वाल्मीकिः
वाल्मीकिमहर्षिः (Valmiki Maharshi) श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।
रत्नाकरः वाल्मीकिरभूत्.....
[सम्पादयतु]रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् । रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते ।
शीर्षकपाठ्यांशः
[सम्पादयतु]शोकः श्लोकत्वमागतः
[सम्पादयतु]एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत् । स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् ।तस्य मुखात् शापः श्लोकरूपेण निःसृतः । स च -
- मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
- यत्क्रौञ्चमिथुनादेकमवधि: काममोहितम्॥ इति ॥
रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Webarchive template wayback links
- Wikipedia articles with BIBSYS identifiers
- Pages with red-linked authority control categories
- Wikipedia articles with BNE identifiers
- Wikipedia articles with BNF identifiers
- Wikipedia articles with CINII identifiers
- Wikipedia articles with GND identifiers
- Wikipedia articles with ISNI identifiers
- Wikipedia articles with LCCN identifiers
- Wikipedia articles with NDL identifiers
- Wikipedia articles with NKC identifiers
- Wikipedia articles with NLA identifiers
- Wikipedia articles with SELIBR identifiers
- Wikipedia articles with SUDOC identifiers
- Wikipedia articles with VIAF identifiers
- रामायणस्य पात्राणि
- संस्कृतकवयः
- ऋषयः