द्राविडीयभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
द्राविडीय
द्राविड़ीय वा द्राविडिक
भौगोलिकविस्तारः दक्षिणजम्बुद्वीपः आग्नेयजम्बुद्वीपः च, मुख्यतः दक्षिणभारतम्, ईशान्यश्रीलङ्का, पाकिस्थानं
भाषायाः श्रेणीकरणम् विश्वस्य प्राथमिक-भाषाकुटुम्बानां अन्यतमम्
आदि-भाषाः आद्यद्राविडीय
उपश्रेण्यः
उत्तर
केन्द्रीय
दक्षिणकेन्द्रीय
दक्षिण
आइसो ६३९-२६३९-५: dra

द्राविडीयभाषाणां वितरणम्

द्राविडीयभाषाः वा द्राविड़ीयभाषाः (अथवा कदाचित् द्राविडिकभाषाः[१]) मुख्यतया दक्षिणभारते, ईशान्यश्रीलङ्कायां, नैर्ऋत्यपाकिस्थानदेशे २५ कोटिः (250 मिलियन्) जनानां भाषितानां भाषाणां कुटुम्बः अस्ति ।[२] औपनिवेशिकयुगात् आरभ्य, मारिषसदेशे, ब्रह्मादेशे (म्यान्मारदेशे), सिंहपुरदेशे (सिङ्गापुरदेशे), मलेशियादेशे, इण्डोनेशियादेशे, कलिङ्गद्वीपे (फिलीपीन्सदेशे), संयुक्ताधिराज्ये, आस्ट्रेलियादेशे, फ्रान्सदेशे, केनडादेशे, शर्मण्यदेशे (जर्मनीदेशे), दक्षिण-आफ्रिकादेशे, संयुक्तराज्येषु च लघु किन्तु महत्त्वपूर्णाः आप्रवासीसमुदायाः अभवन् ।

वर्गीकरणम्[सम्पादयतु]

दक्षिण[सम्पादयतु]

दक्षिण-केन्द्रीय[सम्पादयतु]

केन्द्रीय[सम्पादयतु]

उत्तर[सम्पादयतु]

अवर्गीकृताः[सम्पादयतु]

  • अवर्गीकृताः द्राविडीयभाषाः (एथ्नोलॉग्-अनुसारम्) - अल्लर्, बाजिगर्, भारिया, मलङ्कुरवन्, विषावन्
  • अवर्गीकृताः दक्षिणद्राविडीयभाषाः (एथ्नोलॉग्-अनुसारम्) - मल मलैसर्, मलैसर्, थचनदन्, उल्लतन्, कलनदि, कुम्बरन्, कुण्डुवडि, कुरिचिया, अट्टपडि कुरुम्ब, मुदुगा, पाथिया, वयनाडु चेट्टि, पट्टपु

वितरणम्[सम्पादयतु]

भाषानुसारं द्राविडीयभाषाणां वक्तारः

  तेलुगु (30.5%)
  तमिळ् (26%)
  कन्नड (22.4%)
  तुळु (0.7%)
  कुडुख (0.8%)
  Others (2.3%)

१९८१ तमे वर्षात् आरभ्य भारतस्य जनगणनायां केवलं १०,००० तः अधिकाः वक्तारः युक्ताः भाषाः एव ज्ञापिताः, यत्र १७ द्राविडीयभाषाः अपि सन्ति | १९८१ तमे वर्षे एतेषु भारतस्य जनसङ्ख्यायाः प्रायः २४% भागः आसीत् ।[३]

२००१ तमे वर्षे जनगणनायां तेषु २१.४ कोटिः (214 मिलियन्) जनाः आसन्, ये भारतस्य कुलजनसङ्ख्यायाः १०२ कोटिः (1.02 बिलियन्) जनसङ्ख्यायाः २१% भागः आसीत् ।[४] तदतिरिक्तं भारतात् बहिः बृहत्तमः द्रविडीयभाषिणां समूहः श्रीलङ्कादेशे तमिळ्भाषिणां सङ्ख्या प्रायः ४७ लक्षं (4.7 मिलियन्) भवति । द्रविडीयभाषाभाषिणां कुलसङ्ख्या २२.७ कोटि- (227 मिलियन्) जनानाम् अस्ति, यत् भारतीय उपमहाद्वीपस्य जनसङ्ख्यायाः १३% परिमितम् अस्ति ।

द्राविडीयभाषानां बृहत्तमः समूहः दक्षिणद्राविडीयः अस्ति, यत्र प्रायः १५ कोटि-(150 मिलियन्) भाषिणः सन्ति । तमिळ्, कन्नड, मलयाळभाषाः भाषिणः ९८% भागं भवन्ति, यत्र क्रमशः ७.५ कोटयः (75 मिलियन्), ४.४ कोटयः (44 मिलियन्), ३.७ कोटयः (37 मिलियन्) देशीभाषिणः सन्ति ।

तदनन्तरं बृहत्तमं दक्षिण-केन्द्रीयशाखा अस्ति, यत्र ७.८ कोटयः (78 मिलियन्) देशीभाषिणः सन्ति, येषु बहुसङ्ख्यकाः तेलुगुभाषिणः सन्ति । येषां प्रथमभाषा तेलुगुभाषा नास्ति तेषां सह तेलुगुभाषाभाषिणां कुलसङ्ख्या ८.४ कोटयः (84 मिलियन) जनानाम् अस्ति । अस्मिन् शाखायां मध्यभारते भाष्यमाणा आदिवासीभाषा गोण्डी अपि अन्तर्भवति ।

द्वितीया लघुशाखा उत्तरशाखा अस्ति, यत्र प्रायः ६३ लक्षं (6.3 मिलियन्) वक्तारः सन्ति । एषः एव उपसमूहः अस्ति यस्य भाषा पाकिस्थानदेशे भाष्यते — ब्राहुईभाषा

लघुतमा शाखा केन्द्रीयशाखा अस्ति, यत्र केवलं प्रायः लक्षद्वयं (200,000) वक्तारः सन्ति । एताः भाषाः अधिकतया आदिवासीः सन्ति, मध्यभारते भाष्यन्ते च ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Definition of Dravidic | Dictionary.com" [द्राविडिक इत्यस्य परिभाषा]. www.dictionary.com (in आङ्ग्ल). 
  2. "Overview of Dravidian languages [द्राविडीयभाषाणां अवलोकनम्]". Encyclopædia Britannica. https://www.britannica.com/topic/Dravidian-languages. Retrieved ४ जुलाई २०१८. 
  3. Ishtiaq, M. (१९९९). Language Shifts Among the Scheduled Tribes in India: A Geographical Study [भारते अनुसूचितजनजातीनां मध्ये भाषापरिवर्तनम् - एकं भौगोलिकाध्ययनम्]. देहली: मोतिलाल बनारसीदास प्रकाशनः. pp. 26–27. ISBN 978-81-208-1617-6. आह्रियत ७ सितम्बर २०१२. 
  4. "Abstract of speakers' strength of languages and mother tongues –2001" [भाषाभाषिणस्य मातृभाषाभाषिणस्य च बलस्य सारम् - २००१]. जनगणना २००१. महानिबन्धकस्य जनगणनायुक्तस्य च कार्यालयं, भारतम्. आह्रियत १४ अक्तुबर २०१७. 
"https://sa.wikipedia.org/w/index.php?title=द्राविडीयभाषाः&oldid=469052" इत्यस्माद् प्रतिप्राप्तम्