भोपालमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भोपाल मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
भोपालमण्डलम्

Bhopal District
भोपाल जिला
भोपालमण्डलम्
भोपालमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे भोपाल मण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे भोपाल मण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि हुजुर, बेरासिया
विस्तारः २,७७२ च. कि. मी.
जनसङ्ख्या (२०११) २३,७१,०६१
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ८०.३७%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४६%
Website http://bhopal.nic.in/

भोपालमण्डलम् ( /ˈbhpɑːləməndələm/) (हिन्दी: भोपाल जिला, आङ्ग्ल: Bhopal district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति भोपाल इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

भोपालमण्डलस्य विस्तारः २,७७२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे रायसेनमण्डलं, पश्चिमे सिहोरमण्डलम्, उत्तरे गुनामण्डलं, दक्षिणे सिहोरमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं भोपालमण्डलस्य जनसङ्ख्या २३,७१,०६१ अस्ति । अत्र १२,३६,१३० पुरुषाः, ११,३४,९३१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८५५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८५५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.६२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१८ अस्ति । अत्र साक्षरता ८०.३७% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते - हुजुर, बेरासिया ।

वीक्षणीयस्थलानि[सम्पादयतु]

भोजपुर[सम्पादयतु]

भोजपुर-नगरं भोपालमण्डलस्य नगरम् अस्ति । अस्मिन् नगरे एकं भव्यं मन्दिरम् अस्ति । तस्य नाम भोजपुरेश्वर-मन्दिरम् इति । इदं मन्दिरं १००० वर्षप्राचीनम् अस्ति । इदं भगवतः शिवस्य मन्दिरमस्ति । मन्दिरेऽस्मिन् सुन्दरं शिवलिङ्गम् अस्ति । अस्य लिङ्गस्य उच्चता ७.५ फीट अस्ति । महाशिवरात्रिपर्वणि बहवः भक्ताः तत्र दर्शनाय गच्छन्ति ।

इस्लाम-नगरम्[सम्पादयतु]

इस्लाम-नगरं भोपालनगरात् ११ कि. मी. दूरे अस्ति । अस्मिन् हिन्दु-इस्लामी सज्जीकलाः सन्ति । अस्य स्थलस्य निर्माणं अफगान-शासकेन दोस्त मोहम्मद खान इत्यनेन कारितम् । भीमबेटका, सामसगढ, मनुआ भान की टेकरी इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भोपालमण्डलम्&oldid=480734" इत्यस्माद् प्रतिप्राप्तम्