"शत्रुघ्नः" इत्यस्य संस्करणे भेदः
No edit summary |
(लघु) removed Category:विषयः वर्धनीयः; added Category:श्टब्स् संस्कृतसम्बद्धाः using HotCat |
||
पङ्क्तिः १२: | पङ्क्तिः १२: | ||
[[वर्गः:रामायणस्य पात्राणि|शत्रुघ्नः]] |
[[वर्गः:रामायणस्य पात्राणि|शत्रुघ्नः]] |
||
[[वर्गः:बाह्यानुबन्धः योजनीयः]] |
[[वर्गः:बाह्यानुबन्धः योजनीयः]] |
||
[[वर्गः: |
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]] |
||
[[वर्गः:सारमञ्जूषा योजनीया]] |
[[वर्गः:सारमञ्जूषा योजनीया]] |
१०:०८, ३ आगस्ट् २०१५ इत्यस्य संस्करणं
शत्रुघ्नः अयोध्याधिपस्य दशरथचक्रवर्तिनः पुत्रः । सुमित्रा अस्य माता । लक्ष्मणः अस्य सहोदरः । शत्रून् हन्तीति शत्रुघ्नः इति रूपनिष्पत्तिः । कुशध्वजस्य पुत्री श्रुतकीर्तिः अस्य पत्नी । सुबाहुः शत्रुघाती च अस्य द्वौ पुत्रौ । शत्रुघ्नः कनिष्ठः रामस्य अनुजः। सः सुमित्रापुत्रः।
यथा लक्षणः रामम् अनुसरति तथा शत्रुघ्नः भरतं सर्वत्र अनुसरति स्म । यदा भरतस्य मातामहः केकयराजः भरतम् आह्वयति तदा शत्रुघ्नः अपि तेन सह गच्छति। रामलक्ष्मणयोः वनवासकाले यदा भरतः राजधानीं न प्रविशामि इति विचिन्त्य नन्दीग्रामे तिष्टति शत्रुघ्नः अपि तत्रैव तिष्टति। धनुर्विद्यापारङ्गतः शत्रुघ्नः दुष्टराजस्य लवणासुरस्य वधं करोति। लवणासुरः तस्य पित्रा रुद्रद्वारा प्राप्तस्य शूलस्य साहाय्येण अजेयः आसीत्। दुष्ट्बुद्धिः लवणासुरः साधुजनानां मुनीनां च पीडनं करोति स्म । लवणासुरस्य पीडा यदा असहनीया भवति तदा तस्य पिता राजा मधुः समुद्रे पतित्वा मृतः भवति। परन्तु शत्रुघ्नः रामस्य निर्देशानुसारं लवणासुरं शूलरहितसमयं दृष्ट्वा हतवान्।