सामग्री पर जाएँ

पुणेमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पुणेमण्डलम्

Pune District

पुणे जिल्हा
मण्डलम्
महाराष्ट्रराज्ये पुणेमण्डलम्
महाराष्ट्रराज्ये पुणेमण्डलम्
देशः  India
जिल्हा पुणेमण्डलम्
उपमण्डलानि पुणे, जुन्नर, आम्बेगाव, खेड, मावळ, मुळशी, हवेली, वेल्हे, भोर, पुरन्दर, बारामती, इन्दापूर, दौण्ड, शिरूर
विस्तारः १५,६४३ च.कि.मी.
जनसङ्ख्या(२०११) ९४,२९,४०८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://pune.nic.in
यात्रासु जनाः
पुणे विद्यापीठम्
लोहगड-दुर्गः
लोहगड-दुर्गः
पुणेमण्डले एवं बहवः प्रेक्षणीयाः जलबन्धाः सन्ति
जेजुरी मन्दिरम्
जेजुरी मन्दिरम्
कार्ले चैत्यगृहम्

पुणेमण्डलं (मराठी: पुणे जिल्हा, आङ्ग्ल: Pune District) महाराष्ट्रराज्ये पश्चिममहाराष्ट्रविभागे स्थितं मण्डलम् अस्ति । अस्य मण्डलस्यकेन्द्रम् अस्ति पुणे इत्येतन्नगरम् | छत्रपति-शिवाजी-महाराजस्य तथा तस्य मातुः जिजाऊ इत्यस्याः चरणस्पर्शेन मण्डलस्य भूमिः पवित्रा सञ्जाता । शिवाजीमहाराजस्यानन्तरम् अत्र पेशवे-आधिपत्यम् आसीत् । एवम् अस्य मण्डलस्य इतिहासः अतीव स्फूर्तिदायकः ।

भौगोलिकम्

[सम्पादयतु]

पुणेमण्डलस्य विस्तारः १५,६४३ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि सोलापुरमण्डलं, पश्चिमदिशि रायगडमण्डलम्, उत्तरदिशि ठाणेमण्डलम्, अहमदनगरमण्डलं च, दक्षिणदिशि सातारामण्डलम् अस्ति । महाराष्ट्रराज्यस्य ५.१०% क्षेत्रं पुणेमण्डलेन व्यापृतम् अस्ति । पश्चिममहाराष्ट्रे सह्याद्री-आवल्याः समीपे पुणेमण्डलं त्रिविभागेषु विभक्तम् अस्ति । ते च विभागाः - ‘घाटमाथा', 'मावळ', 'देश’ इति । अस्मिन् मण्डले सामान्यतः ६५० मि.मी.मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले भीमा नदी, माण्डवी, कुकडी, मीना, घोड, इन्द्रायणी, पवना, मुळा, मुठा, कऱ्हा, नीरा इत्येताः प्रमुखनद्यः प्रवहन्ति ।

कृष्युत्पादनम्

[सम्पादयतु]

'बाजरी', तण्डुलः, गोधूमः, चणकः, यवनालः(ज्वारी) इत्येतानि प्रमुखसस्योत्पादनानि सन्ति । तैः सह इक्षुः (बारामती-भोर-इन्दापुर-उपमण्डलेषु), द्राक्षाफलानि (बारामती-इन्दापुर-उपमण्डलेषु) अपि अत्र उत्पाद्यन्ते । ‘आम्बेमोहोर’ इति सुगन्धि-तण्डुलः भोर-उपमण्डले उत्पाद्यते, स च महाराष्ट्रे प्रसिद्धः । मावळविभागे उत्पाद्यमानः ‘इन्द्रायणी’तण्डुलः अपि आमहाराष्ट्रं प्रसिद्धः ।

जनसङ्ख्या

[सम्पादयतु]

पुणेमण्डलस्य जनसङ्ख्या(२०११) ९४,२९,४०८ अस्ति । अस्मिन् मण्डले ४९,२४,१०५ पुरूषाः, ४५,०५,३०३ महिलाः च निवसन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे ४६१ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ४६१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३०.३७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१९ अस्ति । अत्र साक्षरता ८६.१५% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले चतुर्दश उपमण्डलानि सन्ति । तानि-

  1. पुणे
  2. जुन्नर
  3. आम्बेगाव
  4. खेड
  5. मावळ
  6. मुळशी
  7. हवेली
  8. वेल्हे
  9. भोर
  10. पुरन्दर
  11. बारामती
  12. इन्दापूर
  13. दौण्ड
  14. शिरूर

लोकजीवनम्

[सम्पादयतु]

पश्चिममहाराष्ट्रविभागलोकजीवनम् अत्र दृश्यते । उद्योगक्षेत्रे एशियाखण्डस्य प्रथमा महानगरपालिका इति प्रसिद्धा पिम्परी-चिञ्चवड अस्मिन्नेव मण्डले तिष्ठति । शिरूर-जुन्नर-आम्बेगाव-वेल्हे इत्यादयः ग्रामाः अपि अस्मिन्नेव मण्डले अन्तर्भवन्ति । एवं लोकजीवने वैविध्यं दृश्यते ।
मण्डलेऽस्मिन् कृषिः, उद्यमाः, सेवाक्षेत्रं (Service sector to boost economy) च अर्थव्यवस्थादृष्ट्या महत्त्वपूर्णम् । पुणेनगर-परिसरे मुम्बई-पुणे-राष्ट्रियमहामार्ग-निर्माणानन्तरम् उद्योगक्षेत्रे बहुप्रगतिः जाता । अस्याः प्रगतेः प्रभावः जनानां व्यवहारे, वेशभूषायामपि दृश्यते । यद्यपि नगरेषु जनाः पाश्चिमात्यसंस्कृत्यनुसरणं कुर्वन्ति । तथापि केषुचन नगरेषु पारम्परिकता अपि द्रष्टुं लभ्यते । एतेषु पुणेनगरम् अन्यतमम् । नगरेषु गणेशोत्सवः, शिवजयन्तिः, दीपावलिः इत्येतान् उत्सवान् जनाः आचरन्ति ।
ग्रामीणजनाः कृषि-पशुपालन-व्यवसायेषु रताः । ग्रामेषु बैलपोळा, दीपावलिः, गणेशोत्सवः, शिवजयन्त्युत्सवः इत्येतान् उत्सवान् जनाः आचरन्ति । एतान् उत्सवान् विहाय जनाः देहू, आळन्दी, जेजुरी इत्यत्र याः यात्राः प्रचलन्ति, तासु अपि सहभागिनः भवन्ति । अस्मिन् मण्डले अनुसूचितजनजातिषु ‘महादेव कोळी/ठाकूर’-जातिः अधिका दृश्यते । तेषां विशिष्टा संस्कृतिः आम्बेगाव, मावळ, खेड, जुन्नर इत्येतेषु उपमण्डलेषु द्रष्टुम् उपलभ्यते । शिक्षणक्षेत्रेऽपि इदं मण्डलम् अग्रगण्यम् । ‘विद्येचे माहेरघर' अर्थात् विद्यास्रोतः इति पुणेनगरं प्रसिद्धम् । तदनुरूपं वातावरणं मण्डलेऽस्मिन् दृश्यते एव ।

वीक्षणीयस्थलानि

[सम्पादयतु]

मण्डलेऽस्मिन् बहूनि ऐतिहासिक-धार्मिक-सांस्कृतिकदृष्ट्या महत्त्वपूर्णानि वीक्षणीयस्थलानि सन्ति ।

तीर्थस्थलानि -

  • आळन्दी (सन्त-ज्ञानेश्वरस्य समाधिस्थानम्)
  • देहू (सन्त तुकारामस्य ग्रामः)
  • भीमाशङ्कर-मन्दिरं, खेड
  • श्री-खण्डोबा-मन्दिरं, जेजुरी

ऐतिहासिकस्थलानि -

पुणेनगरे -

  • शनिवारवाडा
  • लाल महाल
  • पर्वती
  • शिन्दे छत्री, विश्रामबाग वाडा, आगाखान पॅलेस, दिनकर केळकर वस्तुसङ्ग्रहालयः

अन्यानि वीक्षणीयस्थलानि -

  • खेड -उपमण्डले - चासकमान-जलबन्धः, राजगुरुनगर(हुतात्मा-राजगुरू इत्यस्य जन्मस्थानम्), भुईकोटः
  • मावळ-प्रदेशे - लोणावळा, खण्डाळा, राजमाची, कार्ले-चैत्यगृहम्, भाजे-चैत्यगृहम्, भुशी-जलबन्धः
  • बारामती-उपमण्डले - ‘मोरगावचा मयूरेश्वर’ गणपतिमन्दिरम्
  • पुरन्दर-उपमण्डले - जेजुरी, नारायणपुर, सासवड(सन्त-सोपान-समाधिस्थानम्), लोहगड-दुर्गः
  • शिरुर-उपमण्डले - तुळापुर(सम्भाजीमहाराजस्य समाधिस्थानम्)
  • वेल्हे-उपमण्डले - राजगड-दुर्गः, तोरणा-दुर्गः
  • आम्बेगाव-उपमण्डले - डिम्भे-जलबन्धः
  • भोर-उपमण्डले - बनेश्वरमन्दिरम्
  • दौण्ड-उपमण्डले - बहादुरगड, मालठण, कुरकुम्भ
  • जुन्नर-उपमण्डले - शिवनेरी-दुर्गः (शिवाजीमहाराजस्य जन्मस्थानम्), ओझर-गणपतिमन्दिरम्

पुणेनगरे -

  • कसबा गणपतिः, चतुःशृङ्गी इत्यस्थं मातामन्दिरं, सिंहगड-दुर्गः, खडकवासला-जलबन्धः, पानशेत-जलबन्धः, माळशेज पर्वतमार्गः, ताम्हिणी पर्वतमार्गः, भुलेश्वरमन्दिरं, सारसबाग-उद्यानम्, ओशो-उद्यानं, भाटघर-जलबन्धः, मुळशी-जलबन्धः ।

पुणेनगरस्य संस्कृतिः

[सम्पादयतु]

पुण्यनगरं महाराष्ट्रस्य सांस्कृतिकराजधानी इति विख्यातम् अस्ति। अस्य नगरस्य संस्कृति: अत्यन्तं समृद्धा विविधाश्च अस्ति। एतत् नगरं ऐतिहासिक महत्वेन, शैक्षिक संस्थाभिः, प्रगतिशीलदृष्ट्या च प्रसिद्धम् अस्ति, यत्र परम्परा आधुनिकेन सह सम्यक् मिलति।

ऐतिहासिकं पृष्ठभूमिः

[सम्पादयतु]

पुणेनगरस्य सांस्कृतिकं स्वरूपं अष्टादशशतके मराठासाम्राज्यस्य पेशवानां राजधानीरूपेण अस्य महत्त्वेन प्रभावितम् अस्ति। एतस्मिन् काले कलानां, साहित्यस्य, वास्तुकलायाः च उत्कर्षः अभवत्, यस्य प्रभावः नगरस्य सांस्कृतिके परिदृश्ये अद्यापि दृश्यते।

शिक्षा बौद्धिकता च

[सम्पादयतु]

पुणेनगरं "पूर्वस्य ऑक्सफोर्ड" इति नाम्ना अपि ज्ञायते, यतः अत्र अनेकानि महाविद्यालयानि विश्वविद्यालयानि च सन्ति। एतत् शैक्षिकं वातावरणं नगरस्य अनुसन्धानस्य नवप्रवर्तनस्य च केन्द्ररूपेण ख्यातिं वर्धयति।

कलाः साहित्यं च

[सम्पादयतु]

पुणेनगरे शास्त्रीयसङ्गीतस्य, नृत्यस्य, रङ्गमञ्चस्य च सजीवा परम्परा विद्यते। अत्र नियमितरूपेण सांस्कृतिककार्यक्रमाः उत्सवाः च आयोज्यन्ते। मराठीसाहित्यस्य मूलानि पुणेनगरे गम्भीराणि सन्ति, अनेके प्रसिद्धाः लेखकाः कवयः च अस्मात् नगरात् उद्भूताः।

उत्सवाः समारोहाः च

[सम्पादयतु]

नगरे विविधाः उत्सवाः मनुष्यन्ते, ये अस्य जनसङ्ख्यायाः वैविध्यं प्रदर्शयन्ति। केचन प्रमुखाः उत्सवाः -

  • गणेशचतुर्थी: महान् उत्सवः यत्र नगरे विशालाः गणेशप्रतिमाः स्थाप्यन्ते।
  • सवाई गन्धर्वसङ्गीतोत्सवः: वार्षिकः भारतीयशास्त्रीयसङ्गीतोत्सवः।
  • पुणेअन्तर्राष्ट्रीयचलच्चित्रोत्सवः: राष्ट्रीयान्तर्राष्ट्रीयचलच्चित्राणां प्रदर्शनम्।

भोजनसंस्कृतिः

[सम्पादयतु]

पुणेनगरस्य पाकसंस्कृतिः पारम्परिकमहाराष्ट्रीयव्यञ्जनानां बहुसांस्कृतिकजनसङ्ख्यायाः विविधप्रभावाणां च मिश्रणम् अस्ति। कानिचन स्थानीयविशेषव्यञ्जनानि: -

  • वडापाव: लोकप्रियं वीथिभोजनम्
  • मिसलपाव: तीक्ष्णं व्यञ्जनं यत् क्वथितमसूरैः निर्मीयते
  • पुणेविशिष्टशैल्याः भाकरवडी: तीक्ष्णः मधुरश्च अल्पाहारः

आधुनिकाः प्रभावाः

[सम्पादयतु]

पारम्परिकमूलानां संरक्षणेन सह पुणेनगरम् आधुनिकसांस्कृतिकांशान् अपि स्वीकृतवत्। अत्र सूचनाप्रौद्योगिक्याः उद्योगः समृद्धः अस्ति, यः विविधान् कर्मचारिणः अन्तर्राष्ट्रीयप्रभावान् च आनीतवान्। एतेन कारणेन भोजनालयसंस्कृतेः, सूक्ष्ममद्यनिर्माणशालानां, सजीवरात्रिजीवनस्य च वृद्धिः जाता।

क्रीडाः

[सम्पादयतु]

भारतस्य अधिकांशभागवत् पुणेनगरे अपि क्रिकेट् अतीव लोकप्रियः। नगरे बैडमिण्टन् टेनिस् इत्येतयोः अपि दृढा परम्परा अस्ति, अनेके राष्ट्रीयस्तरीयाः क्रीडकाः अत्र उत्पन्नाः।

स्मारकानि वास्तुकला च

[सम्पादयतु]

पुणेनगरस्य वास्तुकला अस्य ऐतिहासिकं सांस्कृतिकं च यात्रां प्रतिबिम्बयति। केचन प्रसिद्धाः स्थलानि: -

  • शनिवारवाडा: पेशवाशासकानां ऐतिहासिकं निवासस्थानम्
  • आगाखानप्रासादः: भारतस्य स्वातन्त्र्यसङ्ग्रामस्य महत्त्वपूर्णं स्थलम्
  • ओशोअन्तर्राष्ट्रीयध्यानकेन्द्रम्: आध्यात्मिकं केन्द्रं यत् विश्वस्य सर्वेभ्यः भागेभ्यः आगतान् दर्शकान् आकर्षति


ऐतिहासिकमहत्त्वस्य, शैक्षिकप्रसिद्धेः, कलात्मकसमृद्धेः, आधुनिकविकासस्य च एतत् मिश्रणं पुणेनगरस्य संस्कृतिं विशिष्टां सजीवां च करोति।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=पुणेमण्डलम्&oldid=489385" इत्यस्माद् प्रतिप्राप्तम्