बालगङगाधरतिलकः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

This article has to be merged with बालगङ्गाधरतिलकः

एतद एकः निर्वाचित लेख अस्ति। अधिक विज्ञप्या टक्टकायन करोतु।



बालगङ्गाधरतिलकः

बालगङ्गधरतिलकः (मराठी: बाळ गंगाधर टिळक) महाराष्ट्रे रत्नगिरिमण्डले चिखल् नाम्नि ग्रामे जातः । षड्पञ्चाशदुत्तराष्टादशशततमे (१८५६) वर्षे जुलैमासस्य त्रयोविंशति दिनाङ्के जन्म लेभे । रामचन्द्रतिलकः तस्य पिता प्रसिध्दः गणितव्याकरण्शास्त्रपण्डितः, विमर्शकश्च । माता पार्वतीबाई । पितेव अयमपि महान् गणितक्याकरणपण्डितः। विद्यार्थिदशायामेव देशसेवातत्परः अभवत् । न्यायशास्त्रेऽपि पट्ट्भद्रो जातः तिलक्महाशयः । पुण्यपत्तने कतिचन वर्षाणि गणितशास्त्रे अद्यापकत्वेन आसीत् सः । तिलक् महाशयः मराठिभाषया केसरी इति, आङ्ग्लभाषया मराठा इति च पत्रिकाद्वयं प्राकाशयत् । स्वीयान् अभिप्रायान् जनबाहुल्ये प्रचारितवान् । स्वपत्रिकायां स्वराज्यमाहात्म्यं, स्वातन्त्र्यस्य आवश्यकताञ्च स्वेच्छया निर्भीत्या स्पष्टीकृतवान् । स्वातन्त्र्यं मम् जन्मसिद्ध: अधिकारः इति अगर्जत् । निरन्तरम् उद्यमशीलं तं पाश्चात्याः भारतीयानाम् असन्तोषजनकः इति अभिवर्णितवन्तः।

द्विनवत्युत्तराष्टादशशततमे (१८९२) वर्षे लण्डन् नगरे विद्वत्सम्मेलनम् अभवत् । तत्र वेदानां प्रचीनताम् अधिकृत्य पत्रमेकं समर्पितवान् । शर्मण्य- (जर्मन्) देशीयभाषाशास्त्रपण्डितः माक्स्मुल्लर् अमुं बहुधा प्रशंसितवान् । त्रिणवत्युत्तराष्टादशशततमे(१८९३) वर्षे शिवाजिजयन्तीम्होत्सवं गणेशचतुर्थी महोत्सवञ्च देशीयानां सङ्घीभावाय प्रचालयत् । उत्सवकारणेन प्रजानां परस्परस्नेहभावः वृध्दिं प्राप्नोतु इति तस्य आशयः। १८९६-९७ वत्सरेषु महाराष्ट्रे साङ्क्रामिकरोगेभ्यः, दुर्भिक्षात् च् जनान् रक्षितुं सदीक्षामध्यतिष्टत् । तिलक्- महाशयस्य कीर्तिं प्रतिष्टाञ्च सोढुं असहमानाः अभवन् आङ्ग्लपालकाः । अतः १९०८ तमे वर्षे तं माण्डले कारागृहे निर्बध्दवन्तः । षड्वर्षाणि कारागृहे अतिष्टत् । कारागृहेऽपि सः निरन्तरं ग्रन्थपठनेन ग्रन्थलेखनेन च कालं यापयति स्म । तत्रैव गीतारहस्यनाम्ना भगवद्गीतायाः व्याख्यानं महाराष्ट्र्भाषया अलिखत् ।

वेदकालसम्बध्दैः विषयैः "आर्यन्" नामकं ग्रन्थमपि अरचयत् सः। सर्वतोमुखप्रतिभावन्तं तिलकमहाशयं जनाः 'लोकमान्य' बिरुदेन सम्मनितवन्त:। १-८-१९२० तमे दिने तिलकमहाशयः भौतिककायं परित्यक्त्वान् । तेन उक्ताः स्वदेशवस्तुस्वीकारः, विदेशवस्तुबहिष्कारः, स्वदेशीयाशिक्षाप्रणाली, स्वराज्यसंस्थापनम् इत्याद्याः अंशाः इदानीमपि अस्माभि: अवश्याचरणीयाः । एतादृशः देशभक्तः तिलकमहाशय: अस्माकं प्रातः स्मरणीयः अस्ति। स्वातन्त्र्यं मम जन्मसिद्ध: अधिकारः इत्यपि तेन उद्घोषितम् । एतादृशीं स्फूर्तिं स्वीकृत्य वयमपि देशसेवां कुर्याम |

परिवर्तिनि संसारे मृतः को वा न जायते | स जातो येन जातेन याति वंशः समुन्नतिम् ||