सामग्री पर जाएँ

के आर् नारायणन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(K. R. Narayanan इत्यस्मात् पुनर्निर्दिष्टम्)
कोचेरिल् रामन् नारायणन्
Kocheril Raman Narayanan
भारतस्य दशमः राष्ट्रपतिः
कार्यालये
२५/७/१९९७ – २५/७/२००२
प्रधानमन्त्री गुजराल
अटल बिहारी वाजपेयी
उपराष्ट्रपतिः किशन कान्त
पूर्वगमः श्रीशङ्कर दयाल शर्मा
पादानुध्यातः ए पी जे अब्दुल् कलाम्
उपराष्ट्रपतिः
कार्यालये
२१/८/१९९२ – २४/७/१९९७
राष्ट्रपतिः श्रीशङ्कर दयाल शर्मा
पूर्वगमः श्रीशङ्कर दयाल शर्मा
पादानुध्यातः किशन कान्त
व्यक्तिगत विचाराः
जननम् २७/१०/१९२०
उळवूर, केरलराज्यं, भारतम्
मरणम् ९/११/२००५
नवदेहली, भारतम्
राजनैतिकपक्षः इण्डियन् नेशनल् कोङ्ग्रेस्
मुख्यशिक्षणम् केरलविश्वविद्यालयः (B.A., M.A.)
लण्डन् स्कूल ऑफ् इकनॉमिक्स् (B.Sc)
धर्मः हिन्दुधर्मः
हस्ताक्षरम्

श्रीकोचेरिल् रामन् नारायणन् ( /ˈkxərɪl rɑːmən nɑːrɑːjənən/) (मलयाळ: കെ.ആർ. നാരായണൻ, आङ्ग्ल: K R Narayanan) भारतगणराज्यस्य दशमः राष्ट्रपतिःराष्ट्रपतेः कार्ये पारदर्शिता भवतु इति विचारस्य जनकः, अनुगामी च श्रीनारायणन् देशहिताय बहूनि कार्याणि अकरोत् । भारतगणराज्यस्य प्रप्रथमः दलित-राष्ट्रपतिः एषः । प्रतिभावत् व्यक्तित्वं, ज्ञानस्य तीव्रपिपासा, कर्मनिष्ठा तस्य सफलतायाः मूलकारणानि । अन्ताराष्ट्रियविषय-शिक्षा-राजनीति-विज्ञान-दर्शन-साहित्य-कला-नृत्य-सङ्गीत-पर्यटनादीनां विषयाणां गहनतया अध्ययनं कृतमासीत् तेन । सर्वेषु विषयेषु नैपुण्यं प्राप्तः सः स्वस्य ज्ञानस्य लाभं पुस्तकमाध्यमेनापि जनसामान्येभ्यः अयच्छत् । सः स्वस्य जीवनविषये कथयति स्म यत्,

I see and understand both the symbolic as well as the substantive elements of the life. Sometimes I visualize it as a journey of an individual from a remote village on the sidelines of society to the hub of social standing. But at the same time I also realize that my life encapsulates the ability of the democratic system to accommodate and empower marginalized sections of society

१९२० तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तविंशतितमे (२७/१०/१९२०) दिनाङ्के केरलराज्यस्य कोट्टयममण्डलस्य उळवूर-ग्रामे श्रीनारायणस्य जन्म अभवत् । तस्य पिता कोचेरिल् प्रतिष्ठितः वैद्यः आसीत् । तस्य माता पापियम्म निरक्षरासीत्, परन्तु व्यावहारिकजीवनस्य बहुज्ञानम् आसीत् तस्याः । तयोः सप्त शिशवः आसन् । तेषु श्रीनारायणः चतुर्थः । कोचेरिल् इत्यस्य आर्थिकस्थितिः सुदृढा नासीत् । सः वनेषु उपलब्धौषधीनाम् उपयोगेन आयुर्वैदिकरीत्या रोगिणाम् उपचारं करोति स्म । सामान्यतः तस्य औषधकार्यं सेवाभावेन एव चलति स्म । निर्धनग्रामीणाः वैद्याय कियत् धनं दातुं शक्नुयुः ? मध्याह्न-सायङ्कालयोः भोजनमपि बहु परिश्रमेण एकत्रितं भवति स्म ।

शिक्षणम्

[सम्पादयतु]

पठने श्रीनारायणस्य बहुरुचिः आसीत् । बालकस्य पठनरुचिं पश्यन् पिता तम् उळवूर-ग्रामस्थं विद्यालयं पठितुं प्रैषयत् । पठनपिपासोः श्रीनारायणस्य प्राथमिकशिक्षणं परिश्रमयुक्तं, दुष्करं चासीत् । पञ्चदश कि.मी. दूरे स्थितं विद्यालयं श्रीनारायणः चलित्वा नियततया गच्छति स्म । निर्धनपिता विद्यालयस्य मासिकशुल्कं (monthly fees) दातुं न शक्नोति स्म । अतः शिक्षकाः मुहुर्मुहुः श्रीनारायणं वर्गात् बहिः प्रेषयन्ति स्म । परन्तु ज्ञानस्य उपरि कस्यापि अधिकारः न भवति । श्रीनारायणः वर्गात् बहिस्स्थित्वापि शिक्षकस्य पाठम् अवधानेन शृणोति स्म । श्रीनारायणस्य पितुः पार्श्वे पुस्तकं क्रेतुं धनमपि नासीत् । अतः श्रीनारायणस्य अग्रजः अन्यविद्यार्थिभ्यः पुस्तकानि याचयित्वा तस्य प्रतिलिपिं करोति स्म । अग्रजेन कृताभ्यः प्रतिलिपिभ्यः श्रीनारायणः स्वाध्ययनं करोति स्म । स्वस्य उच्चपठननिष्ठया सः महात्मना स्थापितात् हरिजन-सेवक-सङ्घात् छात्रवृत्तिं प्रापत् । ततः परं तेन छात्रवृत्त्या एव अध्ययनं कृतम् । १९३६-३७ वर्षे सः कुरविलङ्गडु-ग्रामस्य 'सेण्ट मेरीस्'-उच्चविद्यालयात् प्रथमश्रेण्या उत्तीर्णः अभवत् । ततः १९४० तमे वर्षे कोच्चायम-ग्रामस्य 'सी. एम्. एम्.'-महाविद्यालयात् 'इण्डरमीडिएट्' मध्ये उत्तीर्णः अभवत् । 'इण्डरमीडिएट' उत्तीर्णः विंशतिवर्षीयः श्रीनारायणः त्रावणकोर-विश्वविद्यालयात् (अधुना केरलविश्वविद्यालयः) 'बी.ए. ऑनर्स्, एम्. ए.' (आङ्ग्लसाहित्यं) च प्रापत् ।

उच्चशिक्षां प्राप्तुं श्रीनारायणस्य बहु इच्छा आसीत् । परन्तु परिवारस्य निर्धनताम् अपाकर्तुं सः जीविकोपार्जनं प्रारभत । तस्य रुचिः पत्रकारितायाम् (journalism) आसीत् । अतः सः देहली-महानगरं गत्वा ‘द हिन्दू’, ‘द टाइम्स् ऑफ् इण्डिया’ समाचारपत्रयोः कृते कार्यं प्रारब्धम् । "१९४५ तमस्य वर्षस्य 'अप्रैल'-मासस्य दशमे (१०/४/१९४५) दिनाङ्के महात्मनः साक्षात्कारम् अकरवम् । सः पत्रकारत्वेन मम उत्तमतमः अवसरः आसीत्" इति सः स्वस्य जीवन्याम् अलिखत् ।

सः यावत् धनम् अर्जयति स्म, तावत् तु परिवारस्य पोषणाय एव पर्याप्तम् आसीत् । परन्तु विदेशं गत्वा पठितुं यावत् धनम् आवश्यकम् आसीत्, तावत् धनं सः सङ्गृहीतुं न शक्तः । तस्य हृदि स्थिता विदेशे पठनस्य इच्छा तं व्याकुलं करोति स्म । तदैव तेन कश्चित् मार्ग प्राप्तः । बाल्यकालात् युवावस्थापर्यन्तं यत् अध्ययनम् अकरोत्, तस्य विवरणम् एकस्मिन् पत्रे लिखित्वा सः श्रीजे.डी.आर. ताता इत्यस्मै प्रैषयत् । तेन पत्रेण सह विदेशे पठनस्य व्ययस्य विवरणमपि प्रैषयत् सः । श्रीताता स्वस्य आशीर्वादेन सह श्रीनारायणस्य विदेशे अध्ययनाय यावत् धनम् आवश्यकम् आसीत्, तावत् तस्मै अयच्छत् । १९४५ तमे वर्षे सः विदेशं गत्वा 'लण्डन् स्कूल् ऑफ् इकनॉमिक्स्'-महाविद्यालये प्रवेशं प्रापत् । तस्मात् महाविद्यालयात् 'बी.एस.सी. ऑनर्स्'-राजनीतिविज्ञान-इत्यनयोः विषयोः नैपुण्यम् आर्जयत् सः ।

यस्मिन् 'लण्डन् स्कूल् ऑफ् इकनॉमिक्स्'-महाविद्यालये श्रीनारायणः पठति स्म, नेहरू तस्य महाविद्यालयस्य प्राच्यछात्रः आसीत् । श्रीनारायणः यस्मात् प्राध्यापकात् राजनीतिविषयम् अपठत्, तस्मात् प्राध्यापकात् नेहरू अपि राजनीतिं पठितवान् आसीत् । तस्य प्राध्यापकस्य ख्यातिः चतसृषु दिक्षु आसीत् । तस्य ज्ञानं, चिन्तनशक्तिः विद्यार्थिनः आकर्षयति स्म । तस्य नाम आसीत् गेरॉल्ड् लॉस्की । सः गेरॉल्ड लॉस्की श्रीनारायणात् प्रभावितः आसीत् । श्रीनारायणस्य राजनीतिविषयकं ज्ञानं तेन सम्यक् अनुभूतम् आसीत् । अतः सः स्वस्य प्राच्यछात्राय नेहरू इत्यस्मै एकं पत्रं श्रीनारायणस्य माध्यमेन प्रैषयत् । तस्मिन् पत्रे तेन श्रीनारायणस्य राजनीतौ आधिपत्यविषये, कुशलतायाः विषये लिखितम् आसीत् ।

स्वमातृभूमिं सम्प्राप्य श्रीनारायणः नेहरू इत्यस्य कार्यालयम् अगच्छत् । काश्चन सामान्याः चर्चाः कृत्वा सः प्राध्यापकेन दत्तं पत्रं नेहरू इत्यस्मै दत्त्वा कार्यालयात् निर्गतः । श्रीनारायणस्य विषये पत्रे यत् लिखितम् आसीत्, तत् पठित्वा नेहरू श्रीनारायणं पुनराह्वयत् । किञ्चित् दूरं गतः श्रीनारायणः कार्यालयं यदा पुनः प्रविष्टः, तदा नेहरू तं कांश्चन प्रश्नान् अपृच्छत् । ततः नेहरू तस्मै विदेशसेवायाः दायित्वम् अयच्छत् । एवं श्रीनारायणस्य राजनीतिप्रवेशः अभवत् ।

विवाहः, परिवारश्च

[सम्पादयतु]

१९४९ तमे वर्षे श्रीनारायणेन विदेशसेवायाः कार्यं प्रारब्धम् । तस्य प्रथमनियुक्तिः सचिवत्वेन बर्मा-देशस्य रङ्गून-महानगरस्थे भारतीयदूतावासे अभवत् । यदा सः भारतीयदूतत्वेन रङ्गून-महानगरे कार्यरतः आसीत्, तदा तस्य सम्पर्कः बर्मीकन्यया मा टिण्ट टिण्ट इत्यनया सह अभवत् । सा रङ्गून-महानगरे YWCA संस्थायां कार्यकर्ता आसीत् । मा टिण्ट टिण्ट जानाति स्म यत्, श्रीनारायणः लॉस्की इत्यस्य शिष्यः इति । अतः सा तं ‘राजनैतिकस्वतन्त्रता’-विषये वक्तुम् आह्वयत् । क्रमशः वारं वारं मेलनेन तौ प्रेमपाशेन बद्धौ अभवताम् । प्रेम तु अभवत्, परन्तु विवाहं कर्तुं भारतीयसंविधानम् अनुमतिं न यच्छति स्म । यतो हि विदेशसेवायां रतः अधिकारी विदेशस्य नागरिकेण सह विवाहं कर्तुं न शक्नोति इति नियमः भारतीयसंविधाने उल्लिखितः । अतः श्रीनारायणः प्रधानमन्त्रिकार्यालयं विवाहानुमत्यै विनतिपत्रं प्रैषयत् । प्रधानमन्त्रिकार्यालयात् श्रीनारायणेन अनुमतिः प्राप्ता । १९५१ तमस्य वर्षस्य 'जून'-मासस्य अष्टमे दिनाङ्के श्रीनारायणस्य मा टिण्ट टिण्ट इत्यनया सह विवाहः अभवत् । विवाहानन्तरं मा टिण्ट टिण्ट स्वनाम परिवर्त्य उषा अभवत् । भारते उषा नारायणन् महिलाकल्याणस्य कार्ये सल्लग्ना अभवत् । तयोः पुत्र्योः नाम क्रमेण चित्रा, अमृता च ।

भारतीयराजदूतत्वेन श्रीनारायणस्य कार्याणि

[सम्पादयतु]

भारतस्य विदेशसेवायाः दायित्वं वहन् श्रीनारायणः रङ्गून-टोकियो-लण्डन्-कॅनबेरा-हनोई इत्येतेषु स्थानेषु स्थितेषु दूतावासेषु कार्यम् अकरोत् । सः थाईलेण्ड्(१९६७-६९)-टर्की(१९७३-७५)-चीन(१९७६-७८)-देशेषु अपि भारतीयदूतत्वेन दायित्वम् अवहत् । १९७४ तमे वर्षे पाकिस्थानस्य विभाजनान्तरम् अमेरिका-देशेन सह भारतस्य सम्बन्धाः सम्यक् नासन् । अतः इन्दिरा गान्धी श्रीनारायणं वाशिङ्गटन-महानगरे स्थितं भारतीयदूतवासं प्रैषयत् । १९८४ वर्षपर्यन्तं श्रीनारायणः अमेरिका-देशे एव आसीत् । १९४९ तः १९७८ पर्यन्तं विदेशसेवायां रतः श्रीनारायणः भारतस्य सम्मानं सर्वत्र अवर्धयत् । १९४९ तमे वर्षे नेहरू यदा प्रधानमन्त्री आसीत्, तदा श्रीनारायणेन विदेशसेवायाः दायित्वं स्वीकृतम् आसीत् । १९८४ तमे वर्षे यदा विदेशसेवायाः दायित्वात् श्रीनारायणः विमुक्तः अभवत्, तदा इन्दिरा गान्धी भारतगणराज्यस्य प्रधानमन्त्री आसीत् ।

केन्द्रमन्त्रिमण्डले स्थानम्

[सम्पादयतु]

विदेशसेवायाः कार्ये सल्लग्नः श्रीनारायणः कार्यानुभवं, कार्यकुशलतां तु प्रापत् । परन्तु देशस्य दलित-वर्गस्य कृते किमपि विशेषं कर्तुं न शक्तः । भारतीयसंविधाने दलित-वर्गाय आरक्षणस्य सुविधा तु आसीत् । परन्तु समाजस्य केचन जनाः दलित-वर्गस्य उपेक्षां कुर्वन्ति स्म । आरक्षणस्याधिकरे सत्यपि दलित-वर्गः स्वाधिकारं प्राप्तुं सङ्घर्षरतः आसीत् । तस्मिन् सङ्घर्षे जात्याधारितहिंसायाः बाहुल्यमासीत् । परन्तु श्रीनारायणः असांविधानिकसङ्घर्षस्य विरोधी आसीत् । तस्य मनसि भारतीयसंविधानं प्रति दृढनिष्ठा आसीत् । तस्य चिन्तनम् आसीत् यत्, “राजनैतिकसत्तायाः उपयोगं कुर्वन्, जात्याधारितहिंसाम् अकृत्वा च दलित-वर्गस्य विकासः कर्तव्यः । राजनीत्यादिक्षेत्रेषु सक्रियाः भूत्वा दलित-जनाः अपि उच्चस्थानेषु आरूढाः भवितुम् अर्हन्ति” इति । एतत् लक्ष्यं हृदि निधाय श्रीनारायणेन १९८४ तमे वर्षे संसद्प्रवेशस्य निर्णयः कृतः ।

१९८४, १९८९, १९९१ वर्षाणां निर्वाचने केरलराज्यस्य ओट्टपाळम्-संसदीयक्षेत्रात् बहुमतेन निर्वाचितः श्रीनारायणः वारत्रयं लोकसभायाः सदस्योऽभवत् । भारतसर्वकारस्य अनेकेषु विभागेषु मन्त्रित्वेन तेन कार्यं कृतम् । केन्द्रिययोजनामन्त्री, विदेशमन्त्री, विज्ञापन-प्रौद्योगिकीमन्त्री, अन्तरिक्ष-समुद्र-अणुशक्ति-विकासमन्त्री भूत्वा सः देशसेवाम् अकरोत् ।

१९९२ तमे वर्षे उपराष्ट्रपतिपदं रिक्तमभवत् । अतः तत्कालीनः प्रधानमन्त्री श्रीनारायणस्य नाम उपराष्ट्रपतिप्रत्याशित्वेन अघोयत् । ततः विपक्षसहितम् अन्यपक्षाः अपि श्रीनारायणस्य समर्थनम् अकुर्वन् । १९९२ तमस्य वर्षस्य 'अगस्त'-मासस्य एकविंशतितमे (२१/८/१९९२) दिनाङ्के श्रीनारायणः भारतगणराज्यस्य उपराष्ट्रपतित्वेन दायित्वं स्वयकरोत् ।

उपराष्ट्रपतिः राज्यसभायाः अध्यक्षोऽपि भवति । श्रीनारायणः विनम्रतया, निर्भयतया, नियमानुसारं, तटस्थतया च राज्यसभायाम् अध्यक्षत्वेन कार्यम् अकरोत् । राज्यसभायाम् अनुशासनसम्बद्धां नीतिं रचितुं तेन 'एथिक्स्'-समित्याः कार्यं वेगवन्तं कारितम् । तस्याः समित्याः विषये कोऽपि अध्यक्षः बहु महत्वं नायच्छत् । परन्तु अनुशासनसल्लग्नायै तस्यै समित्यै श्रीनारायणः बहुगभीरतया कार्यम् अकरोत् । तेन तस्य प्रशंसा अपि अभवत् ।

श्रीनारायणः यदा उपराष्ट्रपतित्वेन कार्यरतः आसीत्, तदा १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के श्रीशङ्करस्य कार्यकालः पूर्णः अभवत् । शिवसेना-पक्षं विहाय सर्वे पक्षाः श्रीनारायणस्य नाम राष्ट्रपतिप्रत्याशित्वेन समर्थितवन्तः । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के यत् राष्ट्रपतिनिर्वाचनम् अभवत्, तस्मिन् श्रीनारायणस्य विरोधित्वेन टी एन् शेषन् आसीत् । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य सप्तदशे (७/७/१९९७) दिनाङ्के ९५% मतैः श्रीनारायणस्य विजयः अभवत् । १९९७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/१९९७) दिनाङ्के सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः श्री जे ए वर्मा श्रीनारायणेन राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकारयत् ।

भारतस्वतन्त्रतायाः सुवर्णजयन्तीदिवसः राष्ट्रपतित्वेन श्रीनारायणस्य महत्वपूर्णदिवसः आसीत् । भारतस्वतन्त्रतादिवसस्य उत्सवः हर्षोल्लासेन सह आचरितः देशजनैः । भारतवासिनः सम्बोद्ध्य तत्कालीनप्रधानमन्त्री गुजराल अवदत्, “महात्मनः कथनम् आसीत् यत्, अहं तदा सन्तुष्टो भवामि, यदा भारतगणराज्यस्य सर्वोच्चपदे अर्थात् राष्ट्रपतिपदे कोऽपि दलित-जनः आरूढो भवति । महात्मनः इच्छा पूर्णा अभवत् इति अहं देशजनान् वक्तुम् इच्छामि । अद्य अस्माकं देशस्य सर्वोच्चपदे कश्चित् दलित-जनः आरूढोऽस्ति । अस्माकं राष्ट्रपतिः श्रीनारायणः अत्यन्तनिर्धनपरिवारे जन्म प्रापत् । अद्य सः भारतविकासस्य मूख्यधारायाम् आगत्य देशस्य विकासे महत्वपूर्णं योगदानं कुर्वन् अस्ति” इति । भारतीयलोकतन्त्रदिवसस्य सुवर्णजयन्ती अपि श्रीनारायणस्य अध्यक्षतायामेव आचरिता देशजनैः ।

श्रीनारायणस्य राष्ट्रपतित्वेन कार्यकाले वारद्वयं लोकसभायाः भङ्गः अभवत् । प्रथमवारं १९९७ तमस्य वर्षस्य 'दिसम्बर'-मासस्य चतुर्थे (४/१२/१९९७) दिनाङ्के गुजराल-रचितस्य सर्वकारस्य पतनम् अभवत् । १९९८ तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे (२६/४/१९९८) दिनाङ्के वाजपेयी-रचितस्य सर्वकारस्य पतनम् अभवत् ।

केन्द्रे यः पक्षः शासनं करोति, सः राष्ट्रपतिपदस्य दुरुपयोगं करोति इति सर्वेषां ज्ञानमस्ति । राष्ट्रपतिपदारूढः व्यक्तिः देशात् अधिकं कस्यचित् पक्षस्य कृते ऋणी भवति चेत्, न केवलं तस्य पक्षस्य लाभाय अपि तु देशविरोधिनिर्णयकरणे अपि सः सङ्कोचं नानुभवति । परन्तु श्रीनारायणः स्वस्य कार्यकाले राष्ट्रपतिपदस्य गौरवरक्षणेन सह तस्य पदस्य गौरववर्धनमपि अकरोत् । तस्य शासनकाले वारद्वयं राज्यसर्वकारात् शासनं कर्षयित्वा तस्मिन् राज्ये राष्ट्रपतिशासनस्य घोषणार्थं प्रस्तावः आसीत् । १९९७ तमस्य वर्षस्य 'अक्तूबर'-मासस्य द्वाविंशतितमे (२२/१०/१९९७) दिनाङ्के गुजराल-सर्वकारेण कल्याण सिंह इत्यनेन उत्तरप्रदेशराज्ये चालितस्य शासनस्य विरोधं कृत्वा राष्ट्रपतिशासनस्य प्रस्तावः कृतः । ततः १९९८ तमस्य वर्षस्य 'दिसम्बर'-मासस्य पञ्चविंशतितमे (२५/११/१९९८) दिनाङ्के वाजपेयी-सर्वकारेण अपि राष्ट्रपतिशासनस्य प्रस्तावः कृतः आसीत् । तस्य सर्वकारेण बिहारराज्यस्य राबडी देवी इत्यस्याः सर्वकारस्य निरस्ततायाः याचना कृता आसीत् । परन्तु विवेकी, देशभक्तः श्रीनारायणः देशहिताय तटस्थनिर्णयं स्व्यकरोत् । सः तयोः राज्ययोः राष्ट्रपतिशासनस्य घोषणां नाकरोत् । एवं भारतगणराज्यस्य तयोः राज्ययोः सङ्घीय(Federalism)अधिकारस्य रक्षणम् अभवत् ।

२००२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे (२५/७/२००२) दिनाङ्के राष्ट्रपतित्वेन श्रीनारायणस्य कार्यकालः पूर्णः अभवत् । “इतोऽपि बहूनि कार्याणि मया कर्तव्यानि आसन् । परन्तु मम कार्यकालसमाप्तिकारणत्वात् अहं तानि कार्याणि कर्तुं न शक्तवान्” इति एकस्मिन् साक्षात्कारे श्रीनारायणेन उक्तम् आसीत् । तस्य साक्षात्कारस्य कश्चित् अंशः अत्र लिखितः ।

As the President of India, I had lots of ecperiences that were full of pain and helplessness. There were occasions when I could do nothing for people and for the nation. These experiences have pained me a lot. They have depressed me a lot. I have become agonised of the limitations of power. Power and the helplessness surrounding it are a peculiar tragedy, in fact.

मृत्युः

[सम्पादयतु]

२००५ तमस्य वर्षस्य 'नवम्बर'-मासस्य नवमे (९/११/२००५) दिनाङ्के भारतगणराज्यस्य दशमराष्ट्रपतेः श्रीनारायणस्य देहावसानम् अभवत् । पञ्चाशीतिवर्षीयस्य श्रीनारायणस्य अन्तिमसंसारः देहली-महानगरे स्थितस्य शान्तिवनस्य समीपं यमुनानद्याः तीरे अभवत् ।


भारतस्य राष्ट्रपतयः
पूर्वतनः
शङ्कर दयाल शर्मा
के आर् नारायणन् अग्रिमः
ए पि जे अब्दुल् कलाम्

सम्बद्धाः लेखाः

[सम्पादयतु]

दलित

राष्ट्रपतिः

सर्वोच्चन्यायालयः

राष्ट्रपतिभवनम्

जवाहरलाल नेहरु

बाह्यानुबन्धाः

[सम्पादयतु]

http://www.indiapicks.com/stamps/Presidnts_PMs/KR_Narayanan.htm

http://www.iloveindia.com/indian-heroes/k-r-narayanan-biography.html

http://politics.jagranjunction.com/2011/08/02/former-president-k-r-narayanan-profil/

http://jmi.ac.in/cdms/tribute-to-Dr-KR-Narayanan

http://www.indohistory.com/k_r_narayanan.html Archived २०१२-११-११ at the Wayback Machine

http://www.penguinbooksindia.com/en/content/kr-narayanan

http://www.mapsofindia.com/on-this-day/27th-october-1920-tenth-indian-president-k.r.-narayanan-was-born


"https://sa.wikipedia.org/w/index.php?title=के_आर्_नारायणन्&oldid=482714" इत्यस्माद् प्रतिप्राप्तम्