजानः अनेन सह वैवाहिकसम्बन्धं रक्षितवन्तः इति विषयः राज्यस्य गरिमां सूचयति । अस्य वंशस्य राजा शिवकोटिः पुनः पुनः सम्भूतैः युद्धैः रक्तपातैः च खिन्नः सन् जैनधर्मं प्रति मतान्तरणं कृतवान् । कदम्बानां समकालीनाः तलकाडुप्रदेशस्य गङ्गाः सम्पूर्णस्वतन्त्रराज्यप्रतिष्ठापने स्थलीयेषु प्रथमाः आसन् ।

इतिहासः[सम्पादयतु]

कदम्बानां मूलस्य विषये किंवदन्त्यः यथेष्टं सन्ति । तद्विषये काचित् कथा एवम् अस्ति । अस्य कदम्बवंशस्य मूलपुरुषः त्रिलोचन कदम्बः (हलसि तथा देगांवि अभिलेखानुगुणं जयन्तः इति अस्य नाम) इत्यस्य त्रीणि लोचनानि चत्वारः बाहवः आसन् । कदम्बवृक्षस्य अधः शिवस्य स्वेदे पतिते अस्य जन्म अभवत् अतः अस्य नाम कदम्बः अभवत् । अन्यकथानुगुणं मयूरशर्मा एव शिवभूदेव्योः पुत्ररूपेण जतः कदम्बसाम्राज्यम् अस्थापयत् । अस्यापि त्रीणि नेत्राणि आसन् इति । तुळुभाषिकानाम् इतिहासवर्णनस्य ग्रामपद्धतिनामके पुस्तके कन्नडभाषाग्रन्थानुसारं मयूरशर्मा सह्याद्रेः श्रेणिषु कदम्बवृक्षस्य अधः शिवपार्वत्योः अपत्यरूपेण सम्भूतः । एषः एव मयूरशर्मा । अस्य वंशस्य एव सन्तानं नागरखाण्डकदम्बः इति । वंशस्य शिलालेखानुगुणम् अस्य वंशस्य मूलस्य चिन्तनं नन्दसाम्राज्यपर्यन्तमपि गच्छति । अनपत्यः राजा नन्दः पुत्रप्राप्तये कैलासे शिवं प्रार्थयत । "भवतः पुत्रौ जनिष्येते । ताभ्याम् कदम्बकुलम् इति भविष्यति तयोः शस्त्रविद्यां बोधनीया" इति नभोवाणी अभवत् । कदम्बानां मूलस्य विषये सिद्धान्तद्वयम् अस्ति । एकं कर्णाटकस्य , अपरम् उत्तरभारतस्य । किन्तु उत्तरभारतस्य मूलस्य विषये तस्याः वंशपरम्परायाः पश्चात् अभिलेखेषु केवलम् उल्लेखः अस्ति । अतः एतत् चिन्तनं किंवदन्ती इत्येव परिगण्यते । अस्य प्रथमोल्लेखः क्रि.श.१०५३ तथा क्रि.श. १०५५तमवर्षयोः हरिकेसरीदेवस्य शिलाशासने प्राप्तः । अग्रिमशिलाशासनानि एतदेव उल्लिख्य मयूरशर्मा हिमलये आधिपत्यं स्थापितवान् इति विवृणुते । अस्य समर्थनस्य न कोऽपि अभिलेखः अस्ति । अतः अयं वादः अपि विश्वासार्हः नास्ति । केवलं दक्षिणभारते एव कदम्बवृक्षाः प्ररोहन्ति अतः कदम्बवंशस्य मूलमपि दक्षिणभारतम् एव । कदम्बजातेः विषये अपि पण्डितेषु अभिप्रायभेदाः सन्ति । कदम्बानां जातिविषये विदुषाम् अभिप्रायः भेदः अस्ति । तालगुन्दस्य शिलाभिलेखानुगुणं कदम्बाः मूलतः ब्राह्मणाः, आदिवासिनः इत्यपि अभिप्रायः अस्ति । कदम्बाः केरलराज्ये तमिळुनाडुप्रदेशे च प्रशासतः चेरराजैः सह सङ्घर्षन्तः कडम्बुजातीयाः इति अपि अभिप्रायः श्रूयते । कडम्बवः सुब्रह्मण्यं कदम्बवृक्षं च कुलदेवः इव पूजयन्ति स्म । केचन इतिहासकाराः कदम्बानां मूलं तु उत्तरभारतम् इति वदन्ति । कदम्बानां नाणकेषु कन्नडस्य देवनागर्याः लेखः लाञ्छनं च स्तः । कन्नडभाषायाः हल्मिडीति सर्वप्रथमशिलालेखे (क्रि.श. ४५०तमवर्षे) कदम्बानां व्यावहारिकी भाषा कन्नडभाषा इति उल्लेखः अस्ति । तेषां प्रशासनकाले शिलालेखत्रयं शोधितम् । सतारा कलेक्टोरेट् इत्यस्मिन् कदम्बानां प्रशासनस्य आरम्भकाले टङ्कितानि वीरः स्कन्दः कन्नडलिपियुक्तानि नाण्यानि उपलब्धानि । राज्ञस्य भगीरथस्य कालस्य (क्रि.श. ३९०तः ४१५ पर्यन्तं) श्रीः भागी इति कन्नडलिपियुतनाण्यानि अपि उपलब्धानि । अनेन दृढितं भवति यत् कदम्बानां प्रशासनभाषा कन्नडभाषा आसीदिति ।

वंशमूलम्[सम्पादयतु]

शातवाहनानां प्रशासनकालः यदा समाप्तः अभवत् तदा कर्णाटकप्रदेशे प्रथमतया अधिकारं कन्नडराजवंशीयाः कदम्बाः प्राप्तवन्तः । अस्मिन् विषये विदुषां भिप्रायभेदाः न सन्ति। कदम्बाः साम्राज्यस्थापकः मयूरवर्मा आसीत् । वनवासीनगरस्यसमीपे ताळगुन्दः इति राजधानी आसीत् । मयूरवर्मा काञ्चीप्रदेशे शिक्षणं प्राप्तवान् । राज्यस्थापनार्थम् ताळगुन्दमागतवान् । लघुसैन्यं सङ्कलय्य पल्लवाधीनानां राज्ञां विरुद्धं प्रयुद्ध्य जयं प्राप्तवान् । आरम्भे लघु राज्यम् स्थापितवान् । अनन्तरम् बाणवेशीयान् पराजित्य साम्राज्यस्य विस्तारं कृतवान् । मयूरवर्मणः प्रशासनकाले प्राकृतापेक्षया संस्कृतभाषायाः प्रयोगः अधिकः आसीत् । किन्तु प्राशासनिकेन भाषारुपेण कन्नडभाषा स्वीकृता इति विदुषाम् अभिप्रायः । कदम्बराजानः स्वयम् हरीतपुत्राः मानव्यगोत्रजाः इति घोषितवन्तः । मयूरवर्मणः मरणानन्तरं कङ्गवर्मा भगीरथवर्मा रघुवर्मा च क्रमशः कदम्बसाम्राज्ये प्रशासकाः अभवन् । रघुवर्मणः अनन्तरम् काकुत्सवर्मा सिंहासनारूढः अभवत् । सः अभिवृद्धिकार्ये कर्नाटके प्रथमः उत्तमप्रशासकः इति स्थानम् प्राप्तवान् । प्रथमतया एषः कञ्चिपल्लवान् जितवान् । राज्यस्य विस्तारं कृतवान् । द्वितीयम् अभिवृद्धिकार्यं शासननिर्माणम् आसीत् । अस्य काले एव प्रसिद्धम् हल्मिडिशासनम् (हल्मिडिशिलाभिलेखः) निर्मितम् आसीत् । अस्य प्रशासनकाले कदम्बसाम्राज्यम् शिवमोग्गा चित्रदुर्गः बळ्ळारी, उत्तरकन्नडम्, बेळगावी मण्डलेषु व्याप्तमभवत् । काकुत्स्थवर्मा गुप्तवाकाटकराजवंशजैः सह वैवाहिकसम्बन्धं स्थापनेन कदम्बानां राज्यं स्थिरं कृतवान् । काकुत्स्थवर्मणः शान्तिवर्मा कृष्णवर्मा इति पुत्रौ अस्ताम् । एतौ राज्यं विभज्य प्रशासनमकृतवन्तौ । शान्तिवर्मा बनवसी नगरं राजधानीम् कृत्वा प्रशासनम् कृतवान् । कृष्णवर्मा च त्रिपर्वतनगरे शासनम् कृतवान् । शान्तिवर्मा पल्लवान् जितवान् । आक्रमणकारान् प्रतिबन्धितवान । तलकाडुप्रदेशीयानाम् प्रदेशान्पिजित्वा साम्राज्यस्य विस्तारम् कृतवान् । शान्तिवर्मणः कालानन्तरं मृगेशवर्मा, रविवर्मा च कदम्बसाम्राज्ये प्रशासकौ अभवताम् । एतयोः समये पाण्ड्यराजाः अळुपवंशीयाः राजानः कोङ्गव्ळाः च जिताः अभवन । अनेन कर्णाटकराज्यप्रदेशे कदम्बाः बलिष्ठाः अभवन् । रविवर्मणः पुत्रः हरिवर्मा अपि असामान्यः राजासीत् अस्य प्रशासनकाले कदम्बराज्यम् एकीभूतम् समृद्धं सुभद्रं च अभवत् । साम्राज्यस्य सुभद्रः आधारः स्थापितः अभवम् । कदम्बवंशीयाः सा.श.चतुर्थशतकतः षष्ठशतकपर्यन्तम् उत्तमम् प्रशासनं कृतवन्तः । एतेषां प्रशासनकाले कन्नडभाषिकाः राजनितिषु एकीकृता न अभवन् । अतः प्रथमतया कन्नडदेशीयानां साम्राज्यं स्थापितमासीत् । कन्नडभाषायाः प्राशस्त्यं दत्तमासीत् । शासनेषु च कन्नडभाषायाः प्रमोगः कृतः अस्ति । हरिवर्मणः प्रशासनकालादनन्तरं कदम्बानां प्राबल्यम् कुष्ठितम अभवत् । कदम्बवंशीयैः देवालयाः निर्मिताः सन्ति । कृषिकार्यार्थमपि उत्तमम् कार्यम् कृतम् ।

कदम्बवंशप्रशासनम्[सम्पादयतु]

क्रि.श. ४५०तमस्य राज्ञः शान्तिवर्मणः कालस्य ताळगुण्दशिलाभिलेखः कदम्बसाम्राज्यस्य उद्गवम्अस्य विषये विवरणं ददाति । ताळगुन्दः नाम अद्यतस्य कर्णाटकस्य शिवमोग्गमण्डले अस्ति । ताळगुण्दस्य निवासी स्वस्य पितामहेन गुरुणा वीरशर्मणा सह क्रि.श. ३४५तमे वर्षे वैदिकविद्यार्जनार्थं कञ्चीं गतवान् । तत्र पल्लवराजानां रक्षकभटैः अवमानितः अभवत् । अनेन क्रुद्धः प्रतीकारस्य प्रतिज्ञां कृत्वा कञ्चिं त्यक्त्वा आगतवान् । स्वस्य ब्राह्मण्यं त्यक्त्वा शस्त्राभ्यासम् आरब्धवान् । स्वानुचरैः सह मिलित्वा सेनां रचयित्वा श्रीशैले पल्लवैः सह प्रयुध्यः तान् पराजितवान् । पल्लवराजैः कोलारस्य बृहत्बाणैः च सह दीर्घकालं संयुध्य कदम्बाः स्वतन्त्रं राज्यम् अघोषयन् । मयूरशार्मणः पुत्रः कङ्गवर्मा क्रि.श. ३६५तमे वर्षे राज्याभिषेकं प्राप्तवान् । वाकटकपृथ्वीसेनेन युद्धे पराजितः चेदपि स्वस्य स्वातन्त्र्यरक्षणे यशस्वी अभवत् । अस्य पुत्रः भगीरथः पितृहस्तपरिच्युतानि स्थानानि पुनः प्राप्तुं न शक्तवान् । भगीरथस्य पुत्रः रघुः पल्लवैः सह कृते आहवे मृतः । तस्य पश्चात् अभिषिक्तः एव कदम्बवंशे एव अतिबलिष्ठः उग्रः च राजा काकुस्थवर्मा । अस्य एकां कन्यां गुप्तसाम्राज्य स्कन्दगुप्तः परिणीतवान् । अन्यां कन्यां वाकटकराजः नरेन्द्रसेनः परिणीतवान् । ताळगुन्दशिलाभिलेखानुसारं काकुस्थवर्मापि दक्षिणकन्नडमण्डलस्य अळूपः गगङ्गवाडीराजकुलैः सह विवाहसम्बन्धं प्राप्तवान् । महाकविः कालिदासः अस्य आस्थानमागतवान् । काकुस्थवर्मणः पश्चात् आगतेषु राजसु क्रि.श. ४८५तमे वर्षे अभिषिक्तः रविवर्मा केवलं राज्यं विस्तर्तुम् अशकत् । तस्य राज्यप्रशासनकाले पल्लवैः गङ्गैः युद्धानि अन्तःकलहानि च अधिकानि अभवन् । नर्मदानद्याः तीरपर्यन्तं व्याप्तान् वाटकान् पराजितान् अकुर्वन् । कदम्बानां राज्यम् अद्यतनस्य गोवाराज्यस्य महाराष्ट्रराज्यस्य कर्णाटकस्य दक्षिणभागान् अन्तर्निहितम् आसीत् । कदम्बेषु एव अन्तःकलहकारात् राजवंशः विनाशस्य मार्गगतः । कदम्बानां विष्णुवर्मणः बीरुरुग्रामस्य फलके शान्तिवर्मा समस्तकर्णाटकस्य प्रभुः इति सम्बोधितं लिखितम् । मुख्यवाहिन्याः क्रि.सा. ४५५तमे वर्षे विभक्ता तृपावर्ता इति शाखा बेळगावीसमीपस्य मुरोड् इति स्थानं कञ्चित्कालं प्रशास्य पश्चात् हरिवर्मणः काले बनवासीकदम्बसाम्राज्ये विलीना अभवत् । अन्ते अयं कदम्बवंशः बादामीचालुक्यैः पातितः । पश्चात् राष्ट्रकूटानां कल्याणीचालुक्यानां च अधीनवंशः अभवत् । मयूरशार्मणः उत्तराधिकारिणः क्षात्रवंशसूचकं वर्म इति उपाधिं स्व्यकुर्वन् ।

प्रशासनम्[सम्पादयतु]

शातवाहनराजाः इव अपि कदम्बाः स्वयं धर्ममहारः इति सम्बोधयन्ति स्म । शिलालेखानाम् अध्ययनेन तस्य कालस्य अनेकानि पदनामानि शोधितानि । प्रधानमन्त्री, परिचारकः, तन्त्रपालः, सभाकार्यसचिवः, कार्यदर्शी, विद्यावृद्धः, देशामात्यः, रहस्याध्यक्षः, सर्वकायकर्ता, धर्माध्यक्षः, भोजकः, आयुक्तः इति अधिकारपदानि भवन्ति स्म । सेनायां जगदालः, दण्डनायकः, सेनापतिः चेति स्थानानि आसन् । राजवंशस्य युवराजः राज्ञः प्रशासने साहाय्यं करोति स्म । अन्ये राजकुमारः विविधप्रान्तस्य राज्यपालाः इति नियोजिताः भवन्ति स्म । काकुस्थवर्मा स्वपुत्रं कृष्णं त्रिपर्वताः इति प्रदेशस्य राज्यपालः इति नियोजितवान् । अग्रे एतदेव राजवंशस्य विविधासु शाखासु विभागस्य कारणम् अभवत् । समग्रं राज्यं मण्डलं देशः चेति विभक्तम् आसीत् । अनेकविषयाणां (ग्रामसमूहाः) गणः मण्डलम् इति परिगण्यते स्म । आहत्य नव विषयाः निर्दिष्टाः । महाग्रमः (ताल्लूकु) दशग्रामाः इति विभागाः कृताः आसन् । कृष्युत्पन्नस्य षट्सु एकांशः करः इति स्वीकुर्वन्ति स्म । सञ्चारकरः, भूकरः, विक्रयकरः, व्यापारीकरः, इत्यादयः प्रशासनस्य धनसञ्चयमूलाः असन् ।

संस्कृतिः[सम्पादयतु]

कदम्बाः सनातनधर्मस्य दृढानुयायिनः आसन् । मयूरशार्मा प्रायः जन्मना ब्रह्मणः चेदपि तस्य पश्चात् आगताः क्षत्रियकुलस्य लाञ्छनमिव वर्मा इति पदम् अयोजयन् । कृष्णवर्मा इत्यदयः राजानः अश्वमेधयागम् अकुर्वन् । तस्य ताळगुन्दशासनम् सिवस्य प्रार्थनया आरभते । हल्मिडि बनवासि इत्यादिषु विष्णोः नाम दृश्यते । तेषां कुलदेवस्य मधुकेश्वरस्य देवालयं निर्मितवन्तः । कुडलूरु, शिरसि, इत्यादिषु स्थानेषु लब्धाभिलेखानुगुणं विद्वज्जनानां कृते कृषिक्षेत्राणि दानरूपेण दीयन्ते स्म । जैनमतम् अपि कदम्बाः प्रोत्सहयन्ति स्म । बनवासी, बेळगावी, गोवा इत्यादिषु स्थानेषु अनेकानि जैनमन्दिराणि निरमात् । सहित्यकलानां विषये अतीव आदरयुताः कदम्ब राजानः राज्ञ्यः च देवालयेभ्यः विद्यासंस्थाभ्यः च भूभागं उदारं धनसाहाय्यम् अकुर्वन् । कन्नडभाषायाः आदिकविः पम्पः कृतिषु कदम्बानां स्तुतिं कृतवान् । आरङ्कुशविट्टोडं नेनेवुदेन्नमनं बनवासिदेशमम् इति उक्तिः कन्नडसारस्वतक्षेत्रे बहुप्रसिद्धा । कोऽपि अङ्कुशेन स्कुनाति चेदपि मम मनः बनवासिदेशं स्मरति इति अस्याः उक्तेः भावः ।

शिल्पकलायोगदानम्[सम्पादयतु]

कदम्बानां शिल्पकलविषये योगदानां गणनीयम् अस्ति । केषुचित् विषयेषु चालुक्यानां पल्लवानां च शैल्या सदृशा कदम्बशिल्पकला स्वस्य विशिष्टं लक्षणयुता अस्ति । एते कदम्बाः शातवाहनानां शैलीमपि अनुकृतवन्तः । कदम्बशिल्पकलायाः मूललक्षणं कदम्बशिखरम् इत्येव प्रथितं कलशान्तं श्रेणीकृतं मन्दिरगोपुरम् । इयं शैली अनेकशतमानानां पश्चात् दोड्डगद्दवळिप्रदेशस्य होय्सळनिर्मितमन्दिरेषु हम्पीप्रदेशस्य महाकूटदेवालयेषु च दृश्यते । केषुचिन्मन्दिरेषु शिलाजालन्द्राः अपि सन्ति । अग्रे आगतानां चालुक्यवंशीयानां, होय्सळवंशीयानां च शिल्पकलावैभवस्य मू्ला कदम्बानां शैली एव अभवत् । अद्यापि बनवासिग्रामे सुशोभितः मधुकेश्वरदेवालयः कदम्बानां वास्तुशास्त्रस्य सुन्दरदृष्टान्तः ।

कदम्बानां संस्मरणम्[सम्पादयतु]

कदम्बानां संस्मरणार्थं कर्णाटकसर्वकारः प्रतिवर्षं बनवासीग्रामे कदम्बोत्सवः इति कार्यक्रमम् आयोजयति । मयूरशर्मणः कथादृतं मयूर इति चलच्चित्रं क्रि.श. १९७०तमे काले एव दृश्यीकृतम् । क्रि.शा. २००५तमे वर्षे उत्तरकन्नदामण्डलस्य कारवारे लोकार्पितस्य भारतस्य अत्याधुनिकस्य सेनानौकाकेन्द्रस्य कदम्बः इत्येव नाम अङ्कितम् ।

"http://sa.wikipedia.org/w/index.php?title=कदम्बवंशः&oldid=233044" इत्यस्माद् पुनः प्राप्तिः