टीकमगढमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
टीकमगढमण्डलम्

Tikamgarh District
टीकमगढ जिला
टीकमगढमण्डलम्
टीकमगढमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे टीकमगढमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे टीकमगढमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि टीकमगढ, बलदेवगढ, खडगपुर, पालेडा, जतारा, मोहनगढ, पृथ्वीपुर, ओरछा, निवाडी
विस्तारः ५,०४८ च. कि. मी.
जनसङ्ख्या (२०११) १४,४५,१६६
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६१.४३%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४५%
Website http://www.tikamgarh.nic.in/

टीकमगढमण्डलम् ( /ˈtkəməɡədhəməndələm/) (हिन्दी: टीकमगढ़ जिला, आङ्ग्ल: Tikamgarh district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति टीकमगढ इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

टीकमगढमण्डलस्य विस्तारः ५,०४८ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छतरपुरमण्डलं, पश्चिमे उत्तरप्रदेशराज्यम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे छतरपुरमण्डलम् अस्ति । अस्मिन् मण्डले बेटवानदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं टीकमगढमण्डलस्य जनसङ्ख्या १४,४५,१६६ अस्ति । अत्र ७,६०,३५५ पुरुषाः, ६,८४,८११ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २८६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २८६ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.१३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०१ अस्ति । अत्र साक्षरता ६१.४३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- टीकमगढ, बलदेवगढ, खडगपुर, पालेडा, जतारा, मोहनगढ, पृथ्वीपुर, ओरछा, निवाडी ।

वीक्षणीयस्थलानि[सम्पादयतु]

अचरू-मातामन्दिरम्[सम्पादयतु]

अचरू-मातामन्दिरं पृथ्वीपुर-उपमण्डले स्थितम् अस्ति । इदं मन्दिरम् एकस्मिन् उपशैले स्थितमस्ति । अस्मिन् अचरू-मातुः मूर्तिः अस्ति । अस्मिन् मन्दिरे एकः जलकुण्डः अस्ति । अस्य मन्दिरस्य चमत्कारः अस्ति यत् कुण्डे सदैव जलं भवति अपि च कुण्डः कदापि शुष्कः न भवति । जनाः प्रतिवर्षं ’मार्च-अप्रैल’ इत्येतयोः मासयोः नवरात्रिपर्व आमनन्ति ।

ओरछा-नगरम्[सम्पादयतु]

ओरछा-नगरं निवडी-उपमण्डलात् १३ कि. मी. दूरे अस्ति । इदं नगरं बेटवानदीनद्याः तटे स्थितम् अस्ति । इदं स्थलं ई. स. १५३१ तमे वर्षे राज्ञा रुद्रप्रतापसिंहेन अन्वेषितम् । इदं हिन्दुजनानां धार्मिकं स्थलम् अस्ति । अत्र धार्मिकी सांस्कृतिकी च परम्परा अस्ति येन कारणेन इदं स्थलम् प्रसिद्धम् अस्ति ।

पपौरा जी[सम्पादयतु]

पपौरा जी टीकमगढ-नगरात् ५ कि. मी. दूरे अस्ति । अत्र बहूनि जैनमन्दिराणि सन्ति । इदं जैनानां एकं केन्द्रम् अस्ति । बहवः श्रद्धालवः जैनाः दर्शनार्थं तत्र गच्छन्ति । अस्मिन् मण्डले अहर जी, बलदेवगढ, जतारा, कुण्डेश्वर, मदखेडा, निवारी, पालेरा, पृथ्वीपुर, टीकमगढ, उमरी इत्येतानि प्रमुखानि वीक्षणीयस्थालानि अपि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.tikamgarh.nic.in/ Archived २००९-०१-२९ at the Wayback Machine
http://www.census2011.co.in/census/district/291-tikamgarh.html

"https://sa.wikipedia.org/w/index.php?title=टीकमगढमण्डलम्&oldid=480376" इत्यस्माद् प्रतिप्राप्तम्