अनन्तपुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अनन्तपुरम्
—  मण्डलम्  —

अनन्तपुरम्
आन्ध्रप्रदेशस्य मण्डलानि
निर्देशाङ्काः

१४°४१′उत्तरदिक् ७७°३६′पूर्वदिक् / 14.68°उत्तरदिक् 77.6°पूर्वदिक् / १४.६८; ७७.६

देशः भारतम्
राज्यम् आन्ध्रप्रदेशः
मण्डलम् अनन्तपुरम्
जनसङ्ख्या

• सान्द्रता

३६,४०,४७८ (2001)

190 /किमी2 (492 /वर्ग मील)

समयवलयः IST (UTC+05:30)
विस्तीर्णम् 19,130 वर्ग किलोमीटर (7,390 वर्ग मील)

अनन्तपुरमण्डलम् (Anantapur District) आंध्रप्रदेशराज्ये स्थितम् एकं मण्डलम् ।

इतिहासः[सम्पादयतु]

मौर्यैः, बाणैः, राष्ट्रकूटिभिः, चोलैः, चालुक्यैः, होयसल्-विजयनगरराजैः, असप्जाहीवंशजैः, आग्लेयैश्च परिपालितम् अनन्तपुरमण्डलम् । १८८१ तमे वर्षे आविर्भूतमिदं मण्डलम् । अनन्तसागराख्यं किञ्चन सरः वर्तते इत्यतः अनन्तपुरम् इति नामाभिहितम् । आन्ध्रप्रदेशराज्यस्य प्रथममुख्यमन्त्री श्रीमान् नीलं सञ्जीवरेड्डिः, मर्कसिस्ट्-दलनायकः नीलं राजशेखररेड्डिः च अस्य मण्डलस्य वासिनौ ।

भौगोलिकम्[सम्पादयतु]

मण्डलस्य प्राच्यां कडपमण्डलं, पश्चिमदक्षिणयोः कर्णाटकराज्यम्, उत्तरेकर्नूलुमण्डलं च सीमायां विराजन्ते । मैसूरुपीठभूमेः उत्तर सीमायां समुद्रोपरितलात् ६७० कि.मी उन्नतमस्ति इदं मण्डलम् । १०.२% भूभागः अरण्य एन विस्तृतः । वज्रकरुरप्रान्ते वज्रनिधिः पेन्ना, कुमदवल्ली, भैरवमनितिप्पा,तुङ्गभद्रा इत्यादिभ्यः जलं लभ्यते । मल्बरीवनानि, क्षुमानीडानि इत्यादयः जलजातीनाम् – उपाधिमार्गाः ।

कृषिः वाणिज्यं च[सम्पादयतु]

कलायः आढकी, कार्पाशः, पलाण्डुः, फलानां च सस्यं विस्तृतं वर्तते । श्रीकृष्णदेवरायविश्वविद्यालयः, सत्यसायीविश्वविद्यालयः च वर्तेतेऽत्र ।

वीक्षणीयस्थलानि[सम्पादयतु]

लेपाक्षीस्थितः नन्दीश्वरालयः, ताडिपत्रिस्थः चिन्तलरामस्वामिदेवालयः, कदिरिग्रामे श्रीलक्ष्मीनरसिंहस्वामिदेवालयः,पुट्टपर्ति सत्यशायिसन्निधिः, पेनुगोण्ड गगनमहलदुर्गं, पेन्ना-अहोबिले पेन्ना-जलपादं, तत्रापि लक्ष्मीनरसिंहस्वामिदेवालयः इत्यादीनि प्रमुखपर्याटककेन्द्राणि सन्ति ।

वीथिका[सम्पादयतु]

तालूकाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनन्तपुरमण्डलम्&oldid=482217" इत्यस्माद् प्रतिप्राप्तम्