कृष्णामण्डलम्
| కృష్ణా कृष्णा |
|
| — मण्डलम् — | |
|
|
|
| निर्देशाङ्काः | |
| देशः | भारतम् |
| राज्यम् | आन्ध्रप्रदेशः |
| केन्द्रप्रदेशानि | मचिलिपट्टणम् |
| जनसङ्ख्या |
४५,२९,००९ • ५१९ /km2 ( /sq mi) |
| समयवलयः | IST (UTC+05:30) |
| विस्तीर्णम् | ८,७२७ square kilometres ( sq mi) |
| जालस्थानम् | http://www.krishna.gov.in |
अन्तर्विषयाः |
[सम्पादयतु] इतिहासः
राजमण्ड्रीतः माचर्लपर्यन्तम्, मचलीपट्टनतः मुनगालपर्यन्तं यः भूभागः वर्तते सः कृष्णामण्डलनाम्ना व्यवाह्रीयमानः आसीत् स्वातन्त्र्यत् पूर्वम् । यदा अस्य मण्डलस्य पुनर्विभजनम् आसीत् तदा अस्य सीमायां परिवर्तनानि जातानि। १९०४ तमे वर्षे गुण्टूरुमण्डलम्, १९२५ तमे वर्षे पश्चिमगोदावरी मण्डलम्, १९५९ तमे वर्षे नलगोण्डमण्डलं प्रति केषाञ्चन प्रान्तानां योजनम् इत्येतादृशकार्यैः सीमायां परिवर्तनानि सम्पन्नानि । मण्डलमिदं वाणिज्यक्षेत्रे , व्यावसायिकक्षेत्रे, राजनीतिक्षेत्रे च वृध्दिं गतम् । भारतजातीयोद्यमप्रमुखाः पट्टाभिसीतारामय्या, मटनूरि कृष्णारावः, अय्यदेवर् कालेश्वरः इत्यादयः एतस्मिन् एव मण्डले प्राप्तजन्मानः । भारतजातीयत्रिवर्णध्वजस्य रुपकर्तुः पिङ्गलिवेङ्कय्यमहाशयस्य जन्मभूमिरपि । मचलीपट्टणं फ्रेञ्च-ब्रिटिष्- पालकानां प्रधानस्थानम् आसीत् । प्रथम-कर्मागारनिर्माणं मचिलीपट्टणे( बन्दर्) १६११ तमे संवत्सरे ब्रिटिष्- पालकैः कृतम् । ततः पूर्वम् अयं प्रान्तः शातवाहन-विष्णुकुण्डिन-बृहत्पलायन-शालङ्कायन-गोलकोण्डनवाब्-कोण्डवीटिरेड्डि-विजयनगरचक्रवर्तीत्यादिराजैः परिपालितः । १७९४ तः कलक्टरपालनमारब्धम् । चल्लपल्ली, देवरकोण्ड, नूजिवीडु, मौलवरम्, मुक्त्याल, मीर्जापुरम्, इत्यादीनि संस्थानानि अस्मिन् एव मण्डले आसन् ।
[सम्पादयतु] भौगोलिकम्
अस्य मण्डलस्य प्राग्दक्षिणदिशोः बङ्गालाखातसमुद्रः, पश्चिमगोदावरी मण्डलम्, पश्चिम दिशि गुण्टूरु-नल्गोण्डमण्डले, उत्तरदिशि खम्मं मण्डलं च वर्तते ।
[सम्पादयतु] कृषिः वाणिज्यं च
इब्रहीम्पट्टणम्, गङ्गिनेनिप्रान्ते क्रोमैट्, जग्गय्यपेटप्रान्ते नीलशिलाः, कृष्णागोदावरीसंयुक्तक्षेत्रे सहजवायुनिक्षेपाः परिटालप्रान्ते वज्राणि च उपलभ्यन्ते । जग्गय्यपेट-वेदाद्रिपरिसरयोः सिमेण्ट्कर्मगाराः उय्यूरु, चल्लपल्ली, नूजिवीडु इत्यादिषु प्रान्तेषु शर्करा- कर्मागाराः कोण्डपल्लिप्रन्ते पाञ्चालिकानां निर्माणं विजयवाडनगरे आयुर्वेदौषधनिर्माणम्, पादरक्षाणां निर्माणं च प्रचलति । गुण्टुपल्लिप्रान्ते वेगल्कार्यशाला, बन्दर् आन्ध्रासैण्टिफिक्कम्पेनी, मायासुवर्णस्य (Rold Gold) निर्माणशालाः विराजन्ते । कृषकाणां प्रधानसस्यं धान्यम् । इक्षुः, कार्पासः, मरीचिका, आढ्की, तिलाः अपि अत्रत्याः सेद्यं कुर्वन्ति । भारतप्रतिष्ठात्मकेषु अङ्गारक-विद्युदुत्पादन-केन्द्रेषु अन्यतमम् “ इब्रहीम्पट्टने” विराजते । गण्णवरे बैकान्कर्मागारः,गुड्लवल्लेरु-कुक्कुटशालाः, शिलाभञ्जनशालाः वर्तन्ते ।
[सम्पादयतु] वीक्षणीयस्थलानि
अतीव प्रसिद्धः कनकदुर्गादेवालयः अस्य मण्डलस्य शोभां संवर्धयति विजयवाटिकायाम् । श्रीकाकुलान्ध्रमहाविष्णोः आलयः, मुव्वगोपालः, आगिरिपल्लिशोभनाचलेश्वरालयः, वेदाद्रियोगनृसिंहालयः, तिरुमलगिरिजमलापुरयोः वेङ्कटेश्वरस्वामि- सन्निधयः, नेमलि-वेणुगोपालस्वामिनः आलयः चिलकपूडिपाण्डुरङ्गदेवालयाः प्रसिध्दाः, मठ –मन्दिराणि च शोभन्तेऽस्मिन् मण्डले । प्रकाशनामा सेतुः, गान्धीपर्वतः, मङ्गिनपूडिसागरतीरम्, कोल्लेरुसरः इत्यादीनि पर्याटकानां आकर्षकाणि स्थलानि । विद्यावासिविजयवाटिकायां वैद्यविश्वविद्यालयः वर्तते अत्र । चारित्रकम्- कोण्डपल्लिसंस्थानम्, रैल्वेसंयुक्तक्षेत्रम्, चलनचित्रसम्प्रेषककार्यालयाः, जग्गय्यपेटा-गुडिवाडप्रान्तयोः बौध्द- आरामाश्च भासन्तेऽस्मिन् मण्डले ।