कोडगुमण्डलम्
| कोडगुमण्डलम् | |||||||
| — district — | |||||||
|
|
|||||||
|
|
|||||||
| निर्देशाङ्काः | |||||||
| देशः | भारतम् | ||||||
| भूप्रदेशम् | Malnad | ||||||
| राज्यम् | कर्णाटकराज्यम् | ||||||
| विभागः | मैसूरुमण्डलम् | ||||||
| उपमण्डलानि | मडिकेरी, सोमवारपेटे, विराजपेट् | ||||||
| केन्द्रप्रदेशानि | मडिकेरी | ||||||
| Deputy Commissioner | K.R. Niranjan (2011) | ||||||
| सांसदक्षेत्रम् | Mysore Lok Sabha constituency | ||||||
| जनसङ्ख्या |
५,४८,५६१[१] (2001[update]) • १३४ /km2 ( /sq mi) |
||||||
| साक्षरता • Male |
78% • 83.7% |
||||||
| व्यावहारिकभाषा(ः) | कन्नडभाषा | ||||||
|---|---|---|---|---|---|---|---|
| Language(s) | कन्नडभाषा, Kodava takk, तुळु | ||||||
| समयवलयः | IST (UTC+05:30) | ||||||
| विस्तीर्णम् | ४,१०२ square kilometres ( sq mi)[१] | ||||||
| वायुमण्डलम् • तलस्पर्षी |
Tropical Wet (कॊप्पेन्) • २,७२५.५ mm (. in) |
||||||
|
सङ्केताः
|
|||||||
| जालस्थानम् | kodagu.nic.in | ||||||
कोडगुमण्डलं कर्णाटकराज्यस्य किञ्चन मण्डलम्। अस्य मण्डलस्य केन्द्रम् अस्ति मडिकेरी नगरम् ।कोडगु (कूर्ग इति आङ्ग्लभाशया उच्यते) कर्णाटकस्य पश्चिमाद्रिशृङ्खलायाः एकं सुन्दरं विशिष्ठं च मण्डलम् अस्ति । न्यूना जनस्ंख्या सर्वत्र सुन्दरपर्वतप्रदेशः हिमाच्छादितभूमिः निर्झराः, जलपाताः सर्वदृष्ट्या कोडगुप्रदेशः कर्णाटकस्य ’काश्मीरः’ इति कथयितुं योग्यः अस्ति । विश्वे सौन्दर्यार्थं सुप्रसिद्धेन स्काटलैण्डदेशेन सह तोलयितुं शक्यः। कावेरीनद्याः जन्मस्थानं प्रवहणभूमिः च । अतः कावेरीमण्डलम् इत्यपि ख्यातम् अस्ति । पूर्वं पृथकराज्यमासीत् । इदानीं कर्णाटकराज्ये विलीनस्य एतस्य मण्डलम् इति स्थानं कल्पितम् अस्ति । तथापि स्वकीयभाषा-संस्कृति-परम्पराणां वैशिष्ठ्यकारणतः एतस्य मण्डलस्य विशिष्ठं स्थानम् अस्ति । कन्नडभाषया कुडु नाम गिरिः इति अर्थः । गिरिकन्द्ररप्रदेशं एतं कोडगु इति कथितवन्तः । मडिकेरी (मर्केरा इति आग्ङ्गलभाषया वदन्ति) मण्डलस्य केन्द्रम् अस्ति ।
अन्तर्विषयाः |
[सम्पादयतु] विस्तीर्णता
४१०२ च.कि.मी.मिता ।
[सम्पादयतु] स्थानम्
अस्य मण्डलस्य पश्चिमदिशि दक्षिणकन्नडमण्डलम् , उत्तरदिशि हासनमण्डलं, पूर्वदिशि मैसूरुमण्डलं, दक्षिणदिशि केरळराज्यस्य कण्णूरुमण्डलं, च सन्ति । अस्मिन् मण्डलेपि प्रधानः उद्योगः काफीकृषिः एव । कोडगुमण्डलं पूर्वं ब्रिटिश्प्रभुत्वकाले राज्यम् एव आसीत् । कालान्तरेण ते एतत् मण्डलं मैसूरुराज्ये विलीनं कृतवन्तः ।
[सम्पादयतु] कृषिः
अस्मिन् मण्डलेपि प्रधानः उद्योगः काफीकृषिः एव । कोडगुमण्डले मरीचिकाः, एलाः, नारङ्गाः, शालिधान्यानि च प्रधानतया प्ररोहन्ति ।
[सम्पादयतु] उपमण्डलानि
अत्र मडिकेरी, विराजपेटे, सोमवारपेटे, इति उपमण्डलत्रयम् अस्ति ।
[सम्पादयतु] भाषा संस्कृतिः च
अत्रस्थान् जनान् कोडवाः इति कन्नडे कथयन्ति । प्रशासनभाषा कन्नड एव अस्ति किन्तु कोडवतक्क् अत्र प्रादेशिका भाषा अपि जनाः भाषन्ते । मलयाळं, अरेगन्नड, तुळु, रावुल इत्याद्याः भाषाः अत्र भाष्यन्ते । कोडवभाषा इति यदस्ति तस्याः लिपिः नास्ति एव । एते सर्वे जनाः हैन्दवकृषकाः सन्ति ।
[सम्पादयतु] प्रेक्षणीयस्थानानि
कोडगुमण्डले प्रधानतया पर्यटककेन्द्रत्रयम् अस्ति । मडिकेरीमध्ये अब्बिजलपातः, ओङ्कारेश्वरमन्दिरम्, राजगद्दुगे, तलकावेरी, सोमवारपेटे मध्ये कावेरीनिसर्गधाम, कोप्पप्रदेशे स्वर्णमयदेवालयः, वीरभूमिः, दुबारे, हारङ्गिजलाशयः, चिक्लिहोळे,होन्नम्मनकेरे, मल्लळ्ळि जलपातः, वीराजपेटेप्रदेशे नागरहोळे, इर्पुजलपातः, कुन्द टि एस्टेट् च दर्शनीयानि स्थानानि सन्ति ।
[सम्पादयतु] पवित्रस्थानानि
१. भागमण्डलम् -अस्य क्षेत्रस्य भगण्डेश्वरक्षेत्रम् इति प्रसिद्धिः अस्ति । भगण्डऋषिः अत्र तपः कृत्वा भगवतः अनुग्रहं प्राप्तवान् इति विश्वासः अस्ति। एतत् क्षेत्रम् दक्षिणप्रयागः इत्यपि कथयन्ति । अत्र कन्निका-कावेरी-सुजोतिनदीनाम् सङ्गमः अस्ति । अत्र स्नानकरणेन पुण्यसम्पादनं भवति । प्रमुखदेवालयः श्री भगण्डेश्वरदेवालयः । भगण्डमुनिना स्थापितं शिवलिङ्गम् अत्र विशिष्टम् अस्ति । प्रतिवर्षं तुलामासे तुलास्ंक्रमणसमये अत्र उत्सवः भवति । तदा बहवः यात्रिकाः गच्छन्ति ।
२.तलकावेरी- कावेरीनद्याः उगमस्थानं पवित्रक्षेत्रं च ब्रहमगिरिप्रदेशेऽस्ति । दक्षिणगङ्गा इति ख्याता कावेरी चौकाकारेण कासारस्य ब्रह्मकुण्डिकातः निश्चिते समये उद्भवति । तस्य ”‘तीर्थोद्भव’” इति नाम अस्ति । सूर्यस्य तुलाराशिप्रवेशसमयः एव तीर्थाद्भवमुहूर्तः अस्ति । अस्मिन् समये बहवः जनाः आगत्य तीर्थं नयन्ति । मार्गः मडिकेरीतः ६२ कि.मी. बेङ्गलूरुतः २८८ कि.मी । मैसूरुतः २५० कि.मी भागमण्डलतः २६ कि.मी
[सम्पादयतु] बाह्यसम्पर्कतन्तुः
- ↑ १.० १.१ Kodagu district Profile. DSERT. दिनांकः 11 January 2011.