चम्पायमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Champhai district
मण्डलम्
मिझोरामराज्ये चम्पायमण्डलम्
मिझोरामराज्ये चम्पायमण्डलम्
देशः  India
मण्डलम् चम्पायमण्डलम्
विस्तारः ३,१८५.८३च.कि.मी.
जनसङ्ख्या(२०११) १,२५,७४५
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://champhai.nic.in/home.htm
चम्पायनगरस्य विहङ्गम-दृश्यम्
फर्को ग्रामे Kungawrhi Puk इति गर्तः
चम्पाय कन्दरम् - Rice bowl of Mizoram

चम्पायमण्डलं (आङ्ग्ल: Champhai District) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं चम्पाय इत्येतन्नगरम् । बहुवर्णयुताः विशिष्टाः अत्रस्थाः परम्पराः, तदर्थं प्रसिद्धमिदं मण्डलम् । १९८७ तमे वर्षे फेब्रुवरि मासे भारतदेशस्य मण्डलत्वेन अस्य स्थापना कृता । सीमावर्तिमण्डलत्वेनाऽपि महत्त्वपूर्णं स्थानं वर्तते अस्य । ७२२ कि.मी.मितः सीमाप्रदेशः अस्मिन् मण्डले अन्तर्भवति ।

भौगोलिकम्[सम्पादयतु]

चम्पायमण्डलस्य विस्तारः ३,१८५.८३ चतुरस्रकिलोमीटर्मितः अस्ति । भारतदेशस्य ईशान्यसीमायां स्थितं मण्डलमिदम् । अस्य मण्डलस्य पूर्वदिशि तथा दक्षिणदिशि म्यानमारदेशः, उत्तरदिशि मणिपुरराज्यं, पश्चिमदिशि ऐजोलमण्डलं, सेरसिपमण्डलं च अस्ति । अत्र २०८ से.मी.मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या[सम्पादयतु]

चम्पायमण्डलस्य जनसङ्ख्या(२०११) १,२५,७४५ अस्ति । अस्मिन् ६३,३८८ पुरुषा:, ६२,३५७ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८४ अस्ति । अत्र साक्षरता ९५.९१ % अस्ति । मण्डलेऽस्मिन् ६१.४१% जना: ग्रामेषु निवसन्ति ।

ऐतिहसिकं किञ्चित्[सम्पादयतु]

अत्रस्थप्रमुखनिवासिनः मिजोजनाः पूर्वप्रदेशात् आगतवन्तः इति कथ्यते । १५००-१८०० तमवर्षे 'फेङ्गो' इति मिजोजातेः उपजातिसम्बद्धाः जनाः अत्र आगतवन्तः इति मन्यते । १८७९ तमे वर्षे मिजोरामराज्ये ऐतिहासिकं छाक-लेह-थ्लाङ्ग-इण्डोयुद्धं पूर्वमिजो-पश्चिममिजोजनयोः मध्ये जातम् । १९०९ मध्ये एच्.डब्लू.जी.कोल् इत्यनेन मिजोरामराज्यस्य आयुक्तपदं स्वीकृतम् । अनन्तरं बहुदिनानि यावत् आङ्ग्लाधिपत्यमासीत् । १९११ तमे वर्षे चम्पायपरिसरे पाठशाला निर्मिता इति विशेषः । अनन्तरं भारतसङ्घराज्यनिर्माणसमये भारतदेशे समाविष्टः अयं प्रदेशः । १९९० तमे वर्षे चम्पाय इति मण्डलत्वेन अस्य मण्डलस्य स्थापना जाता । अस्य प्रदेशस्य इतिहासः मिजोरामराज्ये उपलभ्यमाने इतिहासे पुरातनतर:, विशिष्टश्च ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले उपमण्डलानि सन्ति तानि यथा -

  • चम्पाय
  • नङ्ग्पा
  • खेइजोल
  • खोबङ्ग
  • पूर्व-लोङ्गदर

लोकजीवनम्[सम्पादयतु]

मिजो जनाः अत्रस्थाः मूलनिवासिनः । ग्रामः एतेषां जनानां सामाजिकमूलघटकः(social unit) । कृषिः अत्रस्थमिजोजनानां प्रमुखोपजीविकासाधनम् । इसाई मिशनरीजनानां कार्यम् आङ्ग्लप्रशासनात् पूर्वकालतः प्रचलति अत्र । तस्य कार्यस्य केचन सुपरिणामाः सन्ति । तेषु शिक्षणस्य प्रसारः, जनैः रोमन लिपेः आङ्गिकारः इति परिणामद्वयं महत्त्वपूर्णम् मन्यते । अस्य प्रदेशस्य मूलजनाः 'Tlawmngaihna' इति धर्मसम्बद्धसङ्कल्पनायाः आचरणं कुर्वन्ति स्म । तस्यां सङ्कल्पनायाम् आतिथ्यं, कारुण्यं, निःस्वार्थता, साहाय्यं च महत्त्वपूर्णाः गुणाः उक्ताः आसन् । सर्वे जनाः इदानीं प्रायशः इसाई जाताः, तथाऽपि तैः सर्वैः गुणैः सह निष्ठापूर्णतया कार्यं कुर्वन्ति । मिजोजनजात्याम् उच्चानीचता, जातिभेदाः न सन्ति । सम्पूर्णः ग्रामः एकः कुटुम्बः इति मत्वा प्रत्येकस्मिन् उत्सवे, समस्यायामपि जनाः हार्दं सहभागं वहन्ति ।

  • उत्पादनसमये उत्सवः - 'Jhum Cultivation' अत्रस्थजनाः आचरन्ति । जनाः वृक्षान् कर्तयन्ति, वृक्षकाण्डान्-पर्णानि दिधक्षन्ति, तस्मिन्नेव स्थाने कृषिकार्यम् आरभन्ति च । मिम् कुट्, चफर् कुट्, पोल् कुट् इत्येतान् उत्सवान् जनाः आचरन्ति । चेरो(Cheraw), खोलाम्(Khuallam), छेह्-लाम् च जनानां प्रमुखनृत्यप्रकाराः सन्ति । मण्डलेऽस्मिन् मिजो, आङ्ग्लभाषा च भाषे प्रचलतः ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • ऐजोल इत्यस्मात् मिजोरामनगरात् १९२ कि.मी. दूरे विद्यमानं चम्पाय-नगरम्
  • चम्पायनगरपरिसरे अखण्ड-बृहत्-शिलाखण्डेषु निर्मापितानि रेखाचित्राणि, छुरा-फारेप्, चोङ्गीचिही-काइ ।
  • मुर्लेन राष्ट्रियोद्यानम् ।
  • चम्पाय कन्दरम् - Rice bowl of Mizoram
  • रेह्दिल्- RihDil हृदयाकारः सरोवरः ।
  • फर्को ग्रामे Kungawrhi Puk इति गर्तः पुरातनकालस्य विशिष्टग्रामस्य प्रवेशद्वारम् आसीत् इति मन्यते ।
  • Thasiama Seno Neihna - शैलप्रस्थम्
  • Sikpui Lung - ये जनाः सिक्पुइ-उत्सवे अग्रेसरा: गायकाः, गायिकाः वा सन्ति तेभ्यः एषा शिला निर्मिता । अत्र तिष्ठन्तः ते गायन्ति ।
  • Lamsial Puk - गह्वरः
  • मुरा पुक् - गह्वरः
  • मिजोरामराज्ये स्थितेषु शिखरेषु उच्चतमं शिखरं 'फोङ्गपोय्'(Phawngpui)(२२१० मी.)
रिह्दिल् सरोवरः
मुरा पुक् - गह्वरः

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=चम्पायमण्डलम्&oldid=481543" इत्यस्माद् प्रतिप्राप्तम्