धाराशिव जनपद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(उस्मानाबादमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
धाराशिव जनपद

धाराशिव जिल्हा

उस्मानाबाद् जनपद
जनपद
धाराशिव जनपद
नळदुर्गतः दृश्यम्
नळदुर्गतः दृश्यम्
महाराष्ट्रराज्ये धाराशिव जनपद
महाराष्ट्रराज्ये धाराशिव जनपद
Coordinates (धाराशिव): निर्देशाङ्कः : १७°२१′उत्तरदिक् ७५°१०′पूर्वदिक् / 17.35°उत्तरदिक् 75.16°पूर्वदिक् / १७.३५; ७५.१६-१८°२४′उत्तरदिक् ७६°२४′पूर्वदिक् / 18.40°उत्तरदिक् 76.40°पूर्वदिक् / १८.४०; ७६.४०
देशः भारतम् भारतम्
राज्यम् महाराष्ट्रम्
विभागः मराठवाडा
मुख्यालयः धाराशिव
उपमण्डलानि धाराशिवम् (उस्मानाबाद्), तुळजापुरम्, उमरगा, लोहारा, कळम्ब, भूम, वाशी, पराण्डा
Government
 • Body उस्मानाबाद्-मण्डलपरिषद्
 • जनपदाधिकारी श्री कौस्तुभ दिवेगावकरः
Area
 • Total ७,५६९ km
Population
 (२०११)
 • Total १६,५७,५७६
 • Density २२०/km
जनसङ्ख्याशास्त्रम्
 • साक्षरता ७६.३३%
 • लिङ्गानुपातः ९२०
Time zone UTC+५:३० (भा॰मा॰स॰)
Website धाराशिव जनपद

धाराशिव जनपद (मराठी: धाराशिव जिल्हा, आङ्ग्ल: Dharashiv District), पुरातनं नाम उस्मानाबाद्-जनपद, महाराष्ट्रराज्ये स्थितं मण्डलम्। अस्य मण्डलस्य केन्द्रं धाराशिव इत्येतन्नगरम्। तुळजापुर इति तीर्थस्थानार्थं प्रसिद्धमिदं मण्डलम्।

नळदुर्ग
हुलमुख द्वारम्

भौगोलिकम्[सम्पादयतु]

धाराशिवमण्डलस्य विस्तारः ७,५१२ च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि लातूरमण्डलं, पश्चिमदिशि सोलापुरमण्डलम्, उत्तरदिशि बीडमण्डलं, दक्षिणदिशि कर्णाटकराज्यम् अस्ति । अस्मिन् मण्डले ६०० मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले माञ्जरा, तेरणा, बोरी, बाणगङ्गा, मन्याड, तावरजा, सीना इत्येताः नद्यः सन्ति ।

कृष्युत्पादनम्[सम्पादयतु]

अस्य मण्डलस्य ८०.१३% जनसङ्ख्या कृषिकार्ये रता दृश्यते । यवनालः(ज्वारी), कार्पासः, इक्षुः, कलायः, गोधूमः, तूर, माषः, चणकः 'अळशी' इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।

जनसङ्ख्या[सम्पादयतु]

धाराशिवमण्डलस्य जनसङ्ख्या(२०११) १६,६०,३११ अस्ति । अस्मिन् ८,६१,५३५ पुरुषाः ७,९६,०४१ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे २२१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २२१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.६९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ७६.३३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-

  • धाराशिवम् (उस्मानाबाद्)
  • तुळजापुरम्
  • उमरगा
  • लोहारा
  • कळम्ब
  • भूम
  • वाशी
  • पराण्डा

लोकजीवनम्[सम्पादयतु]

मण्डलेऽस्मिन् बहवः जनाः कृष्यवलम्बिनः सन्ति । मण्डलेऽस्मिन् मराठी, कन्नड, ऊर्दू च इत्यादयाः भाषाः आधिक्येन व्यवहाररूढाः । मण्डलेऽस्मिन् सुविधा-अभावात् उद्यमानां विकासः न जातः । अतः जनानां जीवनपद्धतिः ग्रामीणा दृश्यते । अत्रस्थाः केचन जनाः उपजीविकारूपेण पर्यटनव्यवसायम् आचरन्ति यतो हि मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति पर्यटनस्थानेषु तुळजापुर इति अन्यतमम् ।

वीक्षणीयस्थलानि[सम्पादयतु]

मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । यथा - १ तुळजाभवानी-मन्दिरम्
२ सन्त गोरोबा-मन्दिरम्
३ धाराशिव-लयनानि
४ नळदुर्गः
५ परान्दा-दुर्गः
६ कुन्थलगिरी-जैनमन्दिरम्


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धाराशिव_जनपद&oldid=483078" इत्यस्माद् प्रतिप्राप्तम्