सामग्री पर जाएँ

जैनदर्शनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जैनमत इत्यस्मात् पुनर्निर्दिष्टम्)
जैनधर्मः
जैनध्वजः
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी
भगवान् महावीरः

जैनदर्शनं भारतीयदर्शनेषु अन्यतमं वर्तते । चार्वाकविचारधारायाः अनन्तरं नास्तिकदर्शनेषु जैनदर्शनस्य महत्त्वपूर्णं स्थानमस्ति । चार्वाकमतस्य स्थूलतत्त्वानां चिन्तनस्य अपेक्षया सूक्ष्मचिन्तनं प्रति चिन्तनस्य प्रावाहिकता जैनदर्शने दृश्यते । यत्र चार्वाकः शरीरमेवात्मानं स्वीकरोति तत्र जैनदर्शनेन आत्मा इति शरीरातिरिक्तम् अभौतिकं तत्त्वं स्वीकृतम् । तच्च शरीरपरिमाणं मध्यमपरिमाणं वाऽभिमतम् ।

वैदिकदर्शने प्रायेणेदं प्रतिपादितमस्ति यदात्मा अणुपरिमाणो महत्प्रमाणो वाऽस्ति-‘अणोरणीयान् महतो महीयानिति' । अणुपरिमाणस्य महत्परिमाणस्य वा नित्यत्वात् आत्मा नित्योऽस्ति इति वैदिका मन्यते । तन्मतानुसारेण मध्यमपरिमाणात्मकाः पदार्था अनित्याः सन्ति । जैनदर्शने मध्यमपरिमाणः आत्मा नित्योऽस्ति । स भौतिकपदार्थवत् अनित्योऽस्ति ।

दार्शनिकविचारस्य क्रमेण अनयोरुभयोः दर्शनयोः पौर्वापर्यं स्पष्टरूपेण दृश्यते । ऐतिहासिकेन साक्ष्येण इदं सिद्ध्यति यत् चार्वाकस्य पश्चात् जैनदर्शनस्य विकासक्रमः समायाति । अस्यापि गणना नास्तिकदर्शनेषु विहिता, यतो हि अत्र वेदानां प्रामाण्यं स्वीकृतं नास्ति । तथाप्यस्य लक्ष्यं चार्वाकवत् स्थूलपदार्थविवेचनं नास्ति । त्रिविधदुःखेभ्य आत्यन्तिकं मुक्तिरेवात्र लक्ष्यभूता वर्तते । आस्तिकदर्शनानामपि इदमेव लक्ष्यमस्ति । अतो जैनदर्शनम् आस्तिकधारायाः केषुचित् अंशेषु अनुकरणं करोति ।

आत्मा परिणामी द्रव्यमस्ति, जीवः अस्थिकायस्वरूपो भवति इत्याद्यवधारणाभिः सूक्ष्मतत्त्वानामपि भौतिकता सिद्ध्यति । वैदिकदर्शनेभ्यो वैपरीत्यदर्शनात् नास्तिकसंज्ञाऽस्याभिमता जीवात्मनः सम्बन्धे जैनसिद्धान्तानां चार्वाकसिद्धान्तै सह किमपि साम्यं दृश्यते । अत एव चार्वाकोपरान्तम् अस्य विद्यमानतया आनुक्रमिकतायां सन्देहो नास्ति ।

जैनदर्शनस्य उद्गमः

[सम्पादयतु]

जैनधर्मो यद्यपि अनादिः सनातनश्च वर्तते तथापि तस्य युगप्रवर्तकः ऋषभदेव आसीत् । ऋषभदेव ऐतिहासिको महापुरुष आसीत् । तस्येतिवृत्तमुपलभ्यते । हिन्दुधर्मस्य अवतारवादिन्या अवधारणया चतुर्विंशत्यवतारेषु षष्ठोऽवतारः ऋषभदेवः अवर्तत । तीर्थङ्करेषु आदिभूतत्वाद् अयमेव आदिनाथ इति अपि उच्यते । आदिनाथस्य अनन्तरं जैनदर्शनस्य तीर्थङ्करपरम्परा धर्मदर्शनयोः विकासस्य क्षेत्रे उल्लेखनीया अस्ति । तद्यथा- आदिनाथः (ऋषभदेवः), अजितनाथः, सम्भवनाथः, अभिनन्दनः सुमतिनाथः, पद्मप्रभुः सुपार्श्वनाथः, चन्द्रप्रभु, सुविधिनाथः, शीतलनाथः, श्रेयांसनाथः, वासुपूज्यः, विमलनाथः अनन्तनाथः, धर्मनाथः, शान्तिनाथः, कुन्युनाथः, अहरनाथः, मल्लिनाथः, सुव्रतनाथः, नाभिनाथः, नेमिनाथः, पार्श्वनाथः, महावीरः च ।

जैनदर्शनस्य युगप्रवर्त्तका आचार्याः तीर्थङ्कराः उच्यन्ते । जैनदर्शनस्य तत्त्वसिन्धौ निमज्जनाय मार्गदर्शकाः तीर्थङ्करसंज्ञां लभन्ते । तीर्थङ्करपदस्य लाक्षणिकः प्रयोगो विहितः । तीर्थङ्करेषु अन्तिमस्य वर्धमानस्य ऐतिहासिकः परिचयोऽवश्यमुपलभ्यते । वर्धमानस्य जन्म ईस्वीपूर्व ५९९ तमे वर्षे विहारप्रदेशे अभवत् । त्रिंशत्तमे वयसि वर्धमानेन परिव्रज्या गृहीता, कैवल्याय कठोरं तपो विहितः । स्वलक्ष्यसिद्धिवशात् अयं सर्वज्ञ इत्यप्युक्तः ।

जैनधर्मस्य दिगम्बरसम्प्रदाये दार्शनिकं चिन्तनं पर्याप्तरूपेण जातम् । पञ्चमहाव्रतेभ्योऽतिरिक्तं शारीरिक-मानसिक-वाचिक चेष्टासु नियन्त्रणस्यापि आवश्यकता प्रतिपादिता । यतो हि अनेनैव मृत्युपर्यन्तं कष्टसहिष्णुतायाः क्षमता जायते । चतुर्दशगुणस्थानानामनुभवोऽपि दार्शनिकचिन्तनस्यैव विषयोऽविद्यत । एतानि गुणस्थानानि एवं प्रकारेण कथितानि-

मिथ्याव्रतम्, सासादनम्, मिश्रः, अविरत् सम्यक्त्वम्, देशविरतिः, प्रमत्तम्, अप्रमत्तम्, अपूर्वकरणम्, अनिवृत्तिकरणम्, सूक्ष्मसाम्परायः, उपशान्तमोहः क्षीणमोहः, सयोगकेवली, अयोगकेवली च ।

जैनसाहित्यम् ऐतिहासिकचिन्तनेन चतुर्षु भागेषु विभक्तम् अस्ति-आगमकालः आरम्भयुगः, मध्ययुगः, अवान्तरयुगश्च । आगमकाले श्वेताम्बर-जैन-सम्प्रदायस्य आगमसाहित्यं सृष्टम्-(१)आचारङ्गसूत्रम् (२) सूत्रकृताङ्गम् (३) स्थानाङ्गसूत्रम् (४) समवायाङ्गसूत्रम् (५) भगवतीसूत्रम् (६) ज्ञातधर्मकथा (७) उपासकदशा (८) अन्तकृतदशा (९) अनुत्तरोपपादिकदशा (१०) प्रश्नव्याकरणानि (११) विवाङ्सूत्रम् (१२) दृष्टिवादः ।

पञ्चमहाव्रताः

आरम्भकालः

[सम्पादयतु]

जैनदर्शनस्य आरम्भो दिगम्बरसम्प्रदायाचार्यस्य उमास्वामिनो विचारधाराभिर्भवति । प्रथमशताब्दि ईस्वीकाले उमास्वामिना तत्त्वार्यसूत्रस्य रचना विहिता । एषु तत्त्वार्थसूत्रेषु काले काले वृत्तिभाष्यादिभिर्विभूषितानि ग्रन्थान्तराणि प्राप्यन्ते । जैनदर्शनस्य इमानि सूत्राणि पाणिनिसूत्राणीव वर्तन्ते । तत्त्वार्थसूत्रमधिकृत्य आचार्येण देवनन्दिना अपरनाम पूज्यपादाचार्येण सर्वार्थसिद्धिरित्याख्या टीका, सिद्धसेनविरचितं गन्धहस्तिभाष्यम्, अकलङ्कविरचितं राजवार्तिकञ्चोपलभ्यन्ते ।

बाहुबलेः पदतले जैनभक्ताः

उमास्वामिन अनन्तरं दिगम्बरसम्प्रदायस्यैव आचार्येण कुन्दकुन्देन नियमसार–आचारान्तिक–कामसार-समयसार-प्रवचनसार-नामकाः ग्रन्था विरचिताः । कुन्दकुन्दाचार्यस्य इमा रचनाः समेकितरूपेण जैनदर्शनस्य विश्वकोश इति मन्यते । यथा वैदिकसाहित्ये प्रस्थानत्रयी विशिष्टा वर्तते, तथैव कुन्दकुन्दाचार्यस्य अन्तिमास्त्रयो ग्रन्था सारत्रयीरूपेण परमादरणीया मन्यन्ते ।

आचार्यसमन्तभद्रोऽपि जैनदर्शनस्य क्षेत्रे अभिनवं चिन्तनं प्रस्तुतवान् । देवनन्दिना जैनेन्द्रव्याकरणे आचार्यसभन्तभद्रस्योल्लेखो विहितः । अस्य रचनासु आप्तमीमांसा, युक्त्यनुसन्धानम्, स्वयम्भूस्तवः जिनस्तुतिशतकम्, रत्नकरण्डक-श्रावकाचारः, जीवसिद्धिः, तत्त्वानुसन्धानम्, गन्धहस्तिभाष्यं चेति प्रमुखाः रचनाः सन्ति ।

मध्यकालः

[सम्पादयतु]

जैनदर्शनस्य विकासे मध्यकालस्य प्रारम्भो ईस्वी षष्ठशताब्द्यां भवति । नवमशताब्दीपर्यन्तिकः कालो मध्यकाल एव निधार्यते । अयं कालो जैनसाहित्यस्य स्वर्णयुगोऽस्ति । जैनदर्शनस्य बहूनां मौलिकग्रन्थानां रचनाऽप्यस्मिन् एव काले संजाता । अस्मिन् कालखण्डे आचार्यः सिद्धसेनो दिवाकरः न्यायावतार-सन्मतितर्क- तत्त्वार्थटीका-प्रभृतीनां ग्रन्थानां रचनां कृतवान् । आसु रचनासु न्यायावतार इत्याख्यो ग्रन्थो जैनन्ययास्य स्वरूपं प्रस्तौति ।

अष्टमशताब्द्यां हरिभद्रसूरिणाऽपि षड्दर्शनसमुच्चय-अनेकान्तवाद –जयपताकादयो ग्रन्था विरचिताः । भट्ट अकलङ्केन तत्त्वार्थसूत्रेषु राजवार्तिकग्रन्थस्य प्रणयनं कृतम् । न्यायविनिश्चयः प्रमाणसंग्रहश्चापि अकलङ्कस्यैव जैनन्यायशास्त्रीयं रचनाद्वयं वर्तते । आचार्यविद्यानन्देन नवमशताब्द्यां तत्त्वार्थसूत्रेषु श्लोकवार्तिकं विरचितम् । वादिराजसूरिणाऽपि अस्यामेव शताब्द्यां पार्श्वनाथचरितम्, न्यायविनिश्चयनिर्णयश्चेति द्वौ ग्रन्थौ सृजितौ ।

अवान्तरकालः

[सम्पादयतु]

दशमशताब्द्या अनन्तरं अवान्तरकालस्य प्रारम्भः स्वीक्रियते । अस्मिन् काले देवसूरिः प्रमुखः आचार्योऽभवत् । देवसूरिणाऽपि जैनन्यायक्षेत्रे प्रमाणानयनतत्त्वालोकालङ्कारः इत्याख्यस्य ग्रन्थस्य रचना कृता । अस्मिन् एव ग्रन्थे अनेनैव आचार्येण स्वयं स्याद्वादरत्नाकरनामकः टीकाग्रन्थोऽपि लिखितः । द्वादशशताब्द्यां हेमचन्द्रेण काव्यव्याकरणयोः क्षेत्रे नूतनं साहित्यं सृष्टम् । प्रमाणमीमांसा हेमचन्द्रस्य सुप्रसिद्धा रचनाऽस्ति । वस्तुतः एषा अद्वितीया दार्शनिकी रचना वर्तते, यतोहि अस्याः रचनायाः कारणात् हेमचन्द्रः ’कलिकालसर्वज्ञ’ इत्युपादिमधिगतवान् ।

त्रयोदशशताब्द्यां मल्लिषेणसूरिणः 'स्याद्वादमञ्जरी' विरचिता । जैनदर्शनक्षेत्रे एषा रचना पर्याप्तं लोकप्रियतामाप्तवती । इयं रचना हेमचन्द्रकृतस्य 'अन्ययोगव्यवच्छेद' इत्याख्यस्य द्वात्रिंशिकाग्रन्थस्य टीका विद्यते पञ्चदशशताब्द्यां गुणरत्नेन हरिभद्ररचितं षड्दर्शनसमुच्चयं लक्षयीकृत्य टीकाग्रन्थो रचितः । सप्तदशशताब्द्यां च आचार्येण यशोविजयेन संस्कृतप्राकृत हिन्दीभाषासु अनेकेषां खण्डनमण्डनात्मकानां ग्रन्थानां सृजनं विहितम् । जैनतर्कभाषाऽस्या प्रमुखा कृतिरस्ति । एवं जैनदर्शन-साहित्य–सिंहावलोकनेन विज्ञायते यज्जैनदर्शनस्य आचार्या न्यायशास्त्रस्य गहनं ज्ञानम् अधिगतवन्त आसन् । अत एव तेषां भाषायां न्यायशैल्याः पूर्णः प्रभावो दृश्यते । ग्रन्थानाम् उपादेयतया सह भाषागतं वैशिष्ट्यमपि तत्र स्पष्टं प्रतिभाति ।

जैनदर्शनस्य तत्त्वमीमांसा

[सम्पादयतु]

जैनदर्शनानुसारं निखिलब्रह्माण्डस्य मूले सप्त पदार्था विद्यन्ते । दृश्यमाणं सम्पूर्णं जगत् तेषामेव परिणामोऽस्ति । एते सप्त पदार्था जैनदर्शनग्रन्थेषु एवं प्रकारेण उल्लिखिताः सन्ति-जीवतत्त्वम, अजीवतत्त्वम्, आस्रवः, बन्धः, संवरः, निर्जरा,मोक्षश्च । अथैतेषां यथाक्रमं विवेचनं विधियते –

जैनचिह्नम् - स्वस्तिकम्

जीवतत्त्वम्

[सम्पादयतु]

जीवतत्त्वम् आत्मनः सांसारिक –अवस्थारुपम अस्ति । तत् चेतनं वर्तते, अनन्त-ज्ञान-दर्शन- सामर्थ्थैश्चापि युक्तं भवति । व्यवहारजगति पूर्वार्जितकर्मणां प्रभावात् जीवः अनन्तज्ञानेन अनन्तदर्शनेन अनन्तसामर्थ्येन च युक्तो न भवति । तदव्स्थायां जीवोऽयं औपशमिक-क्षायिक-क्षायौपशमिक-औदयिक-पारिणामिक-भावैः सहितो भवति । आसां भावदशानां संपर्कात् जीवः स्वशुद्धस्वरुपात् भिन्नो भाति । द्रव्यवत् परिवर्तते सति जीव एव पुद्गलरुपेण व्यक्तो भूत्वा संसारीति उच्यते । जीवः परिणामी अस्ति । तस्य सर्वाः क्रियाः पूर्वकृतकर्मणां परिणामस्वरुपं सम्भवति । यदा चेतनोऽयं कस्मिन्नपि कर्मणि प्रवर्तते तदा तत्प्रवृत्तेः कारणमपि पूर्वोपार्जितमेव कर्म भवति । प्राप्तदेहानुसारं स्थूलः कृशश्च भवति । कर्मफलस्य भोक्ताऽपि जीव एवास्ति । स एव चोर्ध्वगः कथ्यते । जीवे कर्मणः प्रवेशस्य कारणम् अविद्या वर्तते, यतोहि अविद्याजन्यं कर्म एव जीवात्मानं सांसारिकतया आबद्धं करोति ।

बन्धमुक्तेरुपायो ज्ञानमस्ति । सत्कर्मणां परिणामस्वरुपं बन्धनावस्थायामेव ज्ञानमुत्पद्यते । ऋते ज्ञानान्न मुक्तिरिति सिद्धान्तानुसारं ज्ञानं बद्धस्य जीवस्य कृते अत्यावश्यकं वर्तते । जीवोऽयम् अवयवीत्यपि उच्यते । अवयवसंघातरुपत्वात् अयमस्तिकायोऽप्यस्ति । चैतन्यम् अनुभूतियोगश्चेति जीवस्य प्रमुखौ गुणौ स्तः । जीवस्य परिणामः पर्यायोऽपि भवति । स च चतुर्धा प्रतिपादितः (१) दिव्यः (२) मानुषः (३) नारकीयः (४) तिर्थक् चेति । पर्यायस्यापि द्वैविध्यं वर्तते द्रव्यपर्याय –गुणपर्याय-भेदात् । भिन्नेषु अपि द्रव्येषु यत् ऐक्यं प्रतीयते तत् द्रव्यपर्याय उच्यते । परिणामवशात् द्रव्यस्य गुणेषु यत् परिवर्तनं दृश्यते तद् गुणपर्यायो भवति ।

अजीवतत्त्वम्

[सम्पादयतु]

अजीवः धर्माधर्म-आकाश-पुद्गल-कालभेदात् पञ्चधाऽस्ति । एषु आकाशो निरवयवोऽस्ति, अतः स अनस्तिकायोऽपि वर्तते । गतिमान जीवः पुद््गलसहकारि कारणं द्रव्यविशेषश्च धर्मः कथ्यते । तथा जलचरस्य कृते जलम् एतद्विपरीतं स्थितिमान् जीवः पुद्गल-स्थितिकारणं द्रव्यविशेषश्च अधर्मः कथ्यते । यथा परिश्रान्तस्य कृते आश्रयः । अस्तिकाय द्रव्याणाम् आश्रयप्रदं द्रव्यम् आकाशोऽस्ति । अयं अनुमानसिद्धः पदार्थोऽस्ति यतो हि बहुदेशव्यापि जीव –पुद्गल –धर्माधर्म् –विस्ताराय प्रदेशपर्यायस्य आकाशस्य सिद्धिर्भवति । आकाशोऽपि द्विधा वर्तते-लोकाकाशः अलोकाकाशश्च । पुद्गलं जडद्रव्यं भवति । “ पूरयन्ति गलन्ति च पुद्गलाः” इत्यनया व्युत्पत्त्या पुद्गलः परिपूर्णं द्रव्यमस्ति । पुद्गलाः अणुरुपाः संघातरुपाश्चेति द्विधा भवन्ति । अनयोरणुः निरवयवो भवति संघातस्तु रुपरसादिगुणचतुष्टयेन समूहरुपो भवति । कालस्तु प्रत्यक्षविषयो नास्ति, तथापि अनुमानेनैव कालस्य सिद्धिरस्ति यतो हि सर्वं जगत् परिणामशीलमस्ति । परिणामस्य हेतुतया कालः सिध्यति । कालं विना पदार्थानां स्थितिरसम्भवा वर्तते । प्रत्येकं परिणामः कालाश्रितोऽस्ति । प्रत्येकं क्रिया च कालाश्रिताऽस्ति । अतः कालोऽनुमीयते । विस्ताराभावे कालास्तिकायो द्रव्यभिन्नो दृश्यते ।

आस्रवतत्त्वम्

[सम्पादयतु]

योगेन कर्मपुद्गलानां जीवे प्रवेश आस्रवोऽस्ति । आस्रवसम्पर्कादेव जीवो बन्धे निपतति । जैनदर्शने मनोवाक्कर्माणि क्रियायुक्तानि स्वीक्रियन्ते । इमान्येव् योगसंज्ञया उच्यन्ते यतोहि कर्मपुद्गला जडा भवन्ति, अतः स्वयं जीवस्तेषु कर्मसु प्रविष्टो नैव भवितुं शक्नोति । अपितु योगेनैव कर्मपुद्गलानां जीवे स्वाभाविकरुपेण प्रवेशो भवति । आस्रव एव बन्धस्य कारणम । स च द्विधा वर्तते – भावास्रवो द्रव्यास्रवश्च । यावत् कर्मपुद्गलानां जीवे प्रवेशो न भवति, तावत् स भावास्रवः क्थ्यते । जीवे कर्मपुद्गलानां प्रवेश एव् द्रव्यास्रव उच्यते । उदाहरणार्थं वस्त्रस्य आर्द्रीकरणानन्तरं मलिनताप्राप्तिरुपिणि कार्ये क्रियाद्वयं दृश्यते । प्रथमा क्रिया जलसिक्तिरस्ति अपरा च धूलिकणैः संसर्गरुपा वर्तते । मलिनताया उभयमेव हेतुर्भवति तत्र जलसिक्तौ भावास्रवोऽस्ति, धूलिकणसंसर्गे च द्रव्यास्रवो वर्तते । प्रधानभूताः आस्रवाः सप्तदश सन्ति ये मनोयोग- वाग्योग-काययोगैः सह पञ्च ज्ञानेन्द्रियाणां, चतुः कषायाणां , पञ्च-महाव्रतानां च परित्यागात् जायन्ते ।

बन्धतत्त्वम्

[सम्पादयतु]

जीवे कर्मपुद्गलानां प्रवेशाद उत्पन्नो बन्धभावो बन्ध इत्युच्यते । बन्धोऽपि रुपद्वये व्यवहृतो भवति, भावबन्धो द्रव्यबन्धश्चेति । बन्धस्य कारणमास्रवो भवति यतो हि आस्रवमेव जीवस्य मूलस्वरुपं नश्यति । मिथ्यात्वम्, अविरतिः, व्रतादिनियमानामनायासमुपेक्षा चापि बन्धस्य हेतवः सन्ति ।

राणापुरस्य जैनदेवालयः

संवरतत्त्वम्

[सम्पादयतु]

कर्मपुद्गलानां जीवे प्रवेशस्य अवरोधः संवर इति कथ्यते । अयमवरोधो वस्तुतः आस्रवस्य आस्रवजन्यबन्धस्य च भवति । अस्य क्रियान्वयनं सर्वेभ्यः विकारेभ्यो रहिते सत्येव सम्भवति । संवरस्यापि भेदद्वयं विद्यते भावसंवरो द्रव्यसंवरश्च । जैनदर्शने कर्मपुद्गलानां जीवे प्रवेशस्य द्वाषष्टिः उपायाः कथिताः, तेषु पञ्च बाह्याः अवशिष्टा आभ्यन्तराः सन्ति ।

बाह्या उपायाः समितय इत्यपि कथ्यन्ते, तद्यथा –ईर्यासमितिः, भाषासमितिः, एषणा समितिः, आसन्-निक्षेपण- समितिः, प्रतिस्थापना-समितिश्चेति –ये सम्भवाः उपायाः सन्ति ते गुप्तय इत्युच्यन्ते,तद्यथा –मनोगुप्तिः, कायगुप्तिश्चेति । समितिषु सत्क्रिया प्रवर्तते किन्तु गुप्तिषु असत्क्रिया निरुध्यते । संवरस्य प्रक्रियायां परीषहस्य महत्त्वपूर्णं योगदानमस्ति । मुक्तिमार्गे प्रवृत्त्यर्थं कर्मक्षयाय गृह्यमाणं सहिष्णुत्वं परीषह इति कथ्यते । परीषहस्य द्वाविंशतिर्भेदाः सन्ति । कर्मक्षयाय पञ्चभिर्महाव्रतैः, दशभिर्धर्मैः द्वादशभिरनुप्रेक्षाभिः, द्वाविंशपरीषहैः, पञ्चभिश्चरित्रैश्च संवरः अनुष्ठीयते । चरित्रस्य पञ्चभेदास्तत्रैवं प्रकारेण सम्प्रोक्ताः –सामयिकं, छेदोपस्थापनम्, परिहारविशुद्धिः सूक्ष्मसाम्परायः, यथाख्यातञ्चेति । एषां समेषामनुपालनेन जीवात्मनि कर्मपुद्गलानां प्रवेशो निरुध्यते ।

निर्जरातत्त्वम्

[सम्पादयतु]

आत्मनि कर्मपुद्गलानां नूतनप्रवेशस्य अवरोधः, पूर्वावशिष्ट पुद्गलानां विनाशश्च निर्जरा इत्युच्यते । निर्जरामवलम्ब्यैव कश्चित् साधकः आत्मदर्शनं कर्त्तुं शक्नोति । यथार्थतस्तु पूर्वोक्तानां द्वाषष्टिः उपायानां साधना कठोरश्रमसाध्या भवति, ततोऽप्यधिकः श्रमः आत्मस्थानां कर्मपुद्गलानां विनाशकार्ये जायते । साधकस्यैषाऽवस्था निदिध्यासनस्वरुपेति कथ्यते । अनयैव अवस्थया साधकः आत्यन्तिकीं दुःखनिवृत्तिम् अनुभवति । निर्जरापि जैनदर्शने द्विधा प्रतिपादिता –भावनिर्जरा द्रव्यनिर्जरा चेति । आत्मस्थानां कर्मपुद्गलानां विनाशस्य भावना भावनिर्जरा भवति , तेषां कर्मपुद्गलानां विनाशस्य क्रिया च द्रव्यनिर्जरा भवति । कर्मपुद्गलानां विनाशस्य भावनादशायां कर्मणाम् उपभोगानन्तरं कर्मपुद्गलाः स्वत एव नश्यन्ति । सा दशा सविपाकभावनिर्जरा कथिता । यदि च कर्मणाम् उपभोगात् पूर्वरेव कर्मपुद्गलानां विनाशो भवति, तदा साधकस्य सा दशा अविपाकभावनिर्जरा कथ्यते । एषा अविपाकभावनिर्जरा अतीव दुर्लभा मन्यते । अस्याः कृते कठोरतपसः आवश्यकता प्रतिपादिताऽस्ति ।

मोक्षतत्त्वम्

[सम्पादयतु]

कर्मपुद्ग्लेभ्यःपूर्णतया मुक्तो भूत्वा जीवात्मा सर्वज्ञः सर्वद्र्ष्टा च भवति जैनदर्शने आत्मनः एषाऽवस्था जीवन्मुक्तिरथवा मोक्ष इत्युच्यते । अयं मोक्षः भावमोक्ष एव भवति । पूर्णरुपेण् मोक्षस्य प्राप्त्यर्थं तु ज्ञाना वरणीय्- दर्शनावरणीय-मोहनीय-अन्तरायानां चतुर्ण्णां घातीयकर्मणां, आयु –नाम-गोत्र-वेदनीय- संज्ञकानां चतुर्ण्णां अघातीयकर्मणां चापि विनाशः आवश्यको भवति । एतदनन्तरमेव द्रव्यमोक्षो लब्धुं शक्यते ।

मोक्षावस्थायां जीवः सर्वेभ्यः औपशमिक-क्षाणौपशमिक –औदयिक भव्यत्वादिभ्यो भावेभ्यो मुक्तो भवति । स उर्ध्वगतिशीलो भवति, अतएव च उर्ध्वमेव गच्छति, किन्तु लोकाकाशात् परे यः अलोककाशोऽस्ति तत्र धर्मास्तिकायस्य अभावे जीवः न प्रवेष्टुं शक्नोति । स पुनस्ततः संसारेऽपि आगन्तुं नैव क्षमते । जैनदर्शानानुसारं मुक्तो जीवः परमात्मनि ऐक्यभावं न लभते । अर्थात् परमात्मनि तस्य लयो न भवति । परिणामस्वरुपं मुक्तोऽपि जीवोऽनन्त-कालपर्यन्तं सिद्धशिलायामेव वसति । अयमेव मोक्षो मन्यते ।

प्रमाणमीमांसा

[सम्पादयतु]
केरलस्य जैनदेवालयः

जैनदर्शने ज्ञानस्य द्वैविध्यं स्वीकृतम अस्ति- निर्विकल्पं सविकल्पं चेति । निर्विकल्पस्य चत्वारो भेदाः सन्ति – चक्षुः , अचक्षुः, अवधिः केवलश्चा । सविकल्पस्य पञ्च भेदाः भवन्तिमतिः, श्रुतिः, अवधिः, मनः पर्यायः, केवलश्च । सविकल्पस्य ज्ञानस्य पञ्चभेदा एव प्रमाणाय विषयीभूताः स्वीक्रियन्ते । प्रमाणं तु यथार्थज्ञानं भवति, यं हि जीवोः स्वेतरस्य कस्यापि साहाय्यं विना लभते । जैनदर्शने प्रत्यक्षस्य कृते मनसः इन्द्रियाणां वा आवस्यकता नास्ति, यतो हि तत्र सर्वदा वस्तुनो यथार्थज्ञानमेव उत्पादयति । जैनदर्शने प्रमाणं द्विधा निरुपितम् । तत्र प्रत्यक्षमपि द्विविधं पारमार्थिकं व्यावहारिकञ्च । पारमार्थिकं प्रत्यक्षं तदस्ति यत् कर्मप्रभावतो मुक्तं स्यात्, स्वातन्त्र्येणा चात्मानं प्रकाशयेत् । अनेनैव जगत् प्रकाशितं भवति । यस्य ज्ञानस्य कृते जीव इन्द्रियार्थसन्निकर्षे मनसि च निर्भरो भवति तत् व्यावहारिकं प्रत्यक्षं भवति ।

साकारस्य ज्ञानस्य मति-श्रुति-अवधि-मनः पर्याय-केवल-भेदात् पञ्च प्रकाराः सन्ति । एषु मतिज्ञानं चतुर्धा प्रतिपादितम्-अवग्रहः अर्थात् संयोगसन्निकर्षः, ईहा संयुक्तसमवायरुपा, अवायः संयुक्तसमवेतसमवायरुपः, धारणा चेति । आगमैराप्तवचनैर्वा प्राप्तं ज्ञाना श्रुतज्ञानं भवति । मतिश्रुतज्ञानयोरपि भेदकत्वं जैनदर्शने निर्दिष्टम् । तथा हि मतिज्ञानं केवलं वर्तमानाश्रितं भवति किन्तु श्रुतज्ञानं त्रैकालिकं भवति । जैनगमानुसारं श्रुतज्ञानं मतिज्ञानापेक्षया प्रामाणिकमस्ति । यतो हि मतिज्ञानं परिणामाश्रितं भवति, किन्तु श्रुतज्ञानम् आप्तवचनं कारणातीतञ्चास्ति ।

घातीय-अघातीय कर्मभ्यो मुक्तो जीवो यदा इन्द्रियादीनि करणानि विना ज्ञानं प्राप्नोति, तदा तत् ज्ञानं पारमार्थिकं प्रत्यक्षमुच्यते । पारमार्थिकप्रत्यक्षस्यापि भेदद्वयं विद्यते केवलज्ञानं विकलज्ञानं च । राग-द्वेषादिरहितम् अर्हत्सु विद्यमानं केवलज्ञानं भवति । विकलज्ञानं तु अवधिमनः पर्यायभेदात् द्विधा वर्तते । ज्ञानावरणे विनिष्टे सति देवतासु नारकीयेषु च स्वभावतो जायमानं ज्ञानं, मनुष्येषु इतरतिर्यग्योनिषु च प्रयत्नपूर्वकं विधीयमानं सम्यग्दर्शनजन्यज्ञानम् अवधिज्ञानं भवति । सम्यकचारित्रेण ज्ञानावरणे विनष्टे यद ज्ञानम् उत्पद्यते जनमनस्सु सीमितं च दृश्यते, तत् मनः पर्यायज्ञानं भवति । इदं विशेषेण तपस्विभिः एव प्राप्यते ।

परोक्षप्रमाणम् (अनुमानम्)-हेतुना साध्यस्य ज्ञाने या प्रक्रिया भवति सा अनुमानमिति उच्यते । अनुमानमपि द्विधा प्रतिपादितम् –स्वार्थानुमानं परार्थानुमानञ्चेति । बहुभिः दृष्टान्तैः एकस्यानिश्चिताया अवधारणायाः पुष्टिः स्वार्थानुमानमस्ति । यथा बहुवारं धूमं विह्नियुक्तं दृष्ट्वा दर्शकः स्वमनसि निर्धारयति यत्र यत्र धूमस्तत्र तत्र वह्निरिति । अत्र कारणरुपस्य धूमस्य कार्यरुपस्य वह्नेश्च साहचर्यं व्याप्तिनाम्ना कथ्यते । अतः साहचर्यनियमो व्याप्तिरिति सिद्धान्तो निर्धारितः । कदाचित् कुत्रचित् सुदूरं पर्वतादौ धूमं दृष्ट्वा पूर्वनिश्चितायाः व्याप्तेः स्मरणात् “ यत्र यत्र धूमस्तत्र तत्र वह्नि” रिति नियमस्य आधारेण् दर्शकः पर्वते वह्निज्ञानं करोति । दर्शकः स्वमनसि विश्वसिति यत् यत्रापि धूमो भविष्यति, तत्रैव वह्निरवश्यं भविष्यति । यतोहि इमां धारणां सः पूर्वमपि बहुभिः दृष्टोदाहरणैः पुष्ट्वान् । अतः धूमे सति वह्नेर्निश्चये स्वार्थानुमानं क्रियान्वितं भवति । अस्मिन् स्वार्थानुमाने यत्र साध्यसिद्धिः सन्दिग्धा भवति, सः पक्षो भवति, यतो हि तस्मिन् हेतुरुपो धूमः स्पष्टरुपेणा परिलक्षितो भवति । अर्थात् पर्वतरुपिणि पक्षे दृश्यमाणो धूमः पक्षधर्मोऽस्ति । यतो हि सः धूमो धूमवत्त्वधर्मेण विशिष्टोऽस्ति । धूमवत्वेन विशिष्टस्य धूमस्य पर्वतरुपिणि पक्षे विद्यमानता पक्षधर्मता भवति । एवं व्याप्तिः पक्षधर्मता चेत्यनुमानस्य मुख्यम् अङ्गमस्ति । अतो व्याप्तिविशिष्टपक्षधर्मतायाः ज्ञानमनुमानं मन्यते ।

परार्थानुमानेऽनुमानस्य उक्तो विधिः परेभ्योऽवगमयितुं उपयुज्यते किन्तु अस्मिन् पञ्च अवयवाः भवन्ति-प्रतिज्ञा, हेतुः, उदाहरणम्, उपनयः निगमनं चेति । यथा “ पर्वतो वह्निमान् धूमात्” इत्यस्मिन् वाक्ये पर्वते वह्निरस्ति इत्यस्य ज्ञापनार्थं प्रतिज्ञा विद्यते । ‘धूमात्’ इति कथनं हेतुरस्ति यतो धूमं विना ‘पर्वते वह्निरस्ति’ इत्यस्य अनुमानं न भवति । यत्र यत्र धूमस्तत्र तत्र वह्निः यथा महानस इति उदाहरणं विद्यते । यथा महानसे तथाऽत्र पर्वते इत्युपनयोऽस्ति । पर्वतेऽपि धूमात् अग्निरेव नान्यत् इति निगमनमस्ति । आचार्यभद्रबाहुप्रतिपादितमतानुसारेण परार्थानुमानस्य प्रक्रियायां दश अवयवा भवन्ति-(१) प्रतिज्ञा (२)प्रतिज्ञाविभक्तिः (३) हेतुः (४) हेतुविभक्तिः (५) विपक्षः (६) विपक्षप्रतिषेधः (७) दृष्टान्तः (८) आशङ्का (९) आशङ्काप्रतिषेधः (१०) निगमनम चेति । अनुमाने प्रायेण पक्षः साध्यो हेतुश्चेति त्रीण्यङ्गानि भवन्ति । अनुमानेन यस्य ज्ञानं विधीयते तत् साध्यं भवति यथा “ पर्वतो वह्निमान्” इत्यादौ वह्निः । यस्मिन् आश्रये साध्यस्य सिद्धिः विधीयते सः पक्षो भवति, यथा “पर्वतो वह्निमान्” इत्याद्युदाहरणे पर्वतः । साध्यस्य सिद्धये यत् साधनं भवति, तत् हेतुर्भवति, यथा “पर्वतो वह्निमान् धूमवत्त्वात्” इत्याद्युदाहरणे धूमवत्त्वम् । अनुमानं ये दूषयन्ति ते दोषा हेत्वाभासा भवन्ति । जैनदर्शने हेत्वाभासः त्रिधा कथितः-असिद्धो विरुद्धः अनैकान्तिकश्च । आश्रयविहीनो हेतुरसिद्धो भवति यथा आकाशपुष्पः सुरभितोऽस्ति, यतोहि पुष्प एव सुरभितो भवति । अत्र पुष्पस्य आश्रयः आकाशो न सिदध्यति अतः असिद्धः हेत्वाभासोऽस्ति । प्रत्यक्षविरुद्धो हेतुः विरुद्धः हेत्वाभासोऽस्ति, यथा “ वह्निरनुष्णो द्रव्यत्वात्” इत्यत्र वह्नेरुष्णत्वं प्रत्यक्षेण न सिदध्यति न च सर्वाणि द्रव्याणि अनुष्णानि भवन्ति । अतः प्रत्यक्षविरुद्धत्वात् अयं हेत्वाभासो विरुद्धोऽस्ति । परस्परं विरोधे सति अनैकान्तिकः हेत्वाभासो भवति । यथा “ सर्वं क्षणिकं सत्त्वात्” इत्यस्मिन् उदाहरणे क्षणिकत्व –स्त्त्वयोः परस्परं विरोधो वर्तते, अतः सत्त्वं हेतुर्नास्ति अपितु हेत्वाभासो वर्तते ।

नयज्ञानम्

[सम्पादयतु]

प्रमाणातिरिक्तात् दृष्टिभेदादपि तत्त्वज्ञानस्य उत्पत्तिः सम्भवति । अयं दृष्टिभेदो नय इत्युच्यते । जैनदर्शनस्य चिन्तने एकं वस्तु अनेकधर्मयुतं भवति । तेषु अनेकेषु धर्मेषु विद्यमानेष्वपि एकस्य धर्मविशेषस्य ग्रहणेन वस्तु निश्चीयते तत्र वस्तुनिश्चयस्य प्रक्रिया नय इत्युच्यते । नयेन वस्तुनः एकस्यैवाङ्गस्य ज्ञानं भवितुं शक्नोति, किन्तु प्रमाणेन वस्तुनः अनेकेषां धर्माणां ज्ञानं भवति । नयोऽपि द्विधा भवति निश्चयनयो व्यावहारिकनयश्च निश्चयनयेन वस्तूनां तात्विकं ज्ञानं जायते, व्यावहारिकनयेन च वस्तूनां सांसारिकं ज्ञानं भवति । एतदतिरिक्तमपि वस्तूनां विभिन्नानि रुपाणि विभिन्नदृष्टयाऽवगन्तुं निश्चयनय-व्यावहारिकनयाभ्याम् अतिरिक्तमपि अनेके नयाः जैनदर्शने स्वीकृताः सन्ति, येषु द्रव्यार्थिकनयः पारमार्थिकनयश्च प्रमुखौ स्तः । कर्मवादः जैनदार्शनिकैरपि कर्माण्येव बन्धनानां मुख्यकारणतया स्वीकृतानि सन्ति । कर्मवशादेव जीवस्य क्रोध –मान-माया—लोभादिभिश्चतुर्भिः कषायैः अनादि अनन्तं च सम्पर्को भवति । अतः कर्म एव अविद्याऽस्ति । इदं स्वीकर्त्तुं शाक्नोति । जीवस्य कर्मणां तत्सम्पर्कगैः वस्तुभिः सम्बन्धस्तिष्ठति । कर्मसम्बन्धिनः पुद्गलाः कर्मपुद्गलाः भवन्ति ।

स्वाभाववादोऽनेकान्तवादश्च –जैनमतानिसारेणा सतो द्रव्यस्य वा स्वभावपरिणामिता स्वीक्रियते । अतस्तस्य उत्पादव्ययौ जायेते । तथापि द्रव्यस्य सतो वा मूलतो ध्रौव्यम् अस्ति, अतः तस्य विनाशो न जायते यथा घटः पटो वा । घटस्य उत्पत्तिः मृत्तिकया भवति, पुनश्च तस्य विनाशो भूत्वा ध्वंसरुपोऽप्यवशिष्यते स च मृत्तिकैवास्ति । पदार्थस्य मौलिकं रुपं यथा घटस्य मृदा, उभयोरवस्थयोः भवति । इदमेव ध्रौव्यमस्ति । तत्त्वचिन्तनस्य दशायां अनेकेषां धर्माणां विचारः आवश्यकोऽस्ति, तदैव तद्वस्तुनः स्वरुपस्य परिचयः प्राप्यते । परिणामि नित्यतावादः –जैनसिद्धान्तानुसारेण सत्सु द्रव्येषु वा उत्पादव्ययध्रौव्यादयो गुणा विद्यन्ते । उत्पादविनाशसदृशयोरवस्थयोरपि वस्तुनोऽस्तित्वं सिदध्यति । परस्पर विरुद्धयोरवस्थयोरपि विद्यमानतया अयं परिणामिनित्यतावादोऽनेकान्तवादो वा कथ्यते । जैनमतेन चेतनाचेतनयोः सर्वयोः पदार्थयोः असंख्ये धर्माः सन्ति । यथा आत्मनि सत्त्व-व्यापकत्व चेतनत्वादयो धर्माः विद्यन्ते, किन्तु इमे धर्माः कस्यापि अपरस्य वस्तुनः अपेक्षया वर्तन्ते, कस्याप्यन्यस्य अपेक्षया च नैव वर्तन्ते । एवं कस्यचिद अपेक्षया आत्मा सत् अस्ति कस्यचिच्च अपेक्षया आत्मा असत् वर्तते । वस्तुतस्तु वस्तुनः स्वरुपं न केवलं तस्यैव वस्तुनो ज्ञानस्यापेक्षा न भवति, अपितु अन्येषा तेषामपि वस्तूनां ज्ञानमावश्यकं भवति, येषामपेक्षया मूलवस्तुनः स्वरुपं ज्ञातुं शक्यते । अर्थात् एकस्य वस्तुनस्तत्त्वज्ञानाय अन्यवस्तूनां सम्भावनाऽपि परोक्ष्या भवति एषा सम्भावना जैनदर्शने ‘स्याद्’ इति पदेन व्यज्यते ।

आधाराः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=जैनदर्शनम्&oldid=489019" इत्यस्माद् प्रतिप्राप्तम्