सामग्री पर जाएँ

मामितमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मामितमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)

Mamit district
मण्डलम्
मिझोरामराज्ये मामितमण्डलम्
मिझोरामराज्ये मामितमण्डलम्
देशः  India
मण्डलम् मामितमण्डलम्
विस्तारः ३०२५.७५ च.कि.मी.
जनसङ्ख्या(२०११) ८६,३६४
Government
  मण्डलसङ्गाहकः
(District Collector)
Rodney L Ralte
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://mamit.nic.in/
डम्पा अभयारण्यस्य एकं दृश्यम्
डम्पा अभयारण्यस्य एकं दृश्यम्

मामितमण्डलं (आङ्ग्ल: Mamit District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं मामित इत्येतन्नगरम् । १९९८ तमे वर्षे ऐजोलमण्डलस्य विभाजनं कृत्वा मामितमण्डलस्य स्थापना कृता । अतः नूतनमिदं मण्डलम् ।

भौगोलिकम्

[सम्पादयतु]

मामितमण्डलस्य विस्तारः ३०२५.७५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि कोलासिबमण्डलं, पश्चिमदिशि उत्तरत्रिपुरामण्डलं, बाङ्ग्लादेशः च, दक्षिणदिशि लुङ्गलैमण्डलं , उत्तरदिशि अस्सामराज्यम् अस्ति । मण्डलेऽस्मिन् त्लोङ्ग, तुट्, तेरेय्, लाङ्गकाय्, खोत्लोङ्गतोय्पोय् च प्रमुखनद्यः सन्ति ।

जनसङ्ख्या

[सम्पादयतु]

मामितमण्डलस्य जनसङ्ख्या(२०११) ८६,३६४ अस्ति । अस्मिन् ४४,८२८ पुरुषाः, ४१,५३६ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे २९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३७.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२७ अस्ति । अत्र साक्षरता ८४.९३ % अस्ति । मण्डलेऽस्मिन् ८२.७५% जनाः ग्रामेषु निवसन्ति ।

मण्डलेऽस्मिन् जल-पर्वत-सम्पत्कारणात् वनानां बाहुल्यं वर्तते । वनेषु वंशवृक्षाः, काष्ठं च उपलभ्यन्ते । बहुसङ्ख्यजनानाम् कृषिः एव उपजीविकासाधनम् । तण्डुलाः, पूगफलं, हरिद्रा च प्रमुखसस्योत्पादनानि सन्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति तानि -

  • पश्चिम फेलिङ्ग
  • पेइक
  • मामित

लोकजीवनम्

[सम्पादयतु]

समाजे, कुटुम्बव्यवस्थायां च महिलानां स्थानं महत्त्वपूर्णम् । अस्मिन् मण्डले मिजो, रिआङ्ग(ब्रु), चक्मा च जनजातयः निवसन्ति । मण्डलमिदम् अल्पसङ्ख्याङ्कजनजातीनां प्राचुर्यात् जनजातिबहुसङ्ख्यं मन्यते । यानि मण्डलानि भारतदेशे जनजातिबहुसङ्ख्यकानि गण्यन्ते तेषु अन्यतमम् इदम् । मण्डलस्य सीमाप्रदेशे निवसन्तः चक्माजनजातिजनाः विकसनशीलाः । ते कृषियोग्यभूमिविषये, राजकीयविषये समस्याः सहन्ते । मण्डलेऽस्मिन् शिक्षणसुविधाः न्यूनाः सन्ति । इदानीं विकासकार्याणि जायमानानि सन्ति । मामितमण्डलजनाः तेषां पारम्परिकनृत्यप्रकारार्थं प्रसिद्धाः । 'खुल्लम्', छेइ-लाम्, सर्लम्कै, चेरो च लोकनृत्यानि विशिष्टानि सन्ति । जनानाम् उत्सवाः कृषिसम्बद्धाः सन्ति, यथा मिम्-कुट्, पोल् कुट् इत्यादयः ।

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • डम्पा वन्यप्राणि-अभयारण्यं, व्याघ्रप्रकल्पश्च
  • पुल्लङ्गसेइ ऐतिहासिक-ग्रामः
  • कुङ्घमुन् ग्रामः
  • पश्चिम् फाइलेङ्ग
  • सैत्लौ नगरम्
  • लुङ्ग्कुल्ह पुरातत्त्वदृष्ट्या महत्त्वपूर्णं स्थानम्
  • लिङ्गमोल
रेक् त्लाङ्गपर्वतावलिः

बाह्यानुबन्धाः

[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=मामितमण्डलम्&oldid=481729" इत्यस्माद् प्रतिप्राप्तम्