शिवपुरीमण्डलम्
शिवपुरीमण्डलम् Shivpuri District | |
---|---|
शिवपुरी जिला | |
शिवपुरीमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे शिवपुरीमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | शिवपुरी, पोहरी, नरवर, करेरा, कोलारस, पिछोर, बदरवास, खनियाधन |
विस्तारः | १०,०६६ च. कि. मी. |
जनसङ्ख्या (२०११) | १७,२६,०५० |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६२.५५% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४३.५% |
Website | http://shivpuri.nic.in/ |
शिवपुरीमण्डलम् ( ( शृणु) /ˈʃɪvəpʊriːməndələm/) (हिन्दी: शिवपुरी जिला, आङ्ग्ल: Shivpuri district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति शिवपुरी इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]शिवपुरीमण्डलस्य विस्तारः १०,०६६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे श्योपुरमण्डलम्, उत्तरे ग्वालियरमण्डलं, दक्षिणे अशोकनगरमण्डलम् अस्ति । अस्मिन् मण्डले कालीसिन्धनदी प्रवहति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं शिवपुरीमण्डलस्य जनसङ्ख्या १७,२६,०५० अस्ति । अत्र ९,१९,७९५ पुरुषाः, ८,०६,२५५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.७६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८७७ अस्ति । अत्र साक्षरता ६२.५५% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- शिवपुरी, पोहरी, नरवर, करेरा, कोलारस, पिछोर, बदरवास, खनियाधन ।
वीक्षणीयस्थलानि
[सम्पादयतु]माधव-राष्ट्रिय-उद्यानम्
[सम्पादयतु]माधव-राष्ट्रियोद्यानं आगरा-मुम्बई मार्गे अस्ति । इदं स्थलं १५७.५२ चतुरस्रकिलोमीटरपरिमितं विस्तृतम् अस्ति । अस्मिन् उद्याने बहवः पशवः सन्ति । इदम् उद्यानं वन्यजीवनस्य स्वर्गं मन्यते ।
छतरी
[सम्पादयतु]छतरी इतीदं स्थलं शिवपुरी-नगरे स्थितमस्ति । इदं स्थलं सिन्धिया-वंशजैः निर्मापितम् । अस्मिन् स्थले एकं मुगल-उद्यानम् अस्ति । अत्र हिन्दु एवं मुस्लिम वास्तुकलायाः उपयोगः कृतः अस्ति । माधव विलास पैलेस, टाईगर सफारी, बाण गङ्गा इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
ग्वालियरमण्डलम् | ||||
श्योपुरमण्डलम् | उत्तरप्रदेशराज्यम् | |||
शिवपुरीमण्डलम् | ||||
अशोकनगरमण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये शिवपुरीमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://shivpuri.nic.in/
http://www.census2011.co.in/census/district/290-shivpuri.html