जलियान्वालाबाग हत्याकाण्डः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(जलियान्वालाबाग् हत्याकाण्डम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
त्यागबलिदानस्य शिलास्मारकम्

जलियन्वालाबाग् हत्याकण्डः अथवा अमृतसरस्य हन्याकाण्डम् इति किञ्चित्त् दुष्कार्यं ब्रिटिष् अधिकारिभिः कृतम् । इयं घटना भारतीयेतिहासस्य पुटेषु ब्रिटिश् प्रशासनकालस्य कश्चित् महान् कलङ्कः । अमृतसरस्य जलियान् वालाबाग् इति उद्याने क्रि.श.१९१९तमे वर्षे एप्रिल् १३दिने ब्रिटिष् सैन्येन भारतीयसेनायाः पुरुषाः महिलाः च गोलिकाघातेन मारिताः । अधिकृतमूलानुसारं मृतानां सङ्ख्या ३७९ । किन्तु स्वायत्तमूलानुसारं सहस्राधिकाहः घातिताः । सहस्राधिकाः व्रणिताः अपि ।

बैसाखीसमावेशः[सम्पादयतु]

क्रि.श.१९१९तमे वर्षे एप्रिल्१३दिने दिने [[पञ्जाबराज्यम्|पञ्जाबराज्यस्य धार्मिकं सांस्कृतिकं केन्द्रेषु अन्यतमस्य अमृतसरस्य हृदयभागे स्थिते जलियन्वालाबाग् उद्याने । सहस्राधिकाः भारतीयाः अधिकतया पञ्जाबराज्यस्य नागरिकाः सामाविष्टाः आसन् । तत् दिनं सिख्खमतीयानां पवित्रदिनेषु अन्यतमं बैसाखी। तस्मिन् दिने सामूहिकरुपेण बैसाखीपर्व आचरितुम् अमृतसरनगरे सम्मेलनं बहुवर्षाणां तेषां सम्प्रदायः एव। सामूहमाध्यमस्य अनभिवृद्द्धेः कारणात् ग्रामीणप्रदेशात् तत्र आगतवतां सन्देशः न ज्ञायते स्म । तदा अमृतसरे पञ्च अथवा तदधिकसङ्ख्याकैः जनैः कुत्रापि गोष्ठीवा मेलनं वा न करणीयम् इति आङ्ग्लानां कठिणः शासननियमः आसीत् । अस्य ”मार्षन् नियमः” इति नाम कृतम् । तेषां प्रशासनदृष्ट्या एतत् बैसाखीमेलनं नियमस्य उल्लङ्घनम् अभवत् ।

हत्याकाण्डम्[सम्पादयतु]

९०सैनिकानां गणयुक्तं शस्त्रसज्जितं वायनद्वयं जालियन्वालाबाग् उद्यानं प्रविष्टम् । यन्त्रशघ्नीभिः युक्तं तत् वाहनं सङ्कीर्णप्रवेशद्वारे प्रवेष्टुम् अशक्यम् अभवत् । तस्य सेनागणस्य नियन्त्रकः ब्रिगेडियर् जनरल् रेगिनाल्ड् डैयर् इत्येषः उद्यानं प्रविष्ट्वान् । तदैव विना काश्चित् सूचनाः सहसा गोलिकावर्षम् कर्तुं सः सैनिकान् आदिष्टवान् । विशेषतः यत्र अधिकाः सिख्खभक्ताः सम्मिलिताः तत्रैव आक्रमणं भवतु इति आदिष्टवान् । सायं ५:१५समये आरब्धः गोलिकाप्रहारः पञ्चदशनिमेषाः यावत् सततं प्राचलत् । उद्यानस्य केवलं द्वारद्वयम् आसीत् । एकस्मिन् दारि सश्स्त्रः सेनागणः स्थितः । अन्यदेकं द्वारं दूरे आस्तीत् । किंकर्तव्यविमूढाः सिख्खभक्ताः उद्यानभित्तिम् उत्तीर्य गन्तुं प्रयत्नम् अकुर्वन् । किन्तु गोलिकाघातेन तत्रैव मृताः । केचन आत्मरक्षणार्थं कूपे कूर्दितवन्तः । किन्तु तत्रापि गोलिकाक्रमणम् अभवत् । अहत्य सहस्राधिकाः जनाः निर्दयया बिटिश् क्रूरसेनया व्यापादिताः । अस्याः घटनायाः अनन्तरदेनेषु भारतीयक्रान्तिकारिसेना समीचनम् प्रत्युत्तरम् अयच्छत् ।

हत्योत्तरसमीक्षा[सम्पादयतु]

जलियन्वालाबाग् हत्याकण्डस्य विषये समीक्षां कर्तुं हण्टर् आयोगं रचयितुं तदानीन्तनः भारतस्य राज्याङ्गकार्यदर्शी एड्विन् मोण्टगो इत्येषः निश्चितवान् । तस्य आयोगस्य पुरतः हत्याकाण्डस्य सेनाधिकारिणं मैकल् ओ ड्वयर् इत्येनम् आनीतवन्तः । तत्र सः स्वापराधम् अङ्गीकृतवान् । गोलिकाप्रयोगं न कृतवान् चेत् जनाः मां दृष्ट्वा भीरुः इति अपहास्यं कुर्वन्ति इति विचिन्त्य तथा कृतवान् इति स्वचिन्तनम् उक्तवान् ।

प्रतिक्रिया[सम्पादयतु]

क्रि.श.१९२०तमे वर्षे ”हण्टर् रिपोर्ट्” प्रकाशनस्य अनन्तरं सम्भूतस्य जनानाम् आक्रोशस्य कारणेन हत्याकर्तारं डैयर् अधिकारिणं निष्क्रियाधिकारिणाम् अवल्याम् अयोजयन् । सैनिकगणस्य नियत्रणाधिकारम् अपनीय तस्य पदवीम् कमाण्डर् इन् चीफ् तः कर्नल् पदे आनीतवन्तः । तदानीन्तनः कमाण्डर् इन् चीफ् उक्तवान् यत् इतः परं भारते डैयरस्य किमपि कायं न दीयते इति उद्घुष्टवान् । अचिरात् तं डैयरं अनारोग्य कारणेन इङ्ग्लेण्ड् प्रेषितवन्तः । किन्तु केचन आङ्ग्लाधिकारिणः केचन भारतीयसार्वजनिकाः पुनरेकां भारतीयक्रान्तिम् उपशमितवान् इति प्राशंसन् । लार्ड्स् सभा तं प्रशंस्य निर्ण्यम् अकरोत् । किन्तु ब्रिटिश् हौस् आफ् कामन्स् तस्य दुष्कृत्य अनिन्दत् । चर्चायां विन्सटन् चर्चिल् उक्तवान् यत् जलियन्वालाबाग् दुर्घटना एका असामान्या विस्मयकारिणी अमानुषा च । डैयर्स्य दुष्कृत्यं जगति सर्वे निन्दन्ति । ब्रिटिश् सर्वकारः तम् अधिकृतरुपेण पदभ्रष्टम् अकरोत् ।

भारतस्य प्रतिक्रिया[सम्पादयतु]

भारते अयं हत्याकाण्डः अतीव दुःखं आवेशं च अजनयत् । इयं घटना भारतस्य स्वातन्त्र्यसङ्ग्रामस्य वेगोत्कर्षकारिणी अभवत् । क्रि.श.१९२०तमे वर्षे महात्मा गान्ध्या आरब्धे असहकारसत्याग्रहे स्वप्रेरणया अत्युत्साहेन अत्यधिकाः जनां भागम् अवहन् । दुष्कृत्यं तिरस्कृत्य नोबेल् प्रशस्तिभूषितः रवीन्द्रनाथ ठाकुरः ब्रिटिष् सर्वकारेण दत्तं सर् इत्युपाधिं प्रत्यर्पितवान् ।

बलिदानस्मारकम्[सम्पादयतु]

भारतीयराष्ट्रियकाङ्ग्रेस्सङ्घटनेन स्वीकृतनिर्णयानुसारं घटनायः अस्मिन् उद्याने किञ्चित् स्मारकं निर्मातुं क्रि.श.१९२०तमे वर्षे काचित् विश्वस्थमण्डली रचिता । क्रि.श.१९२३तमे वर्षे एतदर्थं भूमिः क्रीता । निर्मितं स्मारकं क्रि.श.१९६१तमे वर्षे एप्रिल् १३दिने तदानीन्तनः प्रधानमन्त्रिणः जवाहरलाल नेहरुःमहोदयस्य अन्यनेतॄणा च उपस्थितौ राष्ट्रपतिः बाबु राजेन्द्रप्रसादः लोकार्पणं कृतवान् । अद्यापि उद्यानस्य भित्तौ गोलिकानिर्मितानि रन्ध्राणि सन्ति । अनेकजनानां मृत्युकूपमपि स्मारकत्वेन संरक्षितम् ।

प्रतीकारः[सम्पादयतु]

मार्च् १३दिने क्रि.श.१९४०तमे वर्षे सिख्खमतीयानां प्रतीकारक्रान्तिः आरब्धाः । हत्याकाण्डस्य साक्षाद्दर्शी व्रणितः उधाम सिंहः इति जनः मैकेल् ओ ड्वैर् इत्येनं लण्डन् नगरस्य क्याकस्टल् हाल् इति स्थाने हननं कृतवान् । मैकेल् ओ ड्वौर् इति जनः अस्य हत्याकण्डस्य सूत्रधारः इति वदन्ति । अस्य कृत्यस्य विषये निन्दा अपि श्रुता , अनुपमा प्रशंसा अपि श्रुता ।