सामग्री पर जाएँ

औरङ्गाबादमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(औरंगाबाद् मण्डलः , महाराष्ट्र इत्यस्मात् पुनर्निर्दिष्टम्)
सम्भाजीनगरमण्डलम्

संभाजीनगर जिल्हा

औरङ्गाबाद्-मण्डलम्
छत्रपतिसम्भाजीमहाराजनगरमण्डलम्
महाराष्ट्रराज्ये सम्भाजीनगरमण्डलम्
महाराष्ट्रराज्ये सम्भाजीनगरमण्डलम्
देशः भारतम् भारतम्
राज्यम् महाराष्ट्रम्
विभागः मराठवाडा (औरङ्गाबाद्)
मख्यालयः सम्भाजीनगरम् (औरङ्गाबाद्)
उपमण्डलानि कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, सम्भाजीनगरम् (औरङ्गाबाद्), खुलताबाद्, वैजापुरं, गङ्गापुरं, पैठण
Government
  Body औरङ्गाबाद्-मण्डलपरिषद्
  मण्डलसङ्गाहकः श्री सुनिलचवणः
Area
  मण्डलम् १०,१०० km
Population
 (२०११)
  मण्डलम् ३७,०१,२८२
  Density ३७०/km
  Urban
३७.५३%
जनसङ्ख्याशास्त्रम्
  साक्षरता ६१.१५%
  लिङ्गानुपातः ९२४
Time zone UTC+५:३० (भा॰मा॰स॰)
Website http://aurangabad.nic.in/
बीबी का मक्बरा
देवगिरी कोटः
देवगिरी कोटः
वेरूळचित्रगृहासु एकं मन्दिरम्
लयनेषु किञ्चन भित्तिचित्रम्
प्रसिद्धा-येवलापैठणी-शाटिकायाः निर्माणकार्यम् ।
वेरुळ-कैलासमन्दिरम्

सम्भाजीनगरमण्डलं (मराठी: सम्भाजीनगर जिल्हा, आङ्ग्ल: Sambhajinagara District), आधिकारिकरूपेण छत्रपतिसम्भाजीमहाराजनगरमण्डलम् (मराठी: छत्रपती संभाजी महाराज नगर जिल्हा); पुरातनं नाम औरङ्गाबाद्-मण्डलम् (Aurangabad district), महाराष्ट्रराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् सम्भाजीनगरम् (औरङ्गाबाद्) इत्येतन्नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगत्प्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वपरम्परास्थाने (World Heritage Sites) स्त: ।

भौगोलिकम्

[सम्पादयतु]

सम्भाजीनगरमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि जालनामण्डलं, पश्चिमदिशि नाशिकमण्डलम्, उत्तरदिशि जळगावमण्डलं, दक्षिणदिशि अहमदनगरमण्डलम् अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्तः । ते गोदावरी नदी, तापी च । अन्तुर, सतोण्डा, अब्बासगड इत्यादयः पर्वतावल्यः सन्ति ।

कृषिः उद्यमाश्च

[सम्पादयतु]

अत्रस्थाः प्रायः ७०% जनाः कृषिकार्यं कुर्वन्ति । यवनालः(ज्वारी), कार्पासः, बाजरी, तण्डुलः, गोधूमः, इक्षुः, तमाखुः, पलाण्डुः, जम्बीरं, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पासः इत्येताभ्यां सम्बद्धाः उद्यमाः, वनस्पतीजन्यतैलोत्पादनोद्यमाः च सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमाः सन्ति अत्र । 'पैठणी' नामकः शाटिकाप्रकारः आमहारष्ट्रं प्रसिद्धः । 'पैठणी'निर्माणोद्यमाः सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमाः, 'बिअर्', 'व्हिस्की' पेयप्रकारनिर्माणोद्यमाः अत्र प्रचलन्ति ।

जनसङ्ख्या

[सम्पादयतु]

सम्भाजीनगरमण्डलस्य जनसङ्ख्या (२००१) २८,९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति । ५६.२३% जनाः ग्रामेषु निवसन्ति ।

ऐतिहासिकं किञ्चित्

[सम्पादयतु]

एवं हि कथ्यते यत् औरङ्गाबादनगरं मलिक अम्बर इत्यनेन आवासितम् । परं अस्य मण्डलपरिसरस्य इतिहासः तु पुरातनः । अत्र सातवाहन-वौस्तोक-चालुक्य-राष्ट्रकूट-यादवराजानाम् आधिपत्यमासीत् अत्र । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां स्थापत्यकलानुगुणं नैकानां भवनानां निर्माणं कृतम् इति ज्ञायते । बहूनि ऐतिहासिकभवनानि सन्त्यत्र ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

१. कन्नड

२. सोयगाव

३. सिल्लोड

४. फुलम्ब्री

५. सम्भाजीनगरम् (औरङ्गाबाद्)

६. खुलताबाद

७. वैजापुर

८. गङ्गापुर

९. पैठण

वीक्षणीयस्थलानि

[सम्पादयतु]

सम्भाजीनगरमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -

  • सम्भाजीनगर (औरङ्गाबाद्)-तः ९९ कि.मी. दूरे सह्यावल्याम् अजिण्ठा ग्रामः अस्ति । अत्रस्थेषु ३० गह्वरेषु बौद्धभिक्षूणां निवास-अध्ययनस्थानानि अर्थात् चैत्याः तक्षिताः सन्ति । गह्वरेषु भित्तिकासु चित्राणि आरेखितानि सन्ति । बहूनि सुन्दराणि तक्षितानि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहाः, मन्दिराणि च सन्त्यत्र । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्रायः ।
  • वेरूळ इति ग्रामः सम्भाजीनगर (औरङ्गाबाद्)-तः ३० कि.मी. यावत् दूरे अस्ति । ३४ लयनानां समूहः अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्मिन्नेव लयनसमूहे अन्तर्भवति ।

एतेषां लयनानां वैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलाभ्यः निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव । तथापि पाषाणशिल्पिभिः महता कौशलेन एतानि लयनानि कृतानि सन्ति । अतः बहवः पर्यटकाः आकर्षिताः भवन्ति ।

  • देवगिरी तथा दौलताबाद् भुईकोट
  • खुलताबाद - औरङ्गजेब इत्यस्य 'कबर'-समाधिस्थलम्
  • बीबी का मक्बरा
  • घृष्णेश्वर-मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम्
  • पैठणनामकं सन्त-एकनाथस्य जन्मस्थलम्
  • जायकवाडी-जलबन्धः
  • औरङ्गाबाद-गह्वराः
  • भोसले गढी
  • चान्द मिनार

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=औरङ्गाबादमण्डलम्&oldid=485953" इत्यस्माद् प्रतिप्राप्तम्