कुसुमकन्दरस्य राष्ट्रियोद्यानम्
| कुसुमकन्दरस्य राष्ट्रीयोद्यानम् | |
|---|---|
| विश्वपरम्परास्थानानि | |
|
|
|
| राष्ट्रम् पक्षः च | |
| प्रकारः | सांस्कृतिकम् |
| मानदण्डः | |
| अनुबन्धाः | ३३५ |
| क्षेत्रम् | एषियापेसिफिक् |
| निर्देशाङ्कः | vii, x |
| शिलाभिलेखस्य इतिहासः | |
| शिलाभिलेखाः | क्रि.श.१९८८ (द्वादशं सत्रम्) |
| * विश्वपरम्परावल्याम् अङ्कितानि नामानि । ^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम् |
|
कुसुमकन्दरराष्ट्रियोद्यानं (Valley of Flowers National Park) भारतस्य उत्तराखण्डराज्यस्य राष्ट्रियोद्यानम् । हिमालस्य पश्चिमभागस्य उन्नतप्रदेशे विद्यमानम् एतत् उद्यानं प्राकृर्तिकसौन्दर्यस्य स्थनम् । अत्र शताधिकजातीयानां कुसुमानां सहजोद्यानम् अस्ति । जीववैविध्यस्य आवासस्थाने कुसुमकन्दरोद्याने कृष्णभल्लूकाः, हिमचित्रकाः, पिङ्गलभल्लूकाः, निलमेषाः इत्यादयः निवसन्ति । उद्यानस्य उन्नतभूप्रदेशः निबिडं दरियुक्तं नास्ति । अस्य राष्ट्रियोद्यानस्य विस्तीरं ८७.५०व.की.मी. अस्ति । कुसुमकन्दरराष्ट्रियोद्यानं पश्चिमहिमालयस्य जीवसङ्कुलस्य प्रतिनिधिः अन्तारष्ट्रियस्तरे महत्वपूर्णम् अस्ति । अत्र विद्यमानेषु जीवसङ्कुलेषु बहवः विनाशपथे सन्ति । अत्र विद्यमानाः काश्चन जातयः उत्तराखाण्डराज्यस्य अन्यस्थानेषु नन्दादेवीराष्ट्रियोद्याने वा न दृश्यन्ते । हिमालयस्य अन्यप्रदेशेषु लभ्यमानौषधमूलानाम् अपक्षया अत्र अधिकानि लभ्यन्ते । सप्तजातीनां पक्षयः अत्र व्याप्ताः । कुसुमकन्दरोद्यानं क्रि.श. १९८२तमवर्षे राष्ट्रियोद्यानम् इति उद्घुष्टम् । उत्तराखण्डराज्यस्य गडवालप्रदेशेस्य उन्नतस्थने विद्यमानम् एतत् उद्यानं वर्षे बहुकालं गन्तुं न शक्नुमः । अस्य उद्यानस्य अत्युन्नतं स्थानं नाम ६७१९मी. उन्नतः गौरी पर्वतः । कुमकन्दरोद्याने न कापि जनवसतिः नास्ति । पालितपशूनां चारणं तत्र निषिद्धम् । जून् तः अक्टोबरपर्यन्तम् अयं प्रदेशः हिमेनावृतः भवति ।
अन्तर्विषयाः |
पर्वतारोहणम् [सम्पादयतु]
कुसुमकन्दरोद्यानं प्राप्तुं सामान्यतः १७कि.मी. दूरं पद्भ्यां चलनीयम् । समीपस्थं बृहत्पत्तनं नाम जोषिमठः । हरिद्वारतः देहरादून्तः च जोषिमठपर्यन्तं सुगममार्गः अस्ति । जोशिमठतः बदरीनाथगमनमार्गे गोविन्दघट्टः इति ग्रामः मिलति । ततः कुसुमकन्दरोद्यानं यावत् पादचलनेन गन्तव्यम् । गोविन्दघट्टतः १४कि.मी. पद्भ्यां गत्वा पश्चात् घङ्घारिया इति लघुग्रामं प्राप्य ततः ३कि.मी.अग्रे चलति चेत् उद्यानं दृश्यते । पर्वे एव अपरं मार्गम् अनुसरति चेत् सिख्खमतीयानां पावनक्षेत्रं हेमकुण्डसाहीबः इति स्थानां प्राप्नोति ।
वन्यप्राणिनः [सम्पादयतु]
कुसुमकन्दरराष्ट्रियोद्याने टाह्र , हिमचित्रकः , कस्तूरीमृगः , रक्तजम्बुकः , कपिः , भरल् , हिमालयस्य रक्तभल्लूकः , कृष्णभलूकः, पिकाल् इत्यादीनां प्राणिनां निवसः अस्ति । अनन्तजातीयाः पतङ्गाः सन्ति । अपिच हिमालयस्य गरुत्मान्, ग्रिफान्, गृध्रः, हिमकुक्कुटः, हिमकपोतः, इत्यदयः पक्षिणः अपि यथेष्टं सन्ति ।
सस्यवैविध्यम् [सम्पादयतु]
कुसुमकन्दरोद्याने असङ्ख्यविधानि पुष्पाणि प्ररोहन्ति । अल्फैन् , आर्खिड् , प्रैम्यूला , मेरिगोल्ड्, डैसी इत्यादीनि जातीयानि पुष्पाणि विकसन्ति । अयं प्रदेशः अल्फैन्बिर्च, रोडोडेण्ड्रान् जातीयै वृक्षैः पूरितः अस्ति ।
वीथिका [सम्पादयतु]
-
- कन्दरपुष्पाणि
बाह्यानुबन्धाः [सम्पादयतु]
- कन्दरकुसुमवाटिकायाः अधिकृतजालस्थानम् ।
- युनेस्को अधिकृतस्थानम् ।
- कुसुमकन्दरोद्यानस्य अधिकविषयः
- कुसुमकन्दरोद्यानस्य मार्गस्य सुन्दरदृश्यम् ।
- गड्वालमण्डलस्य विकासनिमे चारणस्य विषयः
- कुसुमकन्दरस्य राष्ट्रियोद्यानम्
- गुरुद्वारम्