सेलम्-मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सेलम्-मण्डलम्

சேலம் மாவட்டம்

—  मण्डलम्  —
निशायां सेलं नगरम् latd = 11
निशायां सेलं नगरम् latd = 11
निर्देशाङ्काः
देशः भारतम्
राज्यम् तमिळ्नाडु
उपमण्डलम् अट्टूरू, एडप्पाडिः, गङ्गवल्ली, मेट्टूरुः, ओमलूरुः, सेलम्, शङ्खगिरिः, वाऴप्पाडिः, येर्काडुः
व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
केन्द्रीय-अवस्थितिः- ११°३९′ उत्तरदिक् ७८°८′ पूर्वदिक् / 11.650°उत्तरदिक् 78.133°पूर्वदिक् / ११.६५०; ७८.१३३
जालस्थानम् Official website of Salem District


सेलं मण्डलम् (Salem district) (तमिऴ्: சேலம்மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु सेलम् अन्यतमम् । अस्य केन्द्रस्थानं सेलं नगरम् । मण्डलस्य अन्यानि प्रमुखनगराणि मेट्टूरुः, ओमलूरुः, अत्तूरुः च । सेलंमण्डलस्य आम्रफलानि, सारलोहः च प्रसिद्धः । तमिऴ्नाडुराज्यस्य जलमूलेषु प्रमुखः मेट्टूरुजलबन्धः अस्मिन् मण्डले एव अस्ति ।

भौगोलिकम्[सम्पादयतु]

सेलं मण्डलस्य उत्तरभागे धर्मपुरीमण्डलम्, ईशान्ये विलुप्पुरमण्डलम्, आग्नेयदिशि पेरम्बलूरुमण्डलम्, दक्षिणे नामक्कल तिरुच्चिरापळ्ळिमण्डले, पश्चिमे ईरोडुमण्डलं च अस्ति । इदं मण्डलं बेङ्गलूरुमधुरैनगरयोः मार्गस्य मध्यभागे अस्ति । इदं गिरिभिः आवृतम् । येर्काडुगिरिधाम अस्य मण्डलस्य प्रमुखेषु प्रवासिस्थानेषु अन्यतमम् । नागरमलै, जेरगमलै, कञ्जमलै, गोडुमलै, कल्रायगिरिः, पच्चैमलै, पूर्वघट्टाः, शङ्खगिरिः, पालमलै इत्यादयः बहवः गिरयः अस्मिन् मण्डले सन्ति । कावेरी, तिरुमणिमुत्तारुः, वसिष्ठा, शरभङ्गा च अत्र प्रवहन्त्यः प्रमुखाः नद्यः ।

इतिहासः[सम्पादयतु]

प्रागैतिहासिककालस्य शिलासाधनानि भस्मराशयः च सेलंमण्डले लब्धानि सन्ति । क्रिस्तीयगणनायाः आरम्भसमये एव अयं प्रसिद्धः प्रदेशः आसीत् । रोमनमहाराजस्य नाणकानि १९८७ तमे वर्षे अस्य मण्डलस्य कोनेरिपाट्टौ प्राप्तानि । प्राक्काले सेलं मण्डलं कोङ्गुनाडुनः भागः आसीत् । क्रिस्तीये द्वितीयशतके अस्मिन् प्रदेशे पाण्ड्यानां प्रशासनम् आसीत् । चतुर्थशतके पल्लवाः प्रबलाः अभवन् । षष्ठे शतके महेन्द्रपल्लववर्मणः शासनकाले शैवधर्मः जनप्रियः अभवत् । अष्टमशतके पाण्ड्याः, ततः नवमशतकस्य अन्ते पुनः पल्लवाः इमं प्रदेशं शासितवन्तः । दशमः, एकादशशतकयोः चोळानां प्रशासनम् अभवत् । क्रिस्तीये द्वादशशतके होय्सलाः मण्डलस्य कांश्चन प्रदेशान् जितवन्तः । चतुर्दशशतकाद् आरभ्य विजयनगरराजानः अत्र शासनं कृतवन्तः । विजयनगरसाम्राज्यस्य अवनतेः अनन्तरं प्रादेशिकाः गट्टिवंशस्थाः नायकवंशस्थाः च स्वीयम् आधिपत्यं स्थापयामासुः । अष्टादशशतके हैदरालिः, टिपूसुल्तानः च इमं प्रदेशं वशीकृत्य शासितवन्तौ । ब्रिटिशैः टिपूसुल्तानस्य पराजयानन्तरम् अयं प्रदेशः ब्रिटिश् साम्राज्यस्य भागः अभवत् । १७७२ तमे वर्षे अत्र प्रथमः समाहर्ता नियोजितः । सेलम्, धर्मपुरी इति मण्डलद्वयरूपेण विभागात् पूर्वं सेलं तमिऴ्नाडुराज्ये बृहत्तमं मण्डलम् आसीत् । १९६५ तमे वर्षे धर्मपुरीमण्डलं निर्मितम् । ततः पुनः १९९७ तमे वर्षे नामक्कलमण्डलं, सेलंमण्डलात् पृथक्कृतम् ।


जनसंख्या[सम्पादयतु]

२०११ तमस्य वर्षस्य जनगणनानुगुणं सेलं मण्डलस्य जनसंख्या ३,४८०,००८ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ८९ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ६६३ (१,७२० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धिः १५.३७% आसीत् । अत्र पुं, स्त्री अनुपातः १०००:९५४ अस्ति । साक्षरताप्रमाणं ७३.२३% ।

उपमण्डलानि[सम्पादयतु]

सेलं मण्डले नव उपमण्डलानि सन्ति। तान्ति -

१. अट्टूरूह्
२. एडप्पाडिः
३. गङ्गवल्ली
४. मेट्टूरुः
५. ओमलूरुः
६. सेलम्
७. शङ्खगिरिः
८. वाऴप्पाडिः
९. येर्काडुः

कृषिः वाणिज्यं च[सम्पादयतु]

सेलं मण्डलस्य आम्रफलानि बहुप्रसिद्धानि । विशिष्य मलगोबाप्रभेदस्य आम्राणि अत्र बहुधा रुह्यन्ते । सेलं नगरस्य समीपे स्थिता भारतीयसारलोहनिर्वहणासंस्था (स्टील् अथारिटि आफ़् इण्डिया लिमिटेड्), स्फटीयसंस्था (मद्रास् अल्युमिनियं कम्पनी लिमिटेड्), रसायनोत्पादकसंस्था (केम्प्लास्ट् सन्मार् लिमिटेड्), मेट्टूरुजलबन्धस्य समीपे जेएस्‌डब्ल्यू सारलोहसंस्था च अत्रत्यानि प्रमुखाणि उद्यमानि । सेलं तः प्रायः ५० किलोमीटर् दूरे मेट्टूरु उष्णविद्युत्स्थावरः अस्ति । सेलं नगरे अनेके तन्तुवायाः अपि सन्ति । अत्र निर्मिताः शाटिकाः बहुप्रसिद्धाः । सेलं मण्डले अयःखनयः प्रभूततया सन्ति । ऐतिहासिककालादपि अत्र उत्तमः सारलोहः निर्मीयमाणः अस्ति । ईजिप्ट् देशस्य शिल्पिभिः उपयुक्तानि साधनानि सेलं सारलोहेण एव निर्मितानि स्युः इति केचन ऐतिहासिकाः अभिप्रयन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

कैलासनाथदेवालयः[सम्पादयतु]

अयं देवालयः सेलं नगरात् ३० किलोमीटर् दूरे तारमङ्गलपत्तने अस्ति । अस्य देवालयस्य केचन भागाः क्रिस्तीये दशमशतके एव निर्मिताः । इदानीं विद्यमानः देवालयः तु सप्तदशशतके गट्टि मुदलियारवंशस्थैः निर्मितः ।

जामामस्जिद्[सम्पादयतु]

सेलं नगरस्य प्राचीनतमम् इस्लाममन्दिरम् इदम् । नगरस्य मध्यभागे तिरुमणिमुत्तारुनद्याः दक्षिणतीरे इदं मन्दिरम् अस्ति । इदं मैसूरुराजेन टिप्पुसुल्तानेन निर्मितम् ।

येर्काडु[सम्पादयतु]

दक्षिणस्य रत्नम् इति प्रसिद्धम् इदं गिरिधाम शेर्वरायपर्वतश्रेण्याम् अस्ति । इदं गिरिधाम सेलं नगरात् ३० किलोमीटर् दूरे अस्ति । अस्य विस्तारः ३८३ चतुरश्रकिलोमीटर् । अत्र उष्णांशः कदापि ३०० सीतः उपरि वा, १३० सीतः न्यूनं वा न भवति । अतः वर्षस्य सर्वेषु कालेषु अत्र वासः अत्यन्तं सुखकरः । अत्र अरण्यस्य मध्ये येर्काडुसरोवरः अस्ति । अण्णापार्क् इत्याख्यम् उद्यानमपि सरोवरस्य समीपे एव अस्ति । लेडीस् सीट्, पगोडा पयिण्ट्, किल्लियूरुजलपातः, शेर्वरायकावेरी अम्मन् देवालयः इत्यादयः अत्रत्याः वीक्षणीयप्रदेशाः ।

मेट्टूरु[सम्पादयतु]

इदं पत्तनं सेलं नगरात् ६० किलोमीटर् दूरे कावेर्याः तीरे अस्ति । अत्र गृहीतानि मत्स्यानि सुदूरेभ्यः नगरेभ्यः कोलकत्ताप्रभृत्तिभ्यः अपि प्रेष्यन्ते । मेट्टोरौ राज्यस्य प्रमुखः जलबन्धः, मेट्टूरुजलबन्धः अस्ति । अयं जलबन्धः सीतामलै, पालमलैगिर्योः मध्ये १९२९ तमे वर्षे निर्मितः । अत्र सङ्गृहीतं जलं प्राधान्येन कृषिकार्यार्थम् उपयुज्यते । अस्य कश्चन भागः विद्युतः उत्पादनार्थम् अपि उपयुज्यते । जलबन्धस्य समीपे एव मेट्टूरु उष्णविद्युत्स्थावरः अस्ति । जलबन्धस्य निकटे एकम् उद्यानम् अपि अस्ति । प्रतिवर्षम् आगस्ट् मासे अत्र आडिपेरुक्कुपर्व आचर्यते । अस्मिन् सन्दर्भे अनेके प्रवासिनः अत्र आगत्य कावेरीनद्यां स्नानं कुर्वन्ति ।

उत्तुमलै[सम्पादयतु]

सेलं नगरात् ६ किलोमीटर् दूरे अयं गिरिः अस्ति । इतः सेलं नगरस्य दृश्यं रमणीयं भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. www.tn.gov.in
"https://sa.wikipedia.org/w/index.php?title=सेलम्-मण्डलम्&oldid=481106" इत्यस्माद् प्रतिप्राप्तम्