जीवन्यायतीर्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
जीवन्यायतीर्थः
जननम्

२६-०१-१८९४

पश्चिमवङ्गराज्यम्
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः महाकविकालिदासं, शङ्कराचार्यवैभवम्

जीवन्यायतीर्थस्य उत जीवस्य जनकः स्वकीयसमयस्य सुप्रसिद्ध संस्कृतलेखकः कविपञ्चाननतर्करत्नः आसीत् । जीवो बङ्गप्रदेशे चौबीस-परगनान्तर्गत-भट्टपल्लीनगर्यां २६ जनवरी १८९४ ख्रीष्टाब्दे प्रादुरभूत् । भट्टपल्ली विदुषां खनिरिति प्रसिद्धिः । तेन कलकत्ताविश्वविद्यालये २६ वर्षपर्यन्तं संस्कृतमध्यापितम् । एतदनन्तरं स भट्टपल्लीसंस्कृत-महाविद्यालयस्य पदमलञ्चकार।

जीवस्य नाट्य-रचनासु महाकविकालिदासं नाम नाटकं सर्वातिशायि वर्त्तते । पुरुषपुङ्गव-कैलाशनाथविजय-कुमारसम्भव-रघुवंश-शङ्कराचार्यवैभव-विवेकानन्दचरित-स्वाधीनभारतविजयप्रभृतयोऽनेके महत्त्वपूर्णाः ग्रन्थाः प्रणीताः जीवेन । श्रीजीवस्य स्वातन्त्र्यसन्धिक्षणप्रभृतीन्यान्यपि प्रहसनानि सन्ति ।

महाकविकालिदासः[सम्पादयतु]

महाकविकालिदासं विंशशतकस्य श्रेष्ठमनुत्तमं च नाटकं मन्यते। अस्य प्रथमाभिनयः १९६२ ख्रीष्टाब्दे कालिदाससमारोहावसरे उज्जयिन्यां समपद्यत । रूपकेऽस्मिन् नटी संस्कृतं ब्रवीति, किन्तु नाटकान्तरीयप्रस्तावनासु सा प्राकृतमाश्रित्य व्यवहरति ।

शङ्कराचार्यवैभवम्[सम्पादयतु]

शङ्कराचार्य-वैभवस्य प्रथमाभिनयः १६६६ ख्रीष्टाब्दे वाराणसेयसंस्कृत-विश्वविद्यालयस्य सरस्वतीमहोत्सवावसरे समपद्यत।

कथानुसारं त्रिचूडग्रामे शिवगुरुनाम ब्राह्मणः शिवमन्दिरे पुत्रकामनया शिवाराधनं विदधाति । तीव्रव्रताराधनसन्तुष्टः शिवः स्वयमेव शङ्कररूपेण अवतरति । द्वितीयाङ्के राज्ञः सुधन्वनः सभायां बौद्धाचार्य-कुमारिलयोः विवादप्रस्तावोऽस्ति ।

कुमारसम्भवम्[सम्पादयतु]

कुमारसम्भवं नाम नाटकम् उज्जयिन्यां कालिदास-समारोहेऽभिनीतम् । अत्र पार्वत्याः पितृभ्यां पृष्ट उपाध्यायो ब्रवीति यत्, पार्वत्या रूपानुरूपसौभाग्यं सर्वथा दुर्लभमेवास्ति । तदनु नारदस्तत्रागत्य गौर्याः सौभाग्यवर्णनं विदधाति। शिवं च तस्याः भाविनं वल्लभं प्रमाणायति । पार्वती प्राक्तन-जन्म-पतिरूपं शिवं झटित्येव सस्मार । पुनरप्यहं पतिरूपेण तमेव प्राप्स्यामीति निश्चित्य तपस्यार्थं वनं जगाम।

सुरपतिस्तारकासुरभयाक्रान्त आसीत् । यावदेव तेन तारक-संहारकस्य कार्तिकेयावतारस्य विषये किञ्चिद् ज्ञातं, तावदेवानेन विलम्बासहेन सत्वरं कार्य-सम्पादनार्थं कामदेवः प्रेषितः । वसन्तसहायो मनसिजः सपत्नीकस्तत्र तपोभूमौ समाजगाम । नन्दी द्वारदेशमध्यास्ते स्म । पार्वत्यां पुरस्थितायां मदनेन शिवं लक्ष्यीकृत्य बाणप्रहारो विहितः किन्तु दुर्दैववशाच्छिवस्य नेत्राग्निज्वालाभिर्दग्धो भूत्वा भस्मनिश्शेषतां गतः । चतुर्थाङ्के रतिविलाप एकोक्तिरूपो वर्तते । पञ्चमाङ्के पार्वत्याः कठिनतमं तपो वर्णितमस्ति । अन्ततोगत्वा शिवपार्वत्योः परिणयः समजनि।

किरतनिया नाटस्य स्तुति-परम्परा नाटकेऽस्मिन्नादिमध्यावसानेषु सर्वत्रैवानुबद्धास्ति । नारदो रङ्गपीठमागत्य गायति -

जय जगदीश्वर विश्वचराचर दृश्यविचित्रविकासः।

त्वमसि भक्तजनमानसरञ्जनमञ्जुलरूपविलासः।।

समग्रमपि नाटकं गीतसंवलितं वर्तते । प्रियतमे ह्यपरतेऽपि रत्या विलापो गीतात्मक एवास्ति ।

रघुवंशम्[सम्पादयतु]

रघुवंशनाटकस्य अभिनय उज्जयिनीनगर्यां कालिदाससमारोहे समागतानां विदुषां प्रीत्यर्थं समभूत्।

दिलीपस्य अश्वमेधो नाम यज्ञः समारब्धोऽस्ति । यज्ञियोऽश्वोऽदृश्योऽभवत् । इन्द्र एव अस्त्यश्वापहारी इति वसिष्ठो वभाषे । रघुः अश्वानयनार्थं प्रेषितः।

द्वितीयाङ्के रघुदिग्विजयार्थं प्रतस्थे । तृतीयाङ्के कौत्सस्य प्रकरणमुपनिबद्धम् । चतुर्थाङ्के स्वयंवरे अजेन्दुमत्योः विवाहो वर्णितः। इन्दुमती दशरथं नाम पुत्रं जनित्वा स्वर्गलोकं गता । पञ्चमाङ्के दशरथस्य मृगयावर्णनं विद्यते । दशरथस्य बाणेन श्रवणकुमारो नाम कश्चिन् मुनिकुमारो गतासुर्बभूव । तस्य नेत्रहीनाभ्याम् असहायाभ्यां पितृभ्याम् अभिशप्तो दशरथः।

स्थाने-स्थाने गीतानां समावेशो दृश्यते । प्रथमाङ्कान्तिमभागे वन्दिद्वयं गायति -

जयति दिलोपो रविकुलदीपः शोभन-सवन-विधायी।

नाग-निस्तारम्[सम्पादयतु]

नागनिस्तारनाटके महाभारतस्य प्रसिद्धं जनमेजयाख्यानम् उपनिबद्धम्। राजा परीक्षितः मृगयापरायणोऽस्ति । स तृषां शमयितुं शमीकर्षेः आश्रमपदमागच्छति । मुहुर्मुहुः प्रतिबोधितोऽपि समाधिष्ठो महर्षिर्न किञ्चिदपि वव्रे । राज्ञा तस्य कण्ठे मृतसर्पः परिवेष्टितः। समिधाहरणानन्तरं निवर्तितः शमीकपुत्रः शृङ्गी विलोक्येदं सपद्येव अभिशशाप यत्, ‘सप्ताहाभ्यन्तरे एव राजा तक्षकदष्टो भूत्वा कथाशेषतां प्रयास्यति'।

राज्ञा स्वात्मरक्षार्थं मन्त्रिणां परामर्शानुसारं सर्वेऽप्युपायाः कृताः । किन्तु सप्तमे दिवसे कश्चिद् ब्राह्मणः आशीर्वादं प्रदानार्थं तत्राजगाम । स राज्ञे कुसुममेकं समर्पयामास । तस्मात् पुष्पात् तक्षकः प्रकटीभूय राजानं ददंश। तृतीयाङ्कानुसारं जरत्कारुर्नागकन्यकयैकया विवाहञ्चकार । पञ्चमाङ्के जनमेजयस्य नागयज्ञं विरमय्य जरत्कारुर्नागान् रक्षति ।

निगमानन्दचरितम्[सम्पादयतु]

निगमानन्दचरितं नाम नाटकं जीवस्य सप्तस्वङ्केषु विभक्तम् । १६५२ ख्रीष्टाब्देऽस्य अभिनयः राममोहन-लाइब्रेरीभवने कलकात्तानगरे सम्पन्नोऽभवत् । चरितात्मकमिदं नाटकं वर्तते ।

कैलाशनाथ-विजयम्[सम्पादयतु]

कैलासनाथविजय-व्यायोगस्य प्रथमाभिनयो बङ्गालस्य संस्कृतमहाविद्याले सञ्जातः । कथानकं पौराणिकं वर्तते । रावणः कालं विजित्य गन्धोऽभवत् । अथासौ कुबेरं विजित्य तस्य पुष्पकविमानम् आनेतुकामोऽस्ति । स स्वकीयपराक्रमविषये मन्दोदरीं सूचयति

तपसा तेजसा कीर्त्या मूर्त्या मर्यादया तथा।

औदार्येण च शौर्येण लोके कोऽन्योऽस्ति मत्समः।।

रावणो झटिति कैलासशिखरमारुरोह। तत्रासौ कुबेरमाचक्राम । यक्षाधिपतिः पराजितः । दशवदनस्तस्य पुष्पकविमानं बलान्नेतुमियेष किन्तु कृतेऽपि प्रयत्ने विमानं स्वस्थानतो न चचाल । नारदस्य निर्देशानुसारं रावणः शिवस्य शरणं जगाम। व्यायोग एकाङ्क एवास्ति । अस्मिन्नेकाङ्के कविना रङ्गमञ्चे लङ्कारमणीया दृश्यस्थली प्रदर्शिता।

गिरिसंवर्धनम्[सम्पादयतु]

गिरिसंवर्धने कृष्णस्य गोवर्धनधारणस्य कथा वर्तते । अस्य प्रथमाभिनयः संस्कृत-राष्ट्रभाषासम्मेलनाधिवेशने समभूत् । नन्दस्य आज्ञानुसारं सुरेन्द्रार्थं यज्ञ-सामग्रीं नयन्तो भारवाहका मार्गे विश्रामार्थं सनृत्यं गायन्ति । कृष्णः तान् निवारयितुं ब्रवीति -

साक्षाद् विहाय मम सन्निधिमिन्द्रतुष्ट्यै

दुष्टाः विमूढमतयः किमु याति यज्ञम्।

मामेव यज्ञपुरुषं पुरुहूतवन्द्यं

मन्दाशया न वदन्ति विदन्ति सन्तः ॥

नन्द-यशोदा-कञ्चुकिप्रभृतिभिः अनैकपुरुषैः प्रतिषिद्धोऽपि कृष्णः स्वकीयकार्यात् न न्यवर्तत । इन्द्रार्थं यज्ञो नाभूत् । सुरपतेराज्ञया क्रोधान्धः संवर्तको वज्रनिर्घोषपूर्वकं तत्राजगाम । कृष्णेन सुदर्शनचक्रं निक्षिप्तम् । सुरपतिः पराजितो भूत्वा कृष्णस्य शरणमाशिश्रिये ।

प्रस्तावनायां हास्यरसो विदूषकस्याप्रासङ्गिकवार्ताभिर्जायते । संवर्तक-सुदर्शनादीनां पात्ररूपेण रङ्गमञ्चे समवतरणं छायातत्त्वानुसारम्। नृत्य-गीतयोः प्राचुर्यं सर्वत्रैव लक्ष्यते ।

कृष्णकौतुकम्[सम्पादयतु]

श्रीकृष्णकौतुकस्य अभिनयः बङ्किमचन्द्र-महाविद्यालयस्य सारस्वतोत्सवावसरे सम्पन्नः । रात्रौ कृष्णस्य वेणुनादं समाकण्यं प्रेमविह्वला गोप्यो विपिने तं गवेषन्ते । ता गायन्ति, स्तुवन्ति च । कृष्णस्तासां निकटमागच्छति । राधाप्रभृतयः समस्ताः गोप्यः स्वकीयहृदयप्रदेशे कृष्णं ध्यायन्ति ।

अभिनयः सङ्गीत-वाद्याभ्यां प्रपूर्णः । कृष्णो वेणुवादनं करोति । राधा-ललितयोः गीतेन नाटकस्य अभिनयः प्रारभ्यते । समस्तमपि रूपकं परम्परानुसारं कृष्ण-स्तुति-निर्भरं वर्तते । यथा -

'नीमविटपिपटुचारिन् मधुरमुरलिधर जलधर सुन्दर।

यमुना-पुलिन-विहारिन्"....................... ॥'

रूपकेऽस्मिन् गद्यांशानां न्यूनता पद्यांशानाञ्च बाहुल्यं गीतितत्त्वमेव संवर्धयति ।

पुरुषपुङ्गवम्[सम्पादयतु]

पुरुषपुङ्गवमेको भाणो वर्तते । संस्कृत-साहित्य-परिषदः सारस्वतोत्सवावसरे अस्याभिनयः संवृत्तः । नायकोऽस्य वाग्वीरोऽस्ति । वाग्वीरो ग्रामीणनवयुवतिभ्यो विज्ञानमार्गविषयकचेतनाप्रदानाय समुत्कण्ठितो वर्तते । यथा -

का नीतिः परलोकभीतिरहितं या साहसं दीपयेत्

को धर्मः निजशर्महेतुरपरे मर्मन्तुदापि क्रिया ।

का पूजा जठराग्नितर्पणमयी का साधुता मौखिकी

स्निग्धा वाक् तदनुच्छलेन कठिना गुप्ताहतिर्वक्षसि।।

स परस्त्रीः चारित्र्यरहिताः कर्तुं प्रयत्नशीलोऽस्ति, स्वकीयां पत्नीं तु सर्वदैव परपुरुषदर्शनाद् रक्षति। काचिद् ललना तद्गुणाकृष्टमानसा तन्निकटमागत्य प्रणयं निवेदयति । तस्मिन्नेवासरे कश्चिद् दुरात्मा तत्रागत्य तां बलादपहर्तुं प्रयतते । परस्य करमागता सा रक्षार्थं वाग्वीरमाह्वयति । वाग्वीरः स्त्रीस्वच्छन्द-विहार-समर्थनानुकूलं कार्यं दृष्ट्वातीव मुग्धो जातः ।

विधिविपर्यासम्[सम्पादयतु]

विधिविपर्यासमेकं प्रहसनं वर्तते श्रीजीवकवेः । अस्याभिनयः पूनानगरे अखिलभारतीय-धर्मविमर्शिनि-सभायां समवेतानां विदुषां प्रीत्यर्थं १६४४ ख्रीष्टाब्दे समभूत्। विवाह-निषेधको विनोदसुन्दरो युवकः स्त्री-पुरुषयोः धर्मशास्त्रप्रतिपादित-विषमताया विरोधको वर्तते । तस्य सूत्रवाक्यं यथा -

एको गर्भः स्नेहसन्दर्भ एको बीजं तुल्यं किन्तु मूल्यं विभिन्नम्।

पुत्रः प्राप्तस्तात सर्वमन्या पुत्री मूत्रीभावमेतीव घृण्या।।

घर्घरकण्ठा नाम काचिद् युवतिस्तत्रायाति । तत्र तयोश्चिरं पर्यन्तं स्त्रीपुरुषविषयकः वैषम्य-विवादः प्रचलति । विनोदो विज्ञानबलेन स्त्रीपुरुषयोः असमानताम् उन्मूलयितुं कामयते । जम्बालजिनी महिलानेत्री रङ्गमञ्चमागत्य दशसूत्रीययोजनाः प्रस्तावयति इति । ताः यथा -

१. प्रलम्बकेशच्छेदनम्

२. वक्षःपेषकपट्टबन्धनम्

३. व्यायामाभ्यासः

४. मृगयाव्यासङ्गः

५. खड्गचालनम्

६. सेनायां प्रवेशः

७. अवगुण्ठन-त्यागः

८. सम्पत्तौ पूर्णस्वत्वम्

९. सगोत्रासवर्णविवाहः

१०. विवाह-बन्धनच्छेदनम् ।

तयोः प्रजननाङ्गम् अपेक्षमाणस्य कस्यचित् चिकित्सकस्य भयाद् विनोद-घर्घरकण्ठयोः तत्रैव विवाहकार्य संवृत्तम्। नाटके पात्राणां चारित्रिकविकासः कलात्मकविधिना प्रयोजितः।

विवाह-विडम्बनम्[सम्पादयतु]

विवाह-विडम्बनं श्रीजीवस्य प्रहसनं वर्तते । रूपकेऽस्मिन् भारतीयसमाजस्य कुरीतीनां वर्णनं विद्यते । अत्र रतिकान्तः षष्टिः वर्षीयो वृद्धो वर्तते । स विवाहाय उत्कण्ठितो दृश्यते । घटकेन केनचित्तस्य विवाहस्य पूर्णव्यवस्था कृता | स तत्रागत्य, रतिकान्तम् अब्रवीत् - 'गम्यतां कन्यां विलोकयितुम्' इति। कन्या शोभनीया भवेच्चत्तदा २००० रूप्यकाणि पितुः ऋणशोधनार्थं १००० रूप्यकाणि विवाहव्ययार्थं चाविलम्बं प्रदेयानि भवता । भवान् वरकर्तृरूपेण कन्यां विलोकयतु । वररूपेणाहं कश्चित्तरुणं प्रदर्शयिष्यामि । त्वं परिणयावसर एव वरपदं प्राप्स्यसि । अन्ततश्चैतस्य मूर्खस्य व्ययेन भास्करशर्मा नाम कश्चित् तरुणश्चन्द्रलेखायाः पाणिं जग्राह ।

रामनाम-दातव्य-चिकित्सालयः[सम्पादयतु]

प्रणव-पारिजाताख्यपत्रिकाप्रवर्तकः सीतारामदासोङ्कारनाथो रामनाम-दातव्य-चिकित्सालयशीर्षकं संलापकोटिकं निबन्धमेकं प्रस्तुतवान् । अयमेव निबन्धः श्रीजीवेन भाव-ग्रहण-पुरस्सरं रूपकायितः।

कश्चिन्मत्तो राम-नाम-दातव्य-चिकित्सालयम् उद्घाटितवान् | स सर्वेषां रोगाणां निवारणार्थं रामनामौषधिमेव प्रददाति सततम् । राजयक्ष्मपीडिताः, शर्करारोगक्षीयमाणकायाः मधुमेहविमर्दिताश्चैवंविधा विभिन्ना रोगिणः तत्रागत्य रामनामौषधिं गृहीत्वा स्वस्थाः भवन्ति ।

साम्यसागरकल्लोलम्[सम्पादयतु]

गणनाथः साम्यवादस्य प्रमुखनेता आसीत् । स सैन्यसङ्घटनमकरोत् । स सनातन-धर्मावलम्बिनं कञ्चित् सन्यासिनं लक्ष्यीकृत्य कथयति -

'अरे कपटकञ्चुकधारिन् धर्मं न धर्मध्वजिनं न वेद्मि,

श्रमार्तदीनान् हृदयेन जाने तेषामसृक्पान-सुपुष्टदेहान्,

युष्मान् हि देशस्य रिपून् प्रतीमः ।'

स कदाचिदुद्योगकर्मकराणां कदाचित् कृषकाणाम् आन्दोलनं सञ्चालयति । कश्चिद् आन्दोलनकारी कर्मकरो बुभुक्षया म्रियमाण आसीत् । साम्यवादिनस्तं स्कन्धप्रदेशे निधाय आवश्यक-वस्तु-क्रय-केन्द्रं कञ्चिदापणं जग्मुः । ते तत्र आपणसञ्चालकं प्रोचुः यत्त्वया एवान्नम् अदत्त्वायं भारवाहको मारितः । ते सर्वेऽपि सङ्घीभूय वणिजः सर्वस्वम् अलुण्ठन् । कालान्तरे सर्वेऽपि विप्लवकारिणः कश्चित् परिणाम् अमप्राप्य गणनाथाय रुष्टाः सञ्जाताः । पश्चात्तापं कुर्वन्तस्ते पथभ्रष्टकारिणो गणनाथस्य वधाय कृतनिश्चया बभूवुः । गणनाथो यतेः आश्रमं गत्वा स्वकीयप्राणान् ररक्ष ।

चौरचातुरीयम्[सम्पादयतु]

चौर-चातुरीय-प्रहसने चौर्यकलायाः विविधनिगृढरहस्यानि निरूपितानि श्रीजीवेन। चौर-चातुरीयस्य नायको घटङ्करः चौर्यकार्ये परमप्रवीणोऽस्ति । राजपुरुषाः तस्य निग्रहार्थं प्रयत्नशीला वर्तन्ते । स कदाचिन्नेत्रहीनस्य कदाचिन्मत्तस्य अभिनयं करोति । कदाचिद् राजपुरुषाणां नेत्रेषु तप्तधूलिं निक्षिप्य क्षिप्रं पलायते ।

द्वितीयसन्धौ कश्चित् साधुः घटङ्करस्य गृहं भिक्षार्थमागच्छति । तस्माद् रूपपरिवर्तिनीं विद्यां गृहीत्वा घटङ्करो राज्ञः कृष्णाश्वमेकम् अपहरति तं च श्वेतं कुरुते । ततः तस्य उपदेशप्रभावेण असौ चौरवृत्तिं विहाय पापानां परिमार्जनार्थं काशीवासं चकार। रूपकस्यारम्भो घटङ्करस्य उक्त्या भवति । प्रस्तुतं प्रहसनं प्रबुद्धरौहिणेयमिति मध्ययुगीन-नाटकमनुवर्तते ।

चण्डताण्डवम्[सम्पादयतु]

चण्डताण्डवं प्रहसनकोटिकं रूपकं वर्तते । नाटकेऽस्मिन् विगतविश्वमहायुद्धे योरपस्य महतां राष्ट्राणां १९४३ ईशवीतः १९४३ ख्रीष्टाब्दपर्यन्तं हिंसात्मकमनोवृत्तीनां नग्ननर्तनस्य निरूपणं विद्यते। प्रथमाङ्के युद्धार्थिनां पारस्परिको वाचिकः सङ्घर्षों वर्णितः । रूसस्य नेता स्टार्लिनो धर्म-ध्वंसनम् उद्घोषयति -

धर्मो नाम कुकल्पनाल्पधिषणप्राणान्तकृद् भीषणो

यन्त्रं किं च पुरोधसां द्रविणदं दीनार्थविद्राषिणम्।

दौर्बल्यं भजतामलीकशरणं द्वन्द्वैककन्दं नृणां

स्त्रीणां मानसमोहनः स हि कथं नोत्सार्यतां मादृशैः॥

धर्मपुरुषस्तत्रागच्छति । स्टालिनस्तस्य निग्रहार्थं राजपुरुषान् समादिशति । धर्मपुरुषस्तु ज्योतिर्मयो भूत्वा भारतमाजगाम । ततो हिटलरो रङ्गपीठमागच्छति । नृत्यज्जम्बीरफलहस्तः असौ ब्रवीति -

जम्बीरफलमिव वीर नीरसारं वश्यं मे धरणितलं ह्यवश्यभाव्यम्।

‘विश्वकल्याणमस्तु’ इत्यनेन भरतवाक्येनान्ते धर्मस्य विजयो दर्शितः।।

चण्डताण्डवं प्राच्य-प्रतीच्य-नाटकानां सम्मिश्रणं व्यनक्ति ।

दरिद्र-दुर्दैवम्[सम्पादयतु]

जीवेन १९६८ ख्रीष्टाब्दे प्रकाशितस्य दरिद्र-दुर्दैवमिति नाटकस्य विषये निगदितं यदिदं ममान्तिमं प्रहसनम् । एतस्याभिनयो महर्षि-बङ्किम-चन्द्रमहाविद्यालयस्य देव-भाषा-परिषदो वार्षिकोत्सर्वे समद्यत ।

नायको वक्रेश्वरशर्मा भिक्षां याचते । स छिन्नकर्पटः, छिन्न-पादुकः, छिन्नातपत्रश्च वर्तते । कदाचिदसौ तण्डुलान् भिक्षारूपेणानयति । तस्य मन्दोदरी नाम गृहिणी कलहं कुर्वाणा भृशं खेदयति तम्।

ग्रीष्मसमयेऽसौ कदाचित् स्वकीयपरिवारस्य सर्वैः सदस्यैः सह भिक्षार्थं कञ्चिजगाम । सर्वे ते तृषाकुलाः जाताः । तेनैव मार्गेण शुद्गरामो नाम कश्चिद् वणिग् गम्यमान आसीत् । वक्रेश्वरो तमपि ययाचे किन्तु परमकृपणोऽसौ भिक्षादानार्थं समुद्यतो नाभवत् । 'त्वमपि मत्सदृशो भव' इति वक्रेश्वरेण अभिशप्तोऽसौ वणिक् स्वकीयगन्तव्यस्थानं जगाम ।

ततः कमण्डलुमादाय कश्चित् सिद्धस्तत्राजगाम । दयार्द्रहृदयोऽसौ दारिद्र्योत्पीडितवक्रेश्वराय दिव्यपाशं ददन्निजगाद - 'एतस्य दिव्यपाशस्य प्रभावेण यावन्मात्रं धनं त्वया प्राप्स्यते तद्विगुणं धनं प्रतिवेशिभिः उपलप्स्यते । सात्त्विकप्रयोगाभावे पाशोऽयं विगलितो भविष्यति ।

नाट्यशिल्पदृष्ट्या नाटकस्यास्याङ्कारम्भो नायकस्य उक्त्या भवति । स करुणापूर्णदशामेव सूचयति। रङ्गपीठे त्वाङ्गिकाभिनयः सौष्ठवशाली वर्तते । जीवः शिवस्तुतिसमावेशव्याजेन नाटके गीतप्रयोगं विदधाति ।

वनभोजनम्[सम्पादयतु]

श्रीजीवस्य वनभोजनं प्रहसनकोटिकं रूपकमस्ति । अस्याभिनयो बङ्किमचन्द्रमहाविद्यालयस्य शिष्ट-मण्डल-प्रीत्यर्थं सम्बभूव। कथानुसारं सुप्रिय-देवप्रिय-सुमन्त्र-सुबुद्धिप्रभृतयः षट् छात्राः वनभोजनार्थं सामग्रीं गृहीत्वा गतवन्तः । महतस्तरोरधस्ताद् भोजनपाकार्थं व्यवस्था सञ्जाता ।

तत्र सर्वैरपि कुतश्चित् पद्ध्वनिः अश्रूयत । सुबुद्धिरब्रवीत् -

शार्दूलस्याक्रमणमवश्यम्भावि वर्तते । यतो हि -

महान् व्याघ्रः कश्चिच् चलविपुललाङ्गूलसहित-

स्तले विभ्रमद्भीमः शमन इव नौ क्रामति पुरः ।

एतत्समाकर्ण्य सुप्रियः पलायितवान् । सुबुद्धिरपि कुत्रचित् जगाम, किन्तु स भिक्षुकरूपेण सन्ध्यासमये तत्रागत्य सर्वमपि भोजनं गृहीत्वा कुत्रचिद्गच्छत् । वनभोजनस्य प्रस्तावना हास्यमयी वर्तते । मध्ये गीतानां समावेशो हास्यसंवर्धकोऽस्ति । यथा सहजप्राप्तभोजनपरितृप्तो विदूषको गायति -

गहनवने निशिभोज्यं वितरसि तमसि विधूदय जय हे।

तव चरणागत-सततशरणरत-जनमिममुन्नय जय हे।।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

कृष्णः

संस्कृतम्

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जीवन्यायतीर्थः&oldid=435303" इत्यस्माद् पुनः प्राप्तिः