लवः
लवः | |
---|---|
अयं लवः अपि रामायणस्य किञ्चन महत्त्वयुतं पात्रम् । एषः लवः रामसीतयोः पुत्रः । महाराजस्य दशरथस्य पौत्रः । कुशः अस्य सहोदरः । अनेन निर्मितः एव लवकोटिपुरम् अद्यतन लाहोर् नगरम् । श्रीरामचन्द्रेण सीतायां जातयमलयोः ज्येष्ठः कुशः । कनीयः लवः । वाल्मीकिमुनेः आश्रमे वर्धितौ उभावपि अतीव पराक्रमिणौ बालौ । । श्रीरामचन्द्रः लोकापवादात् भीतः सीतां वाल्मीकेः आश्रमस्य परिसरे त्यक्त्वा आगच्छतु इति लक्ष्मणम् आदिशत् । तदनुगुणं लक्ष्मणः गर्भवतीं प्रजावतीं तां वने त्यक्वा आगतवान् । शोकतप्तां सीतां तत्रागतः वाल्मीकिमुनिः नीत्वा आश्रमे आश्रयं दत्तवान् । कालक्रमेण सीता तत्र ऋषिपत्नीनां सेवया नवमासपूर्तेः पश्चात् यमलसन्तानम् असूत । हर्षनिर्भरः वाल्मीकिः तत्रागत्य कुशमुष्टिना प्रथमं लवमुष्टिना अन्यम् अभिमन्त्र्य कुशः लवः च इति नामकरणं कृत्वा उभावपि महापराक्रमिणौ भविष्यतः इति सीताम् उक्तवान् ।
वीरकथा
[सम्पादयतु]कदाचित् सीता अतिशीघ्रं पत्युः समागमः कथं भविष्यति इति वाल्मीकिम् अपृच्छत् । तदा वाल्मीकिः सुवर्णकमलैः प्रतिपदः नवमीपर्यन्तं श्रीरामस्य पादुके अर्चयति चेत् श्रीरामस्य दर्शनं शीघ्रं भवति इति उक्तवान् । मातुराशयं ज्ञात्वा लवः अयोध्यां गत्वा रामदूतैः सह आयुध्य जित्वा उद्यानात् स्वर्णकमलानि आनीय मातुः व्रतं सम्पूरितवान् । वाल्मीकिः कुशलवयोः अन्नप्राशनादीन् सकालिकसंस्कारान् कृतवान् । कालान्तरेण तौ सकलविद्यापारङ्गतौ अभवताम् । पश्चात् वाल्मीकिः स्वरचितं २४सहस्रश्लोकयुक्तं रामायणम् एतौ सवाद्यं गातुं बोधितवान् । एतौ बहुत्र गायन्तौ जनान् परितोषयतः स्म । अत्रान्तरे श्रीरामचन्द्रः अश्वमेधयागदीक्षितः यज्ञाश्वसंरक्षार्थं शत्रुघ्नं नियोजितवान् । अश्वः विविधभूभागेषु सञ्चरन् वाल्मीकेः आश्रमपरिसरं प्राविशत् । तदा लवः यज्ञाश्वं बन्धयित्वा शत्रुघ्नेन सह प्रयुध्य मूर्छितः । पश्चात् कुशः शत्रुघ्नं भरतं च पराजितवान् ।